| YouTube Channel

भागीरथी (bhAgIrathI)

 
शब्दसागरः
English
भागीरथी
f.
(-थी) The Ganges.
E.
भगीरथ a pious monarch, at whose in-
tercesion the Ganges first descended from heaven, affs. अण्
and ङीप्
Yates
English
भागीरथी (थी) 3.
f.
The Ganges.
Wilson
English
भागीरथी
f.
(-थी) The Ganges.
E.
भगीरथ a pious monarch, at whose intercession the Ganges first
descended from heaven, affs. अण् and ङीप्.
Apte
English
भागीरथी [bhāgīrathī], [भगीरथेन सानीता तेन भागीरथी स्मृता]
N.
of the river Ganges
भागीरथीनिर्झरशीकराणाम्
Ku.*
1.15.
N.
of one of the three main branches of the Ganges
cf.
भागीरथी भोगवती जाह्नवी त्रिजटेश्वरी विष्णुपादाब्जसंभूता गङ्गा त्रिपथगामिनी Stotra.
Apte 1890
English
भागीरथी [भगीरथेन सानीता तेन भागीरथी स्मृता] 1 N. of the river Ganges
भागीरथीनिर्झरशीकराणां Ku. 1. 15.
2 N. of one of the three main branches of the Ganges.
Monier Williams Cologne
English
भागीरथी a
f.
N.
of the Ganges (or of one of the 3 main streams or branches of it, viz. the great western branch
cf.
नव-द्वीप),
MBh.
Kāv.
&c.
भागीरथी b
f.
of °रथ, in comp.
Benfey
English
भागीरथी भागीरथी, i. e. भगिर-
+ + ई,
f.
The Ganges. Hit. 3, 3,
M.M.
Apte Hindi
Hindi
भागीरथी
स्त्री*
- भगीरथ+अण्+ङीप्
गंगा नदी का नामान्तर
भागीरथी
स्त्री*
- -
गंगा की तीन मुख्य शाखाओं में एक
Shabdartha Kaustubha
Kannada
भागीरथी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಗಂಗಾನದಿ/ಭಗೀರಥನು ದೇವಲೋಕದಿಂದ ಭೂಲೋಕಕ್ಕೆ ಕರೆತಂದ ದೇವಲೋಕದ ನದಿ
निष्पत्तिः - > "अण्" (४-३-१२०)
व्युत्पत्तिः - > भगीरथस्य अयम्
प्रयोगाः - > "भगीरथेन सा नीता तेन भागीरथी स्मृता", "भागीरथीपावककृत्तिकानामानन्दबाष्पाकुललोचनानाम्"
उल्लेखाः - > ब्रह्मवै०, कुमा० ११-३
L R Vaidya
English
BAgIraTI {% f. %} 1. Name of the Ganges, भागीरथीरतपोवनानि R.xiv.28
2. name of one of the three main branches of the Ganges.
Wordnet
Sanskrit
Synonyms:
गङ्गा, मन्दाकिनी, जाह्नवी, पुण्या, अलकनन्दा, विष्णुपदी, जह्नुतनया, सुरनिम्नगा, भागीरथी, त्रिपथगा, तिस्त्रोताः, भीष्मसूः, अर्घ्यतीर्थम्, तीर्थरीजः, त्रिदशदीर्घिका, कुमारसूः, सरिद्वरा, सिद्धापगा, स्वरापगा, स्वर्ग्यापगा, खापगा, ऋषिकुल्या, हैमव्रती, सर्वापी, हरशेखरा, सुरापगा, धर्मद्रवी, सुधा, जह्नुकन्या, गान्दिनी, रुद्रशेखरा, नन्दिनी, सितसिन्धुः, अध्वगा, उग्रशेखरा, सिद्धसिन्धुः, स्वर्गसरीद्वरा, समुद्रसुभगा, स्वर्नदी, सुरदीर्घिका, सुरनदी, स्वर्धुनी, ज्येष्ठा, जह्नुसुता, भीष्मजननी, शुभ्रा, शैलेन्द्रजा, भवायना, महानदी, शैलपुत्री, सिता, भुवनपावनी, शैलपुत्री
noun
