| YouTube Channel

भागवतं (bhAgavataM)

 
शब्दकल्पद्रुमः
Sanskrit
भागवतं,
क्ली,
(भगवतो भगवत्या वेदम् भगवत् +तस्येदमित्यण् ।) अष्टादशपुराणान्तर्गतमहा-पुराणविशेषः वेदव्यासकृतद्बादशस्कन्ध-द्बात्रिंशत्त्रिशताध्यायसमन्विताष्टादशसहस्र-श्लोकसंख्याक-भगवन्माहात्म्यवर्णन-प्रधानकोग्रन्थः यथोक्तं मत्स्यपुराणे पुराणदानप्रस्तावे ।“यत्राधिकृत्य गायत्त्रीं वर्ण्यते धर्म्मविस्तरः ।वृत्रासुरवधोपेतं तद्भागवतमिष्यते
लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम् ।प्रौष्ठपद्यां पौर्णमास्यां याति परमं पदम्
अष्टादशसहस्राणि पुराणं तत् प्रकीर्त्तितम्
”पुराणान्तरे ।“ग्रन्थोऽष्टादशसाहस्रो द्वादशस्कन्धसम्मितः ।हयग्रीवब्रह्मविद्या यत्र वृत्रवधस्तथा
गायत्त्र्या समारम्भस्तद्वै भागवतं विदुरिति
”पद्मपुराणे अम्बरीषं प्रति गोतमवचनम्
“अम्बरीष ! शुकप्रोक्तं नित्यं भागवतं शृणु ।पठस्व स्वमुखेनापि यदीच्छसि भवक्षयमिति
”इति श्रीभागवतटीकायां श्रीधरस्वामी
(तत्र तावत् पुराणेषु भागवतद्वयं प्रसिद्धम् ।एकं महापुराणान्तर्गतमपरमुपपुराणान्तगतम् ।लोकेऽप्युपलम्भो द्वयोर्देवीभागवतनाम्ना विष्णु-भागवतनाम्ना चास्त्येव तत्रैकं महापुरा-णान्तर्गतमन्यदुपपुराणान्तर्गतमित्यपि निर्व्वि-वादमेव तथापि किं देवीभागवतं महापुराण-मन्यदुपपुराणमथवा विष्णुभागवतं महापुराण-मन्यदुपपुराणमिति संशये केचित् विष्णुभाग-वतमेव महापुराणमिति वदन्ति केचित्देवीभागवतमेव महापुराणमिति वदन्ति ।तत्र प्रथमपक्षैकदेशिनः केचिदुपपुराणेषुद्बितीयं भागवतं नास्त्येव महापुराणेष्वेवैकंभागवतं प्रसिद्धम् तच्च विष्णुभागवतमेव नदेवीभागवतम् देवीभागवतन्तु निर्मूलमेवेतिवदन्ति द्वितीवपक्षैकदेशिनोऽपि विष्णुभाग-वतं वोपदेवकृतमिति वदन्ति वस्तुतस्तूभयो-रपि पुराणयोः पुराणमतभेदेन महापुराणत्व-मुपपुराणत्वञ्च ननु महापुराणेष्वेवैकं भाग-वतं प्रसिद्धम् नतूपपुराणेषु द्वितीयमस्तीतिचेन्न कूर्मगरुडपाद्मादिषूपपुराणेषु द्वितीयस्यस्पष्टपरिगणनात् तथाहि हेमाद्रौ दानप्रस्तावेकूर्मपुराणेऽष्टादशपुराणान्युक्त्वा, --“अन्यान्युप्रपुराणानि मुनिभिः कथितानि तु ।आद्यं सनत्कुमारोक्तं नारसिंहमतः परम्
”इत्यादि
“पराशरोक्तं प्रवरं तथा भागवताह्वयम्
इति ।तथा गारुडे तत्त्वरहस्ये द्वितीयांशे धर्म्मकाण्डेप्रथमाध्याये प्रथमतो महापुराणानां सात्त्वि-कादिभेदेन विभागमुक्त्वा लघुपुराणानां सात्त्वि-कादिभेदेन विभागप्रदर्शनपरे ग्रन्थेऽप्युक्तम् ।“पुराणं भागवतं दौर्गं नन्दिप्रोक्तं तथैव ।पाशुपत्यं रैणुकञ्च भैरवञ्च तथैव
”इति
तथा तत्पूर्व्वमपि ।“विष्णुधर्म्मोत्तरे चैव तत्र भागवतं तथेति
”तन्त्रं भागवतं तथेति पाठे तन्त्रं शास्त्रमित्यर्थः ।तद्विशेषणेन चोत्तमत्वं सूचितम् तथा पाद्मेशकुनपरीक्षायाम् ।“ब्राह्मं पाद्मं वैष्णवञ्च मार्त्तण्डं नारदेरितम्
”इत्यादि
“तथैव गदितं राम ! पुराणं कापिलं तथा ।वाराहं ब्रह्मवैवर्त्तं शकुनेषु प्रशस्यते ।शैवं भागवतं दौर्गं भविष्योत्तरमेव
इति
तथा पाद्मे भागवतमाहात्म्ये एकोनविंशेऽध्यायेउपपुराणेषु ।“शैवमादिपुराणञ्च देवीभागवतं तथा
इति
तथा मधुसूदनसरस्वतीकृतसर्व्वशास्त्रार्थसंग्रहे-ऽप्युपपुराणमध्ये भागवतं परिगणितम् ।नागोजीभट्टादिभिश्च धर्म्मशास्त्रग्रन्थेष्वेवमन्यैरपिनिबन्धकारैरिति ननु देवीभागवतस्य ।“तत्र भागवतं पुण्यं पञ्चमं वेदसम्मितम्
”इति प्रथमाध्यायस्थस्ववचनेनाष्टादशमहापुरा-णेषु पञ्चममिदं पुराणमिति स्वस्य महापुरा-णत्वं बोधयतः कथमन्यपुराणमुपपुराणत्वं बोध-येन्नह्येवं क्वचिद्दृष्टचरमिति चेन्न नारदीय-शिववायव्यादित्यपुराणानां स्वमुखेनान्यमुखेनवा महापुराणत्वेन ज्ञायमानानामन्यपुराणैरुप-पुराणत्वस्य व्यवस्थापनात् पुराणमतभेदेनै-कस्यापि पुराणस्य महापुराणत्वोपपुराणत्व-सिद्ध्या तद्विरोधाभावात् पुराणभेदेन मतभेदस्तुबहुशः प्रसिद्धः वैष्णवपुराणेषु सात्त्विकत्वंशैवपुराणेषु तामसत्वं वैष्णवपुराणमतेन शैव-पुराणेषु सात्त्विकत्वं वैष्णवपुराणेषु तामसत्वम् ।“दश शैवपुराणानि सात्त्विकानि विदुर्बु धाः ।तामसानि चत्वारि वैष्णवानि प्रचक्षते
”इति स्कान्दे
शैवपुराणमतेनेत्येवं प्रकारेणेति तथाहिनारदीयस्य पुराणस्य स्वान्तर्गतमहापुराण-ग्रन्थसूच्या स्वमुखेनैव स्वात्मनो महापुराणत्वंबोघयतः ।“मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् ।आलिंपाग्निपुराणानि कूस्कंगारुडमेव
”इति वचनेन वक्ष्यमाणमुद्गलपुराणवचनेन चमहापुराणबहिर्भूतत्वं बोध्यते आलिंपाग्नी-त्यत्राऽऽशब्देनादित्यपुराणं तथा शैवपुराणस्यस्वमुखेन स्वस्य महापुराणत्वं बोधयतो मद्वयंभद्बयमित्येव वचनं तद्बहिर्भूतत्वं बोधयति ।ननु वायव्यं पुराणमेव शैवं शिवप्रतिपादकत्वा-त्तस्य वचतुष्टयपदेन संग्रहात्तदुदाहरणं नसम्भवतीति चेन्न मुद्गलपुराणे ।“ब्राह्मञ्च वैष्णवं पाद्मं शैवं भागवतं तथा ।भविष्यं ब्रह्मवैवर्त्तं मार्कण्डेयञ्च वामनम्
आग्नेयं वायवं मात्स्यम् ।” इति वचनेन शैव-वायव्यपुराणयोः परस्परं पृथक्त्वेन परिगणनात् ।तथा वायव्यपुराणस्य स्ववचनेन स्वस्य महा-पुराणत्वं बोधयतो वक्ष्यमाणशैवपुराणवचनंमहापुराणबहिर्भूतत्वं बोधयति तथादित्य-पुराणस्यापि आलिंपाग्निपुराणानीति क्वचित्पुराणसम्मतपाठेन महापुराणत्वम् अनाप-लिङ्गकूस्काख्यमिति क्वचित् पुराणसम्मतपाठेनमहापुराणबहिर्भूतत्वं यथा चैतेषां चतुर्णांक्वचित् पुराणेषु महापुराणत्वेन क्वचिच्चोप-पुराणत्वेन ग्रहणम् तथा देवीभागवतस्यापिभविष्यतीति को विरोधः मतभेदेनोभयोरपिवचनयोः प्रमाणत्वात् ननु अन्यान्युपपुरा-णानि मुनिभिः कथितानि त्वित्यादिवचनै-रुपपुराणानि व्यासान्यमुनिकृतान्येव सन्ति ।देवीभागवतं तु व्यासकृतमेवेति तस्य कथ-मुपपुराणेष्वन्तर्भाव इति चेन्न नारदशैव-वायव्यादित्यपुराणेषु व्यासकृतत्वेऽपि कस्यचित्पुराणमते उपपुराणत्वदर्शनात्तादृशनियमस्या-स्वीकारात् प्रायशस्तथा सत्त्वाभिप्रायेण तुतद्वचनम् इत्थं भागवतद्वयस्य महापुराण-मध्ये उपपुराणमध्ये सत्त्वसिद्धौ कस्य पुरा-णस्य मते किं भागवतं महापुराणान्तर्गतमितिचेदुच्यते शैवपुराणमते मात्स्यपुराणमते चदेवीभागवतमेव महापुराणमिति तथाहिशैवपुराणे उत्तरखण्डे मध्यमेश्वरमाहात्म्येशिवाल्लब्धवरेण व्यासेन महापुरणानि प्रणी-तानीत्युक्त्यनन्तरं तेषां नामान्यष्टादशोक्त्वा तेषांयोगरूढानां नाम्नां निर्व्वचनं तत्रैव कृतम् ।तद्यथा, --“यत्र वक्ता स्वयं तण्डे ! ब्रह्मा साक्षाच्चतुर्मुखः ।तस्माद्ब्राह्मं समाख्यातं पुराणं प्रथमं मुने !
”तण्डे इति मुनिसम्बोधनम् ।“पद्मकल्पस्य माहात्म्यं तत्र यस्मादुदाहृतम् ।तस्मात् पाद्मं समाख्यातं पुराणञ्च द्बितीयकम्
पराशरकृतं यत्तु पुराणं विष्णुबोधकम् ।तदेव व्यासकथितं पुत्त्रपित्रोरभेदतः
यत्र पूर्व्वोत्तरे खण्डे शिवस्य चरितं बहु ।शैवमेतत् पुराणं हि पुराणज्ञा वदन्ति
भगवत्याश्च दुर्गायाश्चरितं यत्र विद्यते ।तत्तु भागवतं प्रोक्तं नतु देवीपुराणकम्
नारदोक्तं पुराणन्तु नारदीयं प्रचक्षते
यत्र वक्ताभवत्तण्डे ! मार्कण्डेयो महामुनिः ।मार्कण्डेयपुराणं हि तदाख्यातञ्च सप्तमम्
अग्नियोगात्तदाग्नेयं भविष्योक्तेर्भविष्यकम् ।विवर्त्तनाद्ब्रह्मणस्तु ब्रह्मवैवर्त्तमुच्यते
लिङ्गस्य चरितोक्तत्वात् पुराणं लिङ्गमुच्यते ।वराहस्य वाराहं पुराणं द्वादशं मुने !
यत्र स्कन्दः स्वयं वक्ता श्रोता साक्षात् महेश्वरः ।तत्तु स्कान्दं समाख्यातं वामनस्य तु वामनम्
कौर्म्मं कूर्म्मस्य चरितं मात्स्यं मत्स्यस्यकीर्त्तितम् ।गरुडस्तु स्वयं वक्ता यत्तद् गारुडसंज्ञकम्
ब्रह्माण्डचरितोक्तत्वाद् ब्रह्माण्डं परिकीर्त्ति-तम्
”अत्र क्वचिद्वक्तृसम्बन्धः क्वचिच्छ्रोतृसम्बन्धःक्वचित्प्रतिपाद्यमुख्यदेवताचरितसम्बन्धः प्रवृत्ति-निमित्तमिति स्पष्टमेव दर्शितम् तत्र भागवत-नाम्नो निर्व्वचनवाक्यमेतत् ।“भगवत्याश्च दुर्गायाश्चरितं यत्र विद्यते ।तत्तु भागवतं प्रोक्तं तु देवीपुराणकम्
”अनेन वाक्येन भगवत्या इदं भागवतमितिव्युत्पत्या ग्रन्थप्रतिपाद्यमुख्यदेवताचरितसम्बन्धः ।प्रवृत्तिनिमित्तमिति स्पष्टमेव दर्शितम् का साभगवतीत्यपेक्षायामाह दुर्गाया इति तत्तुभागवतं तु शब्दो निश्चयार्थकः तदेव भाग-वतपदवाच्यं प्रोक्तमित्यर्थः तु पुराणान्तर-मतप्राप्तं विष्णुभागवतं महापुराणान्तर्गतंभागवतमित्यर्थ इति शैवपुराणेन स्वमतं प्रद-र्शितम् कश्चिदेतत् पुराणान्तरमतेन उप-पुराणं जानीयात्तत्राह तु देवीपुराणक-मिति पुराणकमित्यत्र कप्रत्ययोऽल्पार्थकः ।अल्पे इति सूत्रात् पुराणकमल्पं पुराणमितियावत् देव्याः पुराणकं देवीपुराणकम् ।यदिदमुक्तं तद्देव्या उपपुराणं नैवास्तीत्यर्थः ।अनेन वाक्येनान्यस्य महापुराणत्वनिषेधेनस्वाभिप्रेतस्य उपपुराणत्वनिषेधेन श्रीमद्देवी-भागवतस्यैव महापुराणत्वं बोधयति व्यासः ।सुख्यत्वेन भगवतीचरितप्रतिपादकस्य महा-पुराणमध्ये कस्यचित् पुराणस्यान्यस्याभावात् ।ननु नारदादिपुराणवचनबलात् विष्णुभागवतस्यमहापुराणान्तर्गतत्वे निर्व्विघ्नं निश्चिते तद्बलात्भागवतद्वयस्य मतंभेदेन महापुराणत्वकल्पना-पेक्षया यत्किञ्चित् भगवतीचरितस्यास्मिन्वचनेग्रहणेनानेन वचनेन विष्णुभागवतनाम्न एवनिरुक्तिः कृतेति कुतो कल्प्यते वर्त्तते चविष्णुभागवते दशमस्कन्धे किञ्चिद्विन्ध्यवासिन्या-श्चरितमिति चेन्न तथा सति मुनेर्विष्णुर्भाग-वतविषय एव तात्पर्य्यसत्त्वे भगवत इदं भाग-वतमित्येव व्युत्पत्तिं कुर्य्यान्नहि केनचिन्मुनेःशिरसि भारः स्थापितो यत् स्वाभिप्रेतां युक्ति-युक्तां निरुक्तिं त्यक्त्वा निष्प्रयोजनोऽनभिप्रेतांनिरुक्तिं करोति किञ्च सर्व्वत्रैतद्वचनप्रकरणे“यत्र पूर्व्वोत्तरे खण्डे शिवस्य चरितं बहु ।शैवमेतत् पुराणं हि पुराणज्ञा वदन्ति
”इति बहुवचनैर्ब्बहुचरितमुख्यचरितसम्बन्धरूप-प्रवृत्तिनिमित्तस्यैवाभिप्रेतत्वं मुनेरवसीयते ।मतभेदेन पुराणभेदकल्पना तु नात्रैव नवी-नास्ति पूर्व्वोक्तयुक्त्या नारदशैववायव्यादित्य-पुराणेष्वन्यत्रापि सत्त्वात् अस्तु वा गौरवंनहि तद्भयात् मुनेस्तात्पर्य्यमन्यथाकर्त्तुं कश्चि-दीष्टे तस्मात् पूर्व्वोक्तं तात्पर्य्यं विहायान्य-तात्पर्य्येणान्यार्थकरणं महासाहसमेव ननुलक्षणवाक्यमेतत् ततश्च दुर्गाचरितं यत्रवर्त्तते तद्भागवतमित्यर्थः तच्च देवीभागवतंभवितुमर्हति तस्य तल्लक्षणलक्ष्यत्वे तुदेवीपुराणकमिति निषेधविषयत्वेन निषेध-विध्योः समानविषयत्वापत्तेः किन्तु विष्णु-भागवतमेव ननु तथाप्येतल्लक्षणमन्यपुराणे-ष्वतिप्रसक्तमिति चेन्न यथा वृत्रासुरवध-लक्षणमन्यपुराणेषु प्रसक्तमपि यथा लक्षणत्वेनगृहीतम् तद्वदत्रापि सत्त्वादिति चेन्न ।पूर्व्वोक्तनिरुक्तिवचनप्रकरणस्थत्वविरोधात् ।किञ्च लक्षणवाक्यमेतदितिपक्षेऽप्येतस्य लक्ष-णस्य महापुराणोद्देशेनैव सत्त्वादुपपुराणेष्वस्यप्रसक्त्यभावाद्देवीपुराणकालिकापुराणयोरुप-पुराणत्वस्य निश्चितत्वात् तत्रैतल्लक्षणस्य प्रसक्ति-रेव नास्तीति तु देवीपुराणकमिति निषेधोव्यर्थ एव स्यात् तस्मादेव तद्वचनस्य पूर्व्वोक्तएवार्थः किञ्च लक्षणवाक्यमेतदिति पक्षे यत्किञ्चिच्चरितं गृह्यते उत यावच्चेरितम् यत्-किञ्चिच्चरितस्य सर्व्वमहापुराणेषु सत्त्वाद्देवी-पुराणमात्रनिषेधेन निर्व्वाहः तस्माद्देवी-पुराणस्यैव निषेधस्वारस्याद्यावच्चरितं मुख्यत्वेनभगवतीचरित्रमेव ग्राह्यम् तदा तव नाभी-ष्टार्थसिद्धिः मुख्यत्वेन विष्णुभागवते दुर्गा-चरितस्याभावान्ममैव त्वभीष्टार्थसिद्धिः निषेध-विध्योः समानविषयकत्वरूपं दूषणन्तु नैव सम्भ-वति प्रकरणबलात् तात्पर्य्ये निश्चिते तद्विषयंविहायैव निषेधप्रवृत्तेः वृत्रासुरवधोपेतत्व-लक्षणं तु गायत्र्यारम्भविशिष्टमिति तदति-प्रसक्तं तस्मात् पूर्व्वोक्त एव तद्बचनार्थे इतितद्वचनाद्देवीभागवतं महापुराणं तु विष्णु-भागवतमिति शिवपुराणमतम् अत्र चनियमद्वयस्य पूर्व्वोक्तस्य सत्त्वाद्विष्णुभागवत-विषये तथा नियमद्वयाभावादिदं शिवपुराण-मतमेव मुख्यमन्यपुराणमतं त्वेकदेशीति नियम-द्वयप्रदर्शकव्यासवाक्येन स्पष्टमेव बोधितमितिसुधियो विभावयन्तु किञ्च ।“शैवमादिपुराणञ्च देवीभागवतं तथा ।”इति पाद्मवचनसंवादितया, --“नवरात्रे तु देवेशि ! दौर्गं भागवतं पठेत् ।जपेत् सप्तशतीं चण्डीं नियमेन समाहितः
”इति दुर्गातरङ्गिणीधृतयामलवचनेन तथा, --“देवीभागवतं नित्यं पठेद्भक्त्या समाहितः ।नवरात्रे विशेषेण श्रीदेवीप्रीतये मुदा
”इति महेशठक्कुरकृतदुर्गाप्रदीपधृतदेवीयामल-वचनेन सप्रमाणस्य देवीभागवतस्य सर्व्वथो-पपुराणमध्ये एव निवेशात् ।“तत्र भागवतं पुण्यं पञ्चमं वेदसम्मितम् ।”इति प्रथमस्कन्धस्थस्य महापुराणेषु पञ्चममिदंपुराणमित्यर्थकस्य देवीमागवतोक्तवचनस्यनिरालम्बनत्वादप्रामाण्यापत्तेः मन्मते तु तस्यविषयलाभान्नाप्रामाण्यं तद्बचनप्रामाण्यादपिदेवीभागवतमेव महापुराणमिति किञ्चहेमाद्रौ कालिकापुराणे ।“यदिदं कालिकाख्यं तन्मूलं भागवतं स्मृतम् ।”इति वचनं तदपि देवीभागवतस्यैव महापुरा-णत्वं बोधयति तथाहि ।“अष्टादशभ्यस्तु पृथक् पुराणं यत् प्रदृश्यते ।विजानीध्वं द्बिजश्रेष्ठास्तथा तेभ्यो विनिर्गतम्
”इति मात्स्यवचनेनोपपुराणानां महापुराण-मूलकत्वनियमादिदं कालिकापुराणं किम्-पुराणमूलकमित्याकाङ्क्षायां तस्यानिवर्त्तकमिदंवाक्यं यदिदं कालिकाख्यं पुराणं तन्मूलं तस्यमूलं भागवतं विदुरिति हि तस्यार्थो निबन्ध-कारैर्द्दर्शितः यथान्यान्युपपुराणान्येकैकस्मा-न्महापुराणान्निर्गतानि तद्वदिदं भागवतादुत्-पन्नमिति यावत् तच्च भागवतं वैष्णवंतन्मूलं भवितुमर्हति देव्युपपुराणस्य देवी-पुराणमूलकत्वे एव सामञ्जस्यात् शैवोप-पुराणानां शैवेभ्य एव वैष्णवोपपुराणानांवैष्णवेभ्य एवोत्पत्तिदर्शनादिति देवीभागवत-मेव तन्मूलमिति तस्य महापुराणत्वं सिद्धम् ।यत्र तु क्वचित् क्वचित् महापुराणमूलकत्वमप्र-सिद्धं तत्र यथायोग्यमनुमेयमिति किञ्चा-दित्यपुराणदृष्ट्यापि देवीभागवतमेव महा-पुराणम् तथाहि आदित्यपुराणे रक्तासुर-वधप्रस्तावे ।“या जघ्ने महिषं दैत्यं क्रूरं वृत्रासुरं तथा ।साद्य रक्तासुरं हत्वा स्वाराज्यं ते प्रदास्यति
”इति वचनम् अनेन वचनेन देवीभागवतेस्वसम्मतिर्द्दर्शिता हि देवीभागवताति-रिक्तसर्व्वपुराणेषु देवीकृतो वृत्रासुरवधः क्वचि-दप्यस्ति इन्द्रकृतस्यैव तस्य सत्त्वात् केवलंदेवीभागवत एव देवीकृतः सोऽस्ति तद्ग्रह-णेन तु देवीभागवते स्वसम्मतिर्द्दशितेति युक्त-मेव अनन्तरञ्च तत्रैव पुराणदानप्रस्तावे ।“ददाति सूर्य्यभक्ताय यस्तु भागवतं द्बिजाः ।सर्व्वपापविनिर्मुक्तः सर्व्वव्याधिविवर्ज्जितः
जीवेद्वर्षशतं साग्रमन्ते वैवस्वतं पदम्
”इति पठितम्
अत्र स्वसम्मतं भागवतमेव ग्रहीतुमुचितम् ।किञ्चेदं षचनं देवीभागवतपक्षे एव स्वरसतःसङ्गच्छते प्रथमश्लोके एकादशद्वादशस्कन्ध-योश्च सविस्तरं गायत्त्रीविधानसहस्रनामादेःकथनात् सूर्य्यस्य गायत्त्रीदेवतात्वात् तद्भाग-वतपक्षे तु वैकुण्ठं गच्छेदित्येव वदेदिति किञ्च“यत्राधिकृत्य गायत्त्रीं वर्ण्यते धर्म्मविस्तरः ।वृत्रासुरवधोपेतं तद्भागवतमिष्यते
”इति मात्स्यवचनमपि देवीभागवतस्यैव महा-पुराणत्वं बोधयति वेदे त्रिपदा गायत्त्रीतिगायत्त्रीलक्षणं श्रूयते तेन त्रिपाच्छन्दो-ऽधिकृत्य यत्र धर्म्मविस्तरो वर्ण्यते तद्भागवत-मिति तदर्थः त्रिपाच्छन्दश्च देवीभागवतेप्रथमश्लोके ।“सर्व्वचैतन्यरूपां तामाद्यां विद्याञ्च धीमहि ।बुद्धिं या प्रचोदयात्
इति श्रूयते ।न विष्णुभागवते तच्छन्दोऽस्ति मुख्यार्थसम्भवेगायत्त्रीपदस्य लक्षणया धीमहीत्यर्थकरणेनविष्णुभागवतपरत्वकल्पनमस्य वचनस्य तुसाहसमेव क्वचित्पुराणेषु यदि तादृशान्येवविष्णुभागवतपराणि वचनानि सन्ति तत्रगत्यन्तराभावादस्तु लक्षणा उदासीने मात्स्य-वाक्ये तु मुख्यविषयसम्भवे सानुचिता यद्य-प्याधुनिकपुस्तकेषु क्वचिच्चतुश्चरणश्लोकोऽपिदृश्यते तथापि सप्तशत्यां गुप्तवतीटीकाकारा-दिभिस्त्रिपात्श्लोकस्यैव व्याख्यातत्वेन एवसांप्रदायिकः पाठ इति बोध्यम् यत्तु गाय-त्त्र्यर्थश्च विष्णु ध्यानं तु शिवशक्तिसूर्य्यादि-ध्यानमित्युक्तं तत्तु नास्तिकत्वमूलकमेव ।“मैत्रायणीयानां भर्गो वै रुद्रः ।” इति श्रुतौप्रपञ्चसारादिसर्व्वतन्त्रेषु पुराणादिषु शिव-सूर्य्यशक्त्यादिरूपार्थस्योक्तत्वाच्च तदुदाहृत-माग्नेयवाक्यन्तु विरोधत्वे नापेक्षं स्यादसतिह्यनुमानमिति न्यायात् स्तावकमेवेति किञ्च ।“हयग्रीवब्रह्मविद्या यत्र वृत्रवधस्तथा ।गायत्त्र्या समारम्भस्तद्वै भागवतं विदुः
”इति पुराणान्तरवाक्यमपि देवीभागवतस्यैवमहापुराणत्वबोधकम् तथा हि हयग्रीव-नामासुरो देवीभागवते प्रथमस्कन्धे प्रसिद्ध-स्तेनोपासिता ब्रह्मप्रतिपादिका विद्या स्त्री-दैवत्यो मन्त्रः सा विद्या यत्र वर्त्तते तद्भागवत-मित्यर्थः दैत्यस्तदुपासिता विद्या चेत्युभय-मपि तत्रैव प्रथमस्कन्धे दर्शितम् ।“जपन्नेकाक्षरं मन्त्रं मायाबीजात्मकं मम
”इत्यादिना
ननु विष्णुभागवते पञ्चमस्कन्धेऽपि हयग्रीव-मन्त्रस्य सत्त्वादिदं वचनमुभयभागवतसाधारणमिति चेन्न नारदीये शारदातिलकादिनिब-न्धेषु ।“मन्त्राः पुंदेवताः प्रोक्ता विद्याः स्त्रीदेवताःस्मृताः
”इत्यादिवचनैः स्त्रीदैवत्यमन्त्रेष्वेव विद्यापद-प्रयोगो पुंदैवत्यमन्त्रेष्विति प्रतिपादनात् ।क्वचित् पुंदैवत्यमन्त्रे तथाप्रयोगस्तु गौणः नच गौणार्थमादाय तद्वचनस्य विष्णुभागवत-परत्वं कल्पितुमुचितम् लक्षणारूपदोषापत्तेः ।तस्मान्न तद्वचनमुभयसाधारणमिति देवीभाग-वतस्यैव महापुराणत्वं बोधयति किञ्च सार-स्वतस्य कल्पस्येति मात्स्यवचनादपि देवीभाग-वतमेव महापुराणम् अत्र ह्येवं प्रकरणशुद्धिः ।ऋषय ऊचुः ।“पुराणसंख्यामाचक्ष्व सूत ! विस्तरतः क्रमात् ।”इति मुनिप्रश्नोत्तरं ब्रह्मणाऽभिहितं पूर्व्वंयत्तद्ब्राह्मं पद्मकल्पवृत्तान्ताश्रयं पाद्मं वराह-कल्पवृत्तान्ताश्रयं वैष्णवं श्वेतकल्पवृत्तान्ताश्रयंवायवीयमित्येवं तत्तत्कल्पवृत्तान्ताश्रयाणि पुरा-णान्युक्त्वा तदुत्तरम् ।“यत्राधिकृत्य गायत्त्रीं वर्ण्यते धर्म्मविस्तरः ।वृत्रासुरवधोपेतं तद्भागवतमिष्यते
इति
“स्वारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः ।तद्वृत्तान्तोद्भवं लोके तद्भागवतमिष्यते
”इत्युक्त्वा ततोऽन्यान्यपि महापुराणान्येव तत्तत्-कल्पवृत्तान्ताश्रयाणि दर्शितानि पश्चादुप-पुराणकथनार्थमुपभेदान् प्रवक्ष्यामीति प्रतिज्ञायपद्मपुराणान्नारसिंहं निर्गतमेवं नन्दिसाम्बा-दित्यसंज्ञकान्युक्त्वा अन्योपपुराणान्यपि महा-पुराणेभ्य एव निर्गतानीति ।“अष्टादशभ्यस्तु पृथक् पुराणं यत् प्रदृश्यते ।विजानीध्वं द्विजश्रेष्ठास्तदा तेभ्यो विनिर्गतम्
”इति वचनेन सूतऋषिरुक्तवान्
ततः ।“सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि
”इत्यादिना पुराणलक्षणान्युक्त्वा, --“सात्त्विकेषु कल्पेषु महात्म्यमधिकं हरेः ।राजसेषु कल्पेषु माहात्म्यं ब्रह्मणो विदुः ।तद्वदग्नेश्च माहात्म्यं तामसेषु शिवस्य ।सङ्कीर्णेषु सरस्वत्याः पितॄणां निगद्यते
”इति वचनेन पुराणप्रतिपाद्यहरिब्रह्माग्निहर-सरस्वतीपितॄणां माहात्म्यसम्बन्धात् कल्पानांसात्त्विकराजसतामसत्वसङ्कीर्णत्वभेदैश्चातुविं-ध्यत्वमुक्तवानिति तत्र कल्पानां तत्तद्देषता-सम्बन्धज्ञानन्तु तत्तत्कल्पाश्रिततत्तत्पुराणप्रति-पाद्यमुख्यदेवताज्ञानेनैव बोध्यम् अन्यप्रकारस्यक्वचिदपि पुराणेष्वनुपलम्भात्तत्रैवं सति ।“सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः ।तद्वृत्तान्तोद्भवं लोके तद्भागवतमिष्यते
”इति वचनं भागवतस्य लक्षणप्रतिपादकं प्रति-पादितम् तदर्थस्तु यथा गारुडकल्प इत्यत्रगरुडस्यायं गारुडः यथा वा वाराहकल्पइत्यत्र वराहस्यायं वाराह इति व्युत्पत्तिःप्रसिद्धा तद्वदेव सरस्वत्या अयं सारस्वतइति विग्रहः ।“सरस्वत्यास्तथा कल्पो गौरीकल्पस्तथैव
”इति कल्पनामसु सरस्वतीकल्पत्वेनैव कथितत्वाच्च मत्स्यपुराणे उपन्त्याध्याये ।“सङ्कीर्णेषु सरस्वत्याः पितॄणां कल्प उच्यते
”इति वचनेन तथैवोक्तत्वाच्च ब्रह्मविष्णुरुद्राणांकल्पवद्गौरीलक्ष्म्योः कल्पवच्च सरस्वतीकल्प-स्यार्थप्राप्तत्वाच्च तादृशसारस्वतकल्पसम्बन्धिनोये देवमनुष्यास्तद्वृत्तान्तस्योद्भव उत्पत्तिर्यस्मात्तत्पुराणं भागवतं विदुः तद्वृत्तान्तप्रदशकंयत् पुराणं तद्भागवतसं ज्ञकमिति यावत् अत्रच तत्तद्देवतानामाविर्भावाश्रया ये ये कल्पास्तेतत्तन्नाम्ना व्यवह्रियन्ते एतच्च तत्तन्नामक-कल्पाश्रितेषु पुराणेषु तत्तद्देवताया एव मुख्यत्वे-नोत्पत्तिप्रदर्शकवाक्यैर्लक्ष्मीकल्पादिकल्पाश्रित-कूर्म्मपुराणादिषु सर्व्वत्र प्रसिद्धमेव तथा चमुख्यत्वेन सरस्वत्या आविर्भावप्रतिपादकं पुराणंयत् तद्भागवतमित्यतिरहस्यार्थः तत्र सार-स्वतकल्प इति पदेनैव कल्पस्य सरस्वतीसम्बन्धेबोधिते तस्य सङ्कीर्णत्वं सङ्कीर्णेषु सरस्वत्याइति वचनेनेश्वरप्रेरणां विनापि गृहागतमेव ।अस्मिंश्च वचने भागवतपदेन विष्णुभागवतस्यग्रहणं बन्ध्यापुत्त्रोपममेव तत्र मुख्यत्वेन सर-स्वत्याविर्भावस्यासत्त्वात् विष्णुभागवते द्वितीय-स्कन्धे “पाद्मं कल्पमथो शृणु ।” इति वचनेनस्वमुखेनैव स्वस्य पाद्मकल्पकथाश्रयत्वस्योक्त-त्वात् तद्विरोधाच्च पाद्मकल्प एव सार-स्वतः सरस्वान् समुद्रस्तस्माज्जातं कमलं सार-स्वतं तस्य कल्प इति व्यत्पत्त्येति वाच्यम् ।“पद्मकल्पस्य वृत्तान्तं तत्र यस्मादुदाहृतम् ।तस्मात् पाद्मं समाख्यातम्
”इति पूर्व्वोदाहृतशिवपुराणवचनेन ।“एतदेव यदा पाद्ममभूद्धैरण्मयं जगत् ।तद्वृत्तान्ताश्रयं तद्बत् पाद्ममित्युच्यते बुधैः
पाद्मं तत् पञ्चपञ्चाशत्सहस्राणीह कथ्यते
”इति मत्स्यपुराणवचनेन ।“सारस्वतस्य कल्पस्य मध्ये येस्युर्नरामराः ।”इति वचनेन पाद्मकल्पसारस्वतकल्पयोःपृथक्कथनात् किञ्च सारस्वतकल्पपाद्मकल्पयो-रेकत्वे पद्मकल्पस्य प्रतिपादकं पुराणद्वयं पाद्मंभागवतञ्चेत्येव वदेत् किञ्च पद्मकल्पस्य वृत्तान्त-मित्यत्राभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताइति न्यायेन पूर्व्वं बुद्ध्यारूढं प्रसिद्धं पाद्मशब्दंविहायाप्रसिद्धं सारस्वतशब्दं पाद्मशब्दस्यवाचकं कृत्वा सारस्वतपदघटितकल्पने प्रयो-जनाभावः किञ्च सरस्वत्यास्तथा कल्पइत्यादेः पूर्व्वोक्तस्य सारस्वतपदनिरुक्त्यर्थकस्यवचनसमूहस्य विरोधश्च पाद्मकल्प-सारस्वतकल्पयोः पृथक्त्वे त्रिंशत्कल्पेषु मत्स्य-पुराणान्तिमाध्याये कीर्त्तितेषु सारस्वतपदेनपाद्मस्य ग्रहणं स्यादिति वाच्यम् प्रभास-खण्डे त्रिंशत्कल्पेषु विष्णुजकल्पार्चिषकल्पसुपु-मान्कल्पानां ग्रहणेऽपि तेषां कल्पानां यथामात्स्यान्तिमाध्याये ग्रहणं तथा पाद्मस्यापिन ग्रहणमित्यस्य तुल्यत्वात् यदि तेषां पर्य्याय-त्वेन कुत्रचिदन्तर्भावः क्रियते तर्ह्यस्यापि कुत्र-चिदन्तर्भावोऽस्तु अतएव विष्णुभागवतस्यप्रबन्धटीकाकारेण पितृकल्पे एव पूर्व्वार्द्धान्तेपद्मस्योद्भवात् पितृकल्पपदेन पाद्मसंग्रहो वेदि-तव्य इत्युक्तम् पुराणकल्पकथनप्रस्तावे सार-स्वतकल्पपाद्मकल्पयोः पृथक्त्वकरणेन सारस्वत-पदेन पाद्मस्य सर्व्वथा ग्रहणम् वस्तुतस्तुत्रिंशत्कल्पा ब्रह्मणस्त्रिंशत्तिथ्यात्मकाः त्रिंश-त्तिथिषु प्रतिपदादिषूत्पद्यन्ते भूर्भुवःसुवःभूर्भूवःसुव इत्यादयस्त्रयस्त्रिंशत्कल्पाः पाद्मा-दयश्च वायुपुराणोक्ता दिनकल्पा ब्रह्मणः प्रतिदिवसेषूत्पद्यन्ते इति दिनकल्पतिथिकल्पानांसुतरां भेदात्तिथिकल्पेषु दिनकल्पानां पाद्मा-दीनां ग्रहणमिति सिद्धान्तः ।यत्तु विष्णुभागवतस्यारम्भतः पाद्मकल्पाश्रय-त्वेऽपि कृष्णजन्मखण्डस्यैव सारस्वतकल्पभवत्वेनतस्य दशमस्कन्धे सत्त्वात् ।“सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः
”इति वचनस्य विष्णुभागवतं विषयोऽस्तीत्याहु-स्तदसत् कृष्णजन्मखण्डस्य सारस्वतकल्पभवत्व-प्रतिपादकानां वचनानां निर्मूलत्वात् समूल-त्वेऽपि यस्मिन् पुराणे यस्य कल्पस्य प्रथमतःप्रतिपादनं तत्कल्पप्रतिपादकमेव तत्पुराणमