| YouTube Channel

भाण्डं (bhANDaM)

 
शब्दकल्पद्रुमः
Sanskrit
भाण्डं,
क्ली,
(भण्यते भणति वेति भण् शब्दे +“ञमन्ताड्डः ।” उणा० ११३ इति डः ।ततः प्रज्ञादित्वादण् ।) पात्रम् (यथा, महा-भारते १३ ११ १०२ ।“हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते
”)बणिङ्मूलधनम् भूषा अश्वभूषा इतिमेदिनी डे, २१
(यथा, महाभारते ।२६ २३ ।“विप्रविद्धकुथावल्गाश्छिन्नभाण्डाः परासवः ।सारोहास्तुरगाः पेतुर्मथिताः पार्थमार्गणैः
”)नष्टभाण्डस्य दण्डादिविधिर्यथा, --“अराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः ।प्रस्थानविघ्नकृच्चैव प्रदाप्यो द्विगुणां भृतिम्
भाण्डं व्यसनमागच्छेत् यदि वाहकदोषतः ।दाप्यो यत् तत्र नश्येत्तु दैवराजकृतादृते
”इति मिताक्षरायां नारदः
नदीकूलद्वयमध्यम् इति हेमचन्द्रः ९२
(भण्डते इति भडि + अच् भण्डस्तस्य भावःइत्यण् ।) भण्डवृत्तिः इत्यजयपालः
भाँडामिइति भाषा