भारतदेशस्थाः प्रधाना नदी या हिन्दुधर्मानुसारेण मोक्षदायिनी अस्ति इति मन्यन्ते।
"धर्मग्रन्थाः कथयन्ति राज्ञा भगीरथेन स्वर्गात् गङ्गा आनीता। "
Sanskrit Tibetan
Tibetan
skal ldan shing rta can
भागीरथी
skal ldan shing rta'i bu mo
भागीरथी
अभिधानचिन्तामणिः
Sanskrit
--source--
गङ्गा त्रिपथगा भागीरथी त्रिदशदीर्घिका
त्रिस्रोता जाह्नवी मन्दाकिनी भीष्मकुमारसूः १०८१
सरिद्वरा विष्णुपदी सिद्धस्वःस्वर्गिखापगा
ऋषिकुल्या हैमवती स्वर्वापी हरशेखरा १०८२
-wordlist-
गङ्गा (स्त्री), त्रिपथगा (स्त्री), भागीरथी (स्त्री), त्रिदशदीर्घिका (स्त्री), त्रिस्रोतस् (स्त्री), जाह्नवी (स्त्री), मन्दाकिनी (स्त्री), भीष्मकुमारसू (स्त्री), सरिद्वरा (स्त्री), विष्णुपदी (स्त्री), सिद्धापगा (स्त्री), स्वरापगा (स्त्री), स्वर्ग्यापगा (स्त्री), खापगा (स्त्री), ऋषिकुल्या (स्त्री), हैमवती (स्त्री), स्वर्वापी (स्त्री), हरशेखरा (स्त्री)
अभिधानरत्नमाला
Sanskrit
भागीरथी
भागीरथी, सुरसरित्, विष्णुपदी, जाह्नवी, गङ्गा, मन्दाकिनी, त्रिपथगा, सरिद्वरा, त्रिदशदीर्घिका
भागीरथी सुरसरिद्विष्णुपदी जाह्नवी तथा गङ्गा
मन्दाकिनी त्रिपथगा सरिद्वरा त्रिदशदीर्घिका प्रोक्ता ६७३
verse 3.1.1.673
page 0077
नाममाला
Sanskrit
भागीरथी, त्रिपथगा, जाह्नवी, हिमवत्सुता, मन्दाकिनी, गङ्गा
भागीरथी त्रिपथगा जाह्नवी हिमवत्सुता
मन्दाकिनी द्युपर्यायधुनी गङ्गानदीश्वरः ७१
verse 0.1.1.71
page 0036
Mahabharata
English
Bhāgīrathī (“the daughter of Bhagīratha, i.e. Gaṅgā): I, 372, 599 (ºputrāt…Bhīshmāt), ††3800 (Śāntanu married Gaṅgāṃ Bhāgīrathīm and begat upon her Devavrata or Bhīshma), 3989, 5509, 5845, 6351, 6447, 6459 (ºjalaṃ), 6917 (ºtīrāt), †7283
II, 68 (Gaṅgāṃ), 370 (nadī)
III, 4033 (ºtīre), 8141, 8156, 8319 (Mahendro…yatra Bhāºī puṇyā sarasy--Maṇikarṇik'-ākhye Nīl.--āsīd Yudhishṭhira), 8646 (puṇyā deva-Gandharva-sevitā), 10722, 10724, 11054 (Nara-Nārāyaṇa-sthānaṃ Bhāgīrathyopaśobhitaṃ), 11063 (sutīrthāñ ca śītāṃ vimalapaṅkajāṃ, etc.), 11065 (ºpuṇyajale)
V, 4911, 7317 (the mother of Bhīshma)
VI, 223 (Gaṅgā), 239 (Gaṅgāṃ), 5567 (Bhīshmaṃ Bhāgīrathī-putraṃ)
VII, 2249 (Gaṅgā), 2254 (tathā Bhāgīrathī Gaṅgā Urvaśī cābhavat purā
became the daughter and “son” of king Bhagīratha)
X, 659 (ºtīraṃ)
XII, 8 (do.), 961 (Gaṅgā sat on the lap of king Bhagīratha, therefore she was formerly [called]
Urvaśī), 1118 (ºtīre), 1350 (ºputraḥ)
XIII, 1702 (Gaṅgā), 1726, 1784 (Gaṅgā), 4070 (Gaṅgā), 6294 (ºputraḥ Bhīshmo), 7777, 7780
XIV, 2415
XV, 510 (ºtīre), 520 (do.), 527 (do.), 861, 871 (ºjalaṃ), 901, 1083 (ºtīre).
