| YouTube Channel

भागवतः (bhAgavataH)

 
Apte Hindi
Hindi
भागवतः
पुं*
- -
विष्णु या कृष्ण का अनुचर या भक्त
Wordnet
Sanskrit
Synonyms:
भागवतः
noun
एकः राजा
"विष्णु-पुराणे भागवतस्य वर्णनं प्राप्यते"
Tamil
Tamil
பா4க3வத: : விஷ்ணு பக்தன்.
शब्दकल्पद्रुमः
Sanskrit
भागवतः, त्रि, (भगवान् हरिः भगवती दुर्गा वास्यदेवतेति भगवत् + “सास्य देवता ।” २४ ।इति अण् ।) भगवद्भक्तः तस्य लक्षणम् यथा, “सर्व्वदेवान् परित्यज्य नित्यं भगवदाश्रयः ।रतस्तदीयसेवायां भागवत उच्यते
”इति पाद्मोत्तरखण्डे ९९ अध्यायः
*
यमदूतैस्त्याज्यः यथा, --“ये तु भागवता लोके तच्चित्तास्तत्परायणाः ।पूजयन्ति सदा विष्णुं ते त्याज्याः सुदूरतः
”इति वह्निपुराणे दूतान् प्रति यमवचनम्
स्कान्दे श्रीमार्कण्डेयभगीरथसंवादे ।“दशमीशेषसंयुक्तं दिनं वैष्णववल्लभम् ।ह्युपासते महीपाल ! ते वै भागवता नराः
प्राणात्यये चाश्नन्ति दिनं प्राप्य हरेर्नराः ।कुर्व्वन्ति जागरं रात्रौ सदा भागवता हि ते
उपोष्य द्बादशीं शुद्धां रात्रौ जागरणान्विताम् ।अल्पां तु साधयेद्यस्तु वै भागवतो वरः
भक्तिर्न विच्युता येषां च्युतानि व्रतानि
सुप्रियः श्रीपतिर्येषां ते स्युर्भागवता नराः
सदाचाररताः शिष्टाः सर्व्वभूतानुकम्पकाः ।शुचयस्त्यक्तरागा ये सदा भागवता हि ते
”एकादशस्कन्धे ।“सर्व्वभूतेषु यः पश्येद्गगवद्भावमात्मनः ।भूतानि भगवत्यात्मन्येष भागवतोत्तमः
यस्य स्वपर इति वित्तेष्वात्मनि वा भिदा ।सर्व्वभूतसमः शान्तः वै भागवतोत्तमः
”हरियोगेश्वरोत्तरे ।“गृहीत्वापीन्द्रियैरर्थान् यो द्बेष्टि काङ्क्षति ।विष्णोर्मायामिदं पश्यन् वै भागवतोत्तमः
”बृहन्नारदीये ।“शिवे परमेशाने विष्णौ परमात्मनि ।समबुद्ध्या प्रवर्त्तन्ते ते वै भागवतोत्तमाः
”स्कान्दे ।“येषां भागवतं शास्त्रं सदा तिष्ठति सन्निधौ ।पूजयन्ति ये नित्यं ते स्युर्भागवता नराः
येषां भागवतं शास्त्रं जीवितादधिकं भवेत् ।महाभागवताः श्रेष्ठा विष्णुना कथिता नराः
”लैङ्गे ।“भोजनाच्छादनं सर्व्वं यथाशक्त्या ददाति यः ।विष्णुभक्तस्य सततं वै भागवतः स्मृतः
”गारुडे ।“येन सर्व्वात्मना विष्णुभक्त्या भावो निवेशितः ।वैष्णवेषु कृतात्मत्वान्महाभागवतो हि सः
”बृहन्नारदीये ।“तुलसीकाननं दृष्ट्वा ये नमस्कुर्व्वते नराः ।तत्काष्ठाङ्कितकर्णा ये ते वै भागवतोत्तमाः
तुलसीगन्धमाघ्राय सन्तोषं कुर्व्वते तु ये ।तन्मूलमृद्धृता यैश्च ते वै भागवतोत्तमाः
मत्कथाश्रवणे येषां वर्त्तते सात्त्विकी मतिः ।तद्वक्तरि सुभक्ताश्च ते वै भागवतोत्तमाः
”स्कान्दे ।“मत्कथां कुरुते यस्तु मत्कथाञ्च शृणोति ।हृष्यते मत्कथायाञ्च वै भागवतोत्तमः
”बृहन्नारदीये ।“मन्मानसाश्च मद्भक्ता मद्भक्तजनलोलुपाः ।मन्नामश्रवणासक्तास्ते वै भागवतोत्तमाः
येऽभिनन्दन्ति नामानि हरेः शृण्वन्ति हर्षिताः ।रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः
अन्येषामुदयं दृष्ट्वा येऽभिनन्दन्ति मानवाः ।हरिनामपरा ये ते वै भागवतोत्तमाः
”स्कान्दे ।“येऽर्च्चयन्ति सदा विष्णुं यज्ञेश वरदं हरिम् ।देहिनः पुण्यकर्म्माणः सदा भागवता हि ते
”लैङ्गे ।“विष्णुक्षेत्रे शुभान्येव करोति स्नेहसंयुतः ।प्रतिमाञ्च हरिर्नित्यं पूजयेत् प्रयतात्मवान्
विष्णुभक्तः विज्ञेयः कर्म्मणा मनसा गिरा ।नारायणपरो नित्यं भूप ! भागवतो हि सः
”पाद्मोत्तरखण्डे ।“तापादिपञ्चसंस्कारी नवेज्याकर्म्मकारकः ।अर्थपञ्चकविद्विप्रो महाभागवतो हि सः
एकान्तेन सदा विष्णौ यस्माद्देवे परायणाः ।तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः
”एकादशस्कन्धे ।“ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मियादृशः ।भजन्त्यनन्यभावेन ते वै भागवता मताः
कामकर्म्मबीजानां यस्य चेतसि सम्भवः ।वासुदेवैकनिलयः वै भागवतोत्तमः
”स्कान्दे ।“यस्य कृच्छ्रगतस्यापि केशवे रमते मनः ।न विच्युता भक्तिर्वै वै भागवतो नरः
आपद्गतस्य यस्येह भक्तिरव्यभिचारिणी ।नान्यत्र रमते चित्तं वै भागवतो नरः
”हरियोगेश्वरोत्तरे ।“विसृजति हृदयं यस्य साक्षा-द्धरिरवशाभिहितोऽप्यघौघनाशः ।प्रणयरसनया धृताङ्घ्रिपद्मःस भवति भागवतप्रधान उक्तः
”मध्यममाह तत्रैव ।“ईश्वरे तदधीनेषु वालिशेषु द्विषत्सु ।प्रेममैत्रीकृपोपेक्षा यः करोति मध्यमः
”कनिष्ठस्तत्रैव ।“अर्च्चायामेव हरये पूजां यः श्रद्धयेहते ।न तद्भक्तेषु चान्येषु भक्तः प्राकृतः स्मृतः
”इति श्रीहरिभक्तिविलासे १० विलासः