भाद्रः (bhAdraH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishभाद्रः [bhādrḥ] भाद्रपदः [bhādrapadḥ], भाद्रपदः [भद्राभिर्युक्ता पौर्णमासी भाद्री सा यस्मिन् मासे अण्] of a lunar month (corresponding to AugustSeptember)
भाद्रद्वये सागरे Jyotiṣam. -दाः (f. ) of the 25th and 26th lunar mansions (पूर्वाभाद्रपदा and उत्तराभाद्रपदा).
Apte 1890
EnglishApte Hindi
Hindiभाद्रः
- भाद्रपदी वा पौर्णमासी अस्मिन् मासे भाद्री+अण्
चान्द्रवर्ष के एक मास का नाम
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritभाद्रः, (भाद्री पौर्णमास्यस्मिन्निति । भाद्री +“सास्मिन् पौर्णमासीति ।” ४ । २ । २१ ।इत्यण् ।) भाद्रपदनक्षत्रयुक्ता पौर्णमासी यस्मिन्मासे सः । वैशाखादिद्वादशमासान्तर्गतपञ्चम-मासः । तत्पर्य्यायः । नभस्यः २ प्रौष्ठपदः ३ भाद्र-पदः ४ । इत्यमरः । १ । ४ । १७ ॥
स च द्विविधः ।सिंहस्थरविकालः सौरः । १ । सिंहस्थरव्या-रब्धशुक्लप्रतिपदादिदर्शान्तो मुख्यचान्द्रः । कृष्ण-प्रतिपदादिपौर्णमास्यन्तो गौणचान्द्रः । २ । इतिमलमासतत्त्वम् ॥
* ॥
तत्र जातफलम् ।“नभस्यमासे खलु जन्म यस्यधीरो मनोज्ञश्च वराङ्गनानाम् ।रिपुप्रमाथी कुटिलोऽतिमर्म्माप्रपन्नभर्त्ता स भवेत् सहासः ॥
”इति कोष्ठीप्रदीपः ॥
* ॥
तत्र गोः प्रसवे नारदः ।“भानौ सिंहगते चैव यस्य गौः सम्प्रसूयते ।मरणं तस्य निर्द्दिष्टं षड्भिर्मासैर्न संशयः ॥
तत्र शान्तिं प्रवक्ष्यामि येन सम्पद्यते शुभम् ।प्रसूतां तत्क्षणादेव तां गां विप्राय दापयेत् ॥
ततो होमं प्रकुर्व्वीत घृताक्तै राजसर्षपैः ।आहुतीनां घृताक्तानामयुतं जुहुयात्ततः ॥
”व्याहृतिभिश्चायं होमः ।“सोपवासः प्रयत्नेन दद्याद्बिप्राय दक्षिणाम् ॥
”इति ॥
तथा ।“सिंहराशौ गते सूर्य्ये गोः प्रसूतिर्यदा भवेत् ।पौषे च महिषी सूते दिवैवाश्वतरी तथा ।तदानिष्टं भवेत् किञ्चित् तच्छान्त्यै शान्तिकंचरेत् ॥
अस्य वामेतिसूक्तेन तद्विष्णोरिति मन्त्रतः ।जुहुयाच्च तिलाज्येन शतमष्टोत्तराधिकम् ॥
मृत्युञ्जयविधानेन जुहुयाच्च तथायुतम् ।श्रीसूक्तेन ततः स्नायात् शान्तिसूक्तेन वा पुनः ॥
मध्यरात्रौ निशीथे वा यदा गौः क्रन्दते तदा ।ग्रामे वास्य गृहे वापि शान्तिकं पूर्व्ववद्दिशेत् ॥
”संक्रमणोत्तरषोडशदण्डात्मकपुण्यकालाभ्यन्तरेगोः प्रसवे विप्रसम्प्रदानकगोप्रदानपूर्व्वकशान्तिःकार्य्या इति विशेषः । तदतिरिक्तसिंहस्थरवौगोः प्रसवे शान्तिमात्रं कर्त्तव्यं न गोः प्रदानम् ।निर्णयसिन्धुधृताद्भुतसागरग्रन्थीयवचनजात-मीमांसानुसारादिति ॥
* ॥
अथ भाद्रकृत्यम् ।तत्र जन्माष्टमीव्रतप्रमाणन्तिथितत्त्वेऽनुसन्धेयम् ।श्रावणपौर्णमास्यनन्तरितभाद्रकृष्णाष्टम्यां रात्रि-मध्ये मुहूर्त्ताष्टमीरोहिणीयोगरूपजयन्तीलाभेतत्रैवोपवासः । उभयदिने चेत्तदा परदिने ।जयन्त्यलाभे तु रोहिणीयुक्ताष्टम्यां उभयदिनेरोहिणीयुताष्टमीलाभे परदिने । रोहिण्यलाभेतु निशीथसम्बन्धिन्यामष्टम्याम् । उभयदिनेनिशीथसम्बन्धे तदसम्बन्धे वा परदिने इति ।तत्र प्रयोगः पूर्व्वदिने संयमं विधाय तद्दिनेकृतप्रातःस्नानादिराचान्तः । ओँ सूर्य्यः सोमइति पठित्वा ओँ तद्विष्णोः परमं पदमित्यादि-मन्त्रेण नारायणं संस्मृत्य ओँ तत् सत् इत्युच्चार्य्यउदङ्मुखो दर्भहस्तस्ताम्रपात्रे कुशतिलजला-न्यादाय ओँ अद्य भाद्रे मासि कृष्णे पक्षे अष्टम्यांतिथौ अमुकगोत्रः श्रीअमुकदेवशर्म्मा विष्णु-लोकप्राप्तिकामः श्रीविष्णुप्रीतिकामो वा श्रीकृष्ण-जन्माष्टमीव्रतमहं करिष्ये इति संकल्पयेत् ।यद्युपवासदिने प्रातः सप्तमी तदाष्टम्यां तिथौइत्यत्र सप्तम्यां तिथावारभ्य इति वक्तव्यम् ।ततः सामगस्तु ओँ देवो वो द्रविणोदा पूर्णांविवष्टासिचं उद्वासिञ्चद्धमुपवा प्रणुद्धमादिदिवोदेव ओहते । इति पठेत् । ओँ धर्म्माय धर्म्मे-श्वराय धर्म्मपतये धर्म्मसम्भवाय गोविन्दायनमो नमः । इत्युच्चार्य्य“ओँ वासुदेवं समुदिश्य सर्व्वपापप्रशान्तये ।उपवासं करिष्यामि कृष्णाष्टम्यां नभस्यहम् ॥
अद्य कृष्णाष्टमीं देवीं नभश्चन्द्रसरोहिणीम् ।अर्च्चयित्वोपवासेन भोक्ष्येऽहमपरेऽहनि ॥
एनसो मोक्षकामोऽस्मि यद्गोविन्द त्रियोनिजम् ।तन्मे मुञ्चतु मां त्राहि पतितं शोकसागरे ॥
आजन्ममरणं यावद्यन्मया दुष्कृतं कृतम् ।तत् प्रणाशय गोविन्द ! प्रसीद पुरुषोत्तम ! ॥
”इति पठेत् ।तत आह्निकं समाप्यार्द्धरात्रे तत्तत्प्रतिमासुपटादिषु वा आवाहनविसर्ज्जनसहितं शाल-ग्रामे घटादिस्थजले वा आवाहनविसर्ज्जन-रहितं पूजयेत् । ततो ध्यानम् ।“माञ्चापि बालकं सुप्तं पर्य्यङ्के स्तनपायिनम् ।श्रीवत्सवक्षःपूर्णाङ्गं नीलोत्पलदलच्छविम् ॥
”इति ध्यात्वा श्रीकृष्ण स्वागतं इति पृच्छेत् ।इदमासनं ओँ कृष्णाय नमः । इत्यासनं दत्त्वाएतत् पाद्यम् ओँ श्रीकृष्णाय नमः ओँ यज्ञाययज्ञेश्वराय यज्ञपतये यज्ञसम्भवाय गोविन्दायनमो नमः । इत्युच्चार्य्य इदमर्घ्यम् ओँ श्रीकृष्णायनमः । इदमाचमनीयम् ओँ श्रीकृष्णाय नमः ।इदमाचमनीयम् ओँ श्रीकृष्णाय नमः । ततोदधिमधुघृतात्मकं मधुपर्कमानीय एष मधुपर्कःओँ श्रीकृष्णाय नमः । इदमाचमनीयम् ओँश्रीकृष्णाय नमः । लौकिकषष्ट्यधिकशतत्रय-तोलकपरिमितान्यूनं जलमानीय ओँ योगाययोगेश्वराय योगपतये योगसम्भवाय गोविन्दायनमो नमः । इदं स्नानीयजलम् ओँ श्रीकृष्णायनमः । इदं वस्त्रं इदमाभरणम् एष गन्धः इदंपुष्पम् एष धूपः एष दीपः इदं नैवेद्यम् ओँविश्वाय विश्वेश्वराय विश्वपतये विश्वसम्भवायगोविन्दाय नमो नमः । इत्यनेन नैवेद्यं दद्यात्स्वापयेच्च । ततो नमो देव्यै श्रियै नमः ।इति मन्त्रेण श्रियं पूजयेत् । ततः स्वगृह्योक्त-विधिनाग्निं संस्थाप्य घृततिलाभ्याम् । ओँधर्स्माय धर्म्मेश्वराय धर्म्मपतये धर्म्मसम्भवायगोविन्दाय नमो नमः स्वाहा । इत्यन्तेनाष्टो-त्तरशतमष्टाविंशतिमष्टौ वा जुहुयात् । ततोगुडघृतेन वसोर्धारां भित्तौ दद्यात् । ततोनाडीच्छेदं भावयेत् । ओँ षष्ठ्यै नम इति षर्ष्ठांपूजयेत् । ततो भगवतः श्रीकृष्णस्य नामकरणान्न-प्राशनचूडाकरणोपनयनोद्वाहसंस्कारान् भाव-येत् । ततः प्रणवादिनमोऽन्तेन तत्तन्नामभिःपूजयेत् । ओँ देवक्यै नमः एवं वसुदेवाय यशो-दायै नन्दाय रोहिण्यै चण्डिकायै बलदेवायदक्षाय गर्गाय चतुर्म्मुस्वाय इत्यनेन यथाशक्तिपञ्चोपचारैः पूजयेत् । ततः शङ्खेन कुशपुष्प-चन्दनजलान्यादाय भूमौ जानुनी पातयित्वा, ओँ क्षीरोदार्णवसंभूत अत्रिनेत्रसमुद्भव ! ।गृहाणार्ध्यं शशाङ्केदं रोहिण्या सहितो मम ॥
ओँ सोमाय सोमेश्वराय सोमपतये सोमसम्भवायगोविन्दाय नमो नमः । इत्यर्ध्यं दद्यात् । ततःप्रणाममन्त्रौ ।“ओँ ज्योत्स्नायाः पतये तुभ्यं ज्योतिषां पतयेनमः ।नमस्ते रोहिणीकान्त ! सुधावास नमोऽस्तु ते ॥
नभोमण्डलदीपाय शिरोरत्नाय धूर्ज्जटेः ।कलाभिर्वर्द्धमानाय नमश्चन्द्राय चारवे ॥
”ततश्च ।“अनघं वामनं शौरिं वैकुण्ठं पुरुषोत्तमम् ।वासुदेवं हृषीकेशं माधवं मधुसूदनम् ॥
वराहं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम् ।दामोदरं पद्मनाभं केशवं गरुडध्वजम् ॥
गोविन्दमच्युतं देवमनन्तमपराजितम् ।अधोक्षजं जगद्बीजं स्वर्गस्थित्यन्तकारिणम् ॥
अनादिनिधनं विष्णुं त्रिलोकेशं त्रिविक्रमम् ।नारायणं चतुर्ब्बाहुं शङ्खचक्रगदाधरम् ॥
पीताम्बरधरं नित्यं वनमालाविभूषितम् ।श्रीवत्साङ्कं जगत्सेतुं श्रीकृष्णं श्रीधरं हरिम् ।प्रपद्येऽहं सदा देवं सर्व्वकामप्रसिद्धये ॥
”इति स्तवः ॥
ततः प्रणमेत् ।“प्रणमामि सदा देवं वासुदेवं जगत्पतिम् ।त्राहि मां सर्व्वदेवेश हरे ! संसारसागरात् ॥
”ततः प्रार्थयेत् ।“ओँ त्राहि मां सर्व्वपापघ्न दुःखशोकार्णवाद्धरे ! ।सर्व्वलोकेश्वर त्राहि पतितं मां भवार्णवे ॥
देवकीनन्दन श्रीश हरे संसारसागरात् ।त्राहि मां सर्व्वदुःखघ्न रोगशोकार्णवाद्धरे ! ॥
दुर्गतांस्त्रायसे विष्णो ये स्मरन्ति सकृत् सकृत् ।सोऽहं देवातिदुर्व्वृत्तस्त्राहि मां दुःखसागरात् ॥
पुष्कराक्ष निमग्नोऽहं मायाविज्ञानसागरे ।त्राहि मां देवदेयेश ! त्वत्तो नान्योऽस्तिरक्षिता ॥
”इति प्रार्थयेत् ॥
“यद्वाल्ये यच्च कौमारे वार्द्धके यच्च यौवने ।तत् पुण्यं वृद्धिमाप्नोतु पापं हर हलायुध ! ॥
”इति वदेत् ॥
ततो नृत्यगीतवादित्रस्तवैः कालं नयेत् । पर-दिने प्रातःस्नानादिकं कृत्वा भगवन्तं श्रीकृष्णंयथाविधि संपूज्य दुर्गायाश्च महोत्सवः कार्य्यः ।ततो ब्राह्मणान् भोजयेत् तेभ्यो दक्षिणां दद्यात्सुवर्णादि यत् किञ्चिदिष्टतमं श्रीकृष्णो मे प्रीयता-मिति ।“ओँ यं देवं देवकी देवी वसुदेवादजीजनत् ।भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः ॥
सुब्रह्मवासुदेवाय गोब्राह्मणहिताय च ।शान्तिरस्तु शिवञ्चास्तु इत्युच्चार्य्य विसर्ज्जयेत् ॥
”ततश्चोपवासपरदिने तिथिनक्षत्रयोरवसानेपारणम् । यदा तु महानिशायाः पूर्व्वमेकतर-स्यावसानं अन्यतरस्य महानिशायां तदनन्तरंवा तदैकतरावसाने पारणम् । यदा तु महानि-शायामुभयस्थितिः तदा उत्सवान्ते पारणंकुर्य्यात् । तत्र मन्त्रः । ओँ सर्व्वाय सर्व्वेश्वरायसर्व्वपतये सर्व्वसम्भवाय गोविन्दाय नमो नमः ।पारणानन्तरन्तु समापनमन्त्रः । ओँ भूतायभूतेश्वराय भूतपतये भूतसम्भवाय गोविन्दायनमो नमः । इत्यनेन व्रतं समापयेत् ॥
* ॥
भाद्रशुक्लपञ्चमीमधिकृत्य भविष्योत्तरे ।“तथा भाद्रपदे मासि पञ्चम्यां श्रद्धयान्वितः ।यस्त्वालिख्य नरो भक्त्या कृष्णवर्णादिवर्णकैः ।पूजयेद्गन्धपुष्पैश्च सर्पिर्गुग्गुलुपायसैः ॥
तस्य तुष्टिं समायान्ति पन्नगास्तक्षकादयः ।आसप्तमात् कुलात्तस्य न भयं सर्पतो भवेत् ।तस्मात् सर्व्वप्रयत्नेन नागान् संपूजयेन्नरः ॥
इयमेवालेख्यनागपञ्चमीति वाचस्पतिमिश्राः ।आलेख्यनागाः कर्कोटकादयः पूर्व्वलिखिताःपूजा च श्रावणपञ्चमीविहितेति बोध्यम् ॥
* ॥
अथ हरेः पार्श्वपरिवर्त्तनम् । तत्र द्वादश्यांसन्धिसमये नक्षत्राणामसम्भवे । आभाका-सितपक्षेषु शयनावर्त्तनादिकमिति ब्रह्मपुरा-णात् ॥
भाद्रशुक्लद्वादश्यां श्रवणमध्ययुक्तायांसन्ध्यासमये द्वादश्यामृक्षाभावे एकादश्यादिषुपादयोगे तदभावेऽपि द्वादश्यां केवलायां वाकृताह्निकः सायं सन्ध्यायां देवं संपूज्य ।“ओँ वासुदेव जगन्नाथ प्राप्तेयं द्बादशी तव ।पार्श्वेन परिवर्त्तस्व सुखं स्वपिहि माधव ! ॥
”इति प्राञ्जलिः पठेत् ॥
“त्वयि सुप्ते जगन्नाथ ! जगत् सुप्तं भवेदिति ।प्रबुद्धे त्वयि बुध्येत जगत् सर्व्वं चराचरम् ॥
”इत्यनेन पूजयेत् ॥
* ॥
अथ सिंहार्के चतुर्थ्यां चन्द्रदर्शनप्रायश्चित्तम् ।सिंहार्कमधिकृत्य ब्रह्मपुराणम् ।“नारायणोऽभिशप्तस्तु निशाकरमरीचिषु ।स्थितश्चतुर्थ्यामद्यापि मनुष्यानापतेच्च सः ॥
अतश्चतुथ्यां चन्द्रन्तु प्रमादाद्वीक्ष्य मानवः ।पठेद्धात्रेयिकावाक्यं प्राङ्मुखो वाप्युदङ्मुखः ॥
”अभिशप्तो मिथ्यापरीवादविषयीभूतः । सोऽभि-शापः अद्यापि मनुष्यान् पतेत् । ततश्चप्राङ्मुख उदङ्मुखो वा कुशतिलजलान्यादायओँ अद्येत्यादि सिंहार्कचतुर्थीचन्द्रदर्शनजन्य-पापक्षयकामो धात्रेयीवाक्यमहं पठिष्ये । इतिसंकल्प्य ।“ओँ सिंहः प्रसेनमवधीत् सिंहो जाम्बवताहतः ।सुकुमारक ! मा रोदीस्तव ह्येष स्यमन्तकः ॥
”इति विष्णुपुराणोक्तं धात्रेयीवाक्यं पठेत् ॥
* ॥
अथानन्तव्रतम् । तत्र यद्दिने पूर्व्वाह्णलाभस्तद्दिनेव्रतम् । उभयदिने चेत् परदिने युग्मात् । व्रतानु-ष्ठानविधिस्तु पद्धतौ ज्ञेयः ॥
* ॥
अथागस्त्यार्घ्य-दानम् । प्रमाणन्तु तिथितत्त्वेऽनुसन्धेयम् ।सिंहस्थरविकर्त्तव्यत्वेन सौरमासादरः । कन्यार्क-संक्रान्तिपूर्व्वदिनत्रयाभ्यन्तरे कृतस्नानादिकृता-ह्निकस्तिलकुशजलान्यादाय ओँ तत् सदित्युच्चार्य्यओँअद्येत्यादि सर्व्वाभिलषितसिद्धिकामोऽगस्त्य-पूजनमहं करिष्ये इति संकल्प्य शालग्रामेजले वा दक्षिणामुखः एतत् पाद्यम् ओँ अग-स्त्याय नमः । सितपुष्पाक्षतयुक्तं जलं शङ्खेनगृहीत्वा इदमर्घ्यम् ।ओँ काशपुष्पप्रतीकाश अग्निमारुतसम्भव ।मित्रावरुणयोः पूत्त्र कुम्भयोने नमोऽस्तु ते ॥
ओँ अगस्त्याय नमः । एवमाचमनीयस्नानीय-गन्धपुष्पधूपदीपनैवेद्यादिकं दद्यात् ।ओँ आतापिर्भक्षितो येन वातापिच्च महासुरः ।समुद्रः शोषितो येन स मेऽगस्त्यः प्रसीदतु ॥
”इति प्रार्थयेत् ॥
इति कृत्यतत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