पुराणम्
English
भागीरथी / BHĀGĪRATHĪ. Another name of gaṅgā. (See under gaṅgā).
शब्दकल्पद्रुमः
Sanskrit
भागीरथी,
स्त्री,
(भगीरस्येयम् भगीरथ + अण् ।ङीप् ।) गङ्गा इत्यमरः १० ३१
पृथिव्यां तस्यावतरणम् यथा, --सूत उवाच ।“ततो भगीरथो राजा तपः परमदुश्चरम् ।कृत्वा सन्तोषयामास उमाकान्तं महेश्वरम्
धारणायानुमत्वा तं जगाम ब्रह्मणोऽन्तिकम् ।ततो भगीरथः प्राह गङ्गा ब्रह्मन् ! विसृज्यताम्
तच्छ्रुत्वा वचस्तस्य सम्मान्य विबुधप्रियम् ।गङ्गां प्रस्थापयामास सापतद्ब्रह्मणोऽन्तिकात्
वायुना प्रेर्य्यमाणापि आकाशपथगा नदी ।विख्याताकाशगङ्गेति तत्र संसेविता गजैः
विष्णोः पदं समायाता तस्माद्विष्णुपदीति सा ।पूज्यमाना सुरैः सिद्धैर्मुनिविद्याधरोरगैः
सुरालयमनुप्राप्ता तस्माद्देवनदी तु सा ।तस्मात् प्रपतिता गङ्गा शम्भोः शिरसि संस्थिता
धृतैकेनैव तेनापि शम्भुना योगमायया ।दिव्यं वर्षशतं साग्रं पुनराराधितेन वै
मुक्ता भगीरथेनैव मलहन्त्री विनिर्गता ।जटाजूटात् पपातोर्द्धे मेरोस्तस्मात्ततोऽगमत्
देवैः परिवृता गङ्गा हेमकूटञ्च पर्व्वतम् ।मन्दरञ्चैव कैलासं हिमवन्तञ्च पर्व्वतम्
तामायान्तीं तु रोधाय स्वलीनो नाम दानवः ।पार्व्वतं रूपमास्थाय वर्षाणान्तु शतैर्द्विजाः
ततो भगीरथो राजाराधयामास कौशिकम् ।स तुष्टः प्रददौ नागं वाहनं वै भगीरथः
तमारुह्यागमत्तत्र यत्र रुद्धा भगीरथी ।तेन नागेन तं दैत्यं संविदार्य्य सङ्गतः
शतधा तां समाधाय मूर्द्धन्यैरावणो गजः ।महीतलं समापेदे यावन्नागसाह्वयम्
तस्माद्व्याघटनाद्विप्रा अभून्नागपुरं वरम् ।प्लावयन्ती महीं गङ्गा जह्नोराश्रममभ्यगात्
तां दृष्ट्वाथ पपौ सोऽपि प्रसृत्या कुपितो मुनिः ।जह्रुना नाशितां दृष्ट्वा गङ्गां त्रिपथगां नदीम्
सशोकस्तोषयामास जह्नुं भगीरथो मुनिम् ।मुमोच कर्णरन्ध्रेण गङ्गा दक्षिणेन ताम्
एतस्माज्जाह्रवी भूता सुता तस्य मुनेस्तथा ।ततः सा विविधान् देशान् पर्व्वतांश्च तथा-श्रमान्
संप्लाव्य वारिणा भूयो जगाम पूर्व्वसागरम्
यत्र तत्रोदकं तस्थौ तस्याः पुण्यमभूद्द्विजाः ।सुतीर्थं सर्व्वमर्त्यानां तारणं पापनाशनम्
ततः सम्पूरयामास समुद्रं सर्व्वतो दिशम् ।प्रपन्नं सागरैः सर्व्वं ततः पातालमाविशत्
सागराणां तनोस्तस्मात् संप्लाव्य वारिणा ततः ।देवैः संपूज्यमानापि जगाम ब्रह्मणोऽन्तिकम्
जग्मुस्ते सागराः स्वर्गं ब्रह्मणोपहताश्च ये ।रक्षकास्ते विनिर्द्दिष्टा गङ्गाया ब्रह्मणा स्वयम्
भवद्भिरनिशं नॄणां कर्त्तव्यं विघ्ननाशनम्
सूत उवाच ।एतद्बः कथितं सर्व्वं यथावतरणं दिवः ।गङ्गायाश्चैव माहात्म्यं श्रूयतां गदतो मम
”इत्याद्ये वह्निपुराणे गङ्गावतरणनामाध्यायः
तस्या मुख्यनामानि यथा, --वराह उवाच ।“धर्म्मस्तु द्रवरूपेण ब्रह्मणा निर्म्मितः पुरा ।यद्वै गङ्गेति विख्याता शृणु स्तोत्रं वसुन्धरे !
किन्तैर्नामसहस्रैस्तु मुख्यामुख्यैः सुविस्तरैः ।यानि नामानि मुख्यानि तानि वक्ष्याम्यनुक्रमात्
गङ्गा भागीरथी पुण्या जाह्रवी सुरनिम्नगा ।विष्णुपादाब्जसम्भूता शम्भोः शिरसि संस्थिता
सुमेरुशृङ्गसंस्पृष्टा हिमाचलंकृताश्रया ।शङ्खकुन्देन्दुधवला महापातकनाशिनी
नदीश्वरी त्रिपथगा वैष्णवी सुरसुप्रिया ।धर्म्मद्रवी भोगवती बिन्ध्यपाषाणदारिणी
क्षमा शान्तिः प्रजाशान्तिः पुण्यदा पूतिकाशिवा ।महानदी शतमुखी शुक्ला मकरवाहिनी
ब्रह्महस्तात् परिभ्रष्टा सौम्यरूपातिशोभना ।मुनिभिः पूजिता सर्व्वैः सर्व्वैर्देवैर्नमस्कृता
महायज्ञमयी देवी मर्त्यानामुपकारिणी ।सर्व्वत्र दुर्लभा गङ्गा त्रिभिः स्थानैर्विशेषतः
गङ्गाद्वारे प्रयागे गङ्गासागरसङ्गमे
इदं स्तोत्रं मया ख्यातं पूर्व्वमुक्तं स्वयम्भुवा ।यः पठेत् प्रातरुत्थाय तस्य नश्यति दुर्गतिः
यत् पापं यौवने बाल्ये कौमारे वार्द्धके यत् ।तत् सर्व्वं विलयं याति तोयस्थं लवणं यथा
कीर्त्तिं प्रीतिं महालक्ष्मीमायुरारोग्यसन्ततिम् ।ददाति जाह्रवी तुष्टा सर्व्वभावेन माधवि !
”इति वाराहे सर्व्वपापप्रशमनगङ्गास्तवः
अपि ।ब्रह्मोवाच ।“श्रोतुमिच्छामि देवेश ! लक्ष्मीकान्त ! जगत्प्रभो ! ।विष्णो ! विष्णुपदीस्तोत्रं पापघ्नं पुण्यकारणम्
श्रीनारायण उवाच ।शिवसंगीतसंमुग्ध श्रीकृष्णाङ्गद्रवोद्भवाम् ।राधाङ्गद्रवसंयुक्तां तां गङ्गां प्रणमाम्यहम्
या जन्मसृष्टेरादौ गोलोके रासमण्डले ।सन्निधाने शङ्करस्य तां गङ्गां प्रणमाम्यहम्
गोपैर्गोपीभिराकीर्णैः शुभे राधामहोत्सवे ।कार्त्तिकीपूर्णिमाजातां तां गङ्गां प्रणमाम्यहम्
कोटियोजनविस्तीर्णा दैर्घ्ये सप्तगुणा ततः ।समावृता या गोलोकं तां गङ्गां प्रणमाम्यहम्
षष्टिलक्षयोजनां या ततो दैर्घ्ये चतुर्गुणा ।समावृता या वैकुण्ठं तां गङ्गां प्रणमाम्यहम्
विंशलक्षयोजना या ततो दैर्घ्ये चतुर्गुणा ।आवृता ब्रह्मलोकं या तां गङ्गां प्रणमाम्यहम्
त्रिंशल्लक्षयोजना या दैर्घ्ये पञ्चगुणा ततः ।आवृता शिवलोकं या तां गङ्गां प्रणमाम्यहम्
लक्षयोजनविस्तीर्णा दैर्घ्ये सप्तगुणा ततः ।आवृता ध्रुवलोकं या तां गङ्गां प्रणमाम्यहम्
लक्षयोजनविस्तीर्णा दैर्घ्ये शतगुणा ततः ।आवृता चन्द्रलोकं या तां गङ्गां प्रणमाम्यहम्
षष्टिसहस्रयोजना या दैर्घ्ये दशगुणा ततः ।आवृता सूर्य्यलोकं या तां गङ्गां प्रणमाम्यहम्
लक्षयोजनविस्तीर्णा दैर्घ्ये षड्गुणा ततः ।आवृता सत्यलोकं या तां गङ्गां प्रणमाम्यहम्
दशलक्षयोजना या दैर्घ्ये पञ्चगुणा ततः ।आवृता या तपोलोकं तां गङ्गां प्रणमाम्यहम्
सहस्रयोजनायामा दैर्घ्ये दशगुणा ततः ।आवृता जनलोकं या तां गङ्गां प्रणमाम्यहम्
सहस्रयोजनायामा दैर्घ्ये सप्तगुणा ततः ।आवृता या कैलासं तां गङ्गां प्रणमाम्यहम्
शतयोजनविस्तीर्णा दैर्घ्ये दशगुणा ततः ।मन्दाकिनी येन्द्रलोके तां गङ्गां प्रणमाम्यहम्
पाताले या भोगवती विस्तीर्णदशयोजना ।ततो दशगुणा दैर्घ्ये तां गङ्गां प्रणमाम्यहम्
क्रोशैकमात्रविस्तीर्णा ततः क्षीणा कुत्रचित् ।क्षितौ चालकनन्दा या तां गङ्गां प्रणमाम्यहम्
सत्ये या क्षीरवर्णा त्रेतायामिन्दुसन्निभा ।द्वापरे चन्दनाभा तां गङ्गां प्रणमाम्यहम्
जलप्रभा कलौ या नान्यत्र पृथिवीतले ।स्वर्गे नित्यं क्षीराभा तां गङ्गां प्रणमाम्यहम्
यस्याः प्रभावमतुलं पुराणे श्रुतौ श्रुतम् ।या पुण्यदा पापहर्त्री तां गङ्गां प्रणमाम्यहम्
यत्तोयकणिकास्पर्शः पापिनाञ्च पितामह ! ।ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत्
इत्येवं कथितं ब्रह्मन् ! गङ्गापद्यैकविंशतिः ।स्तोत्ररूपञ्च परमं पापघ्नं पुण्यकारकम्
नित्यं यो हि पठेद्भक्त्या संपूज्य सुरेश्वरीम् ।अश्वमेधफलं नित्यं लभते नात्र संशयः
अपुत्त्रो लभते पुत्त्रं भार्य्याहीनो लभेत् प्रियाम् ।रोगात् प्रमुच्यते रोगी बद्धो मुच्येत बन्धनात्
अस्पष्टकीर्त्तिः सुयशा मूर्खो भवति पण्डितः
यः पठेत् प्रातरुत्थाय गङ्गास्तोत्रमिदं शुभम्
शुभं भवेत्तु दुःस्वप्नं गङ्गास्नानफलं लभेत्
”इति गङ्गास्तोत्रम्
नारायण उवाच ।“भगीरथोऽनेन स्तोत्रेण स्तुत्वा गङ्गाञ्चनारद ! ।जगाम तां गृहीत्वा यत्र नष्टाश्च सागराः ।वैकुण्ठं ते ययुस्तृर्णं गङ्गायाः स्पर्शवायुना
भगीरथेन सानीता तेन भागीरथी स्मृता ।इत्येवं कथितं सर्व्वं गङ्गोपाख्यानमुत्तमम्
पुण्यदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे गङ्गोपाख्याने अः
वाचस्पत्यम्
Sanskrit
भागीरथी स्त्री भागीरथेन सानीता तेन भागीरथी स्मृतांब्रह्मव० प्र० रव० उक्ते गङ्गारूपे नदीभेदे
Burnouf
French
भागीरथी भागीरथी
f.
le Gange [fleuve de
Bhagīratha].