| YouTube Channel

भामयन्-न्ती (bhAmayan-ntI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“भाम क्रोधे”@} 2 ‘भामेर्भामयति क्रोधे तत्रैव शपि भामते।।’ 3 इति देवः।
भामकः-मिका, भामकः-मिका, विभामिषकः-षिका, बाभामकः-मिका
भामिता-त्री, भामयिता-त्री, बिभामिषिता-त्री, बाभामिता-त्री
4 5 भामयन्-न्ती, भामयिष्यन्-न्ती-ती
-- 6 देवदत्ताय भाममानः, -- बिभामिषमाणः, बाभाम्यमानः
भामिष्यमाणः, -- बिभामिषिष्यमाणः, बाभामिष्यमाणः
7 भान्-भामौ-भामः
-- -- -- भामितम्-तः, भामितः, बिभामिषितः, बाभामितः-तवान्
भामः, 8 भामनः, भामः, बिभामिषुः, बाभाम
भामितव्यम्, भामयितव्यम्, बिभामिषितव्यम्, बाभामितव्यम्
भामनीयम्, भामनीयम्, बिभामिषणीयम्, बाभामनीयम्
भाम्यम्, भाम्यम्, बिभामिष्यम्, बाभाम्यम्
ईषद्भामः-दुर्भामः-सुभामः
-- -- भाम्यमानः, भाम्यमानः, बिभामिष्यमाणः, बाभाम्यमानः
भामः, 9 भामिनी 10, भामः
बिभामिषः, बाभामः
भामितुम्, भामयितुम्, बिभामिषितुम्, बाभामितुम्
भामा, भामना, बिभामिषा, बाभामा
भामनम्, भामनम्, बिभामिषणम्, बाभामनम्
भामित्वा, भामयित्वा, बिभामिषित्वा, बाभामित्वा
प्रभाम्य, प्रभाम्य, प्रबिभामिष्य, प्रबाभाम्य
भामम् २, भामित्वा २, भामम् २, भामयित्वा २, बिभामिषम् २, बिभामिषित्वा २, बाभामम्
बाभामित्वा २। 11
प्रासङ्गिक्यः
01
=>
(११५५)
02
=>
(१-भ्वादिः-४४१। अक। सेट्। आत्म।)
03
=>
(श्लो। १४९)
04
=>
[पृष्ठम्०९४९+ २३]
05
=>
[[१। ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इति ण्यन्तात् परस्मैपदमेव।]]
06
=>
[[२। ‘क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः’ (१-४-३७) इति देवदत्तस्य सम्प्रदानता।]]
07
=>
[[३। ‘मो नो धातोः’ (८-२-६४) इति पदान्ते नकारादेशो भवति। नत्वस्यासिद्धत्वात् नलोपो न।]]
08
=>
[[४। तच्छीलादिषु कर्तृषु ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति युच्।]]
09
=>
[[५। भामः = क्रोधः। सोऽस्याऽस्तीति भामिनी = स्त्री। मत्वर्थीय इनिप्रत्यये, ‘ऋन्नेभ्यः--’ (४-१-५) इति ङीपि रूपमेवम्।]]
10
=>
[[आ। ‘पणाय्यरूपाः पनिताकृतीन्ययुः भामिन्य एवाक्षमया स्वकामुकान्।।’ धा। का। १। ५७।]]
11
=>
[पृष्ठम्०९५०+ २५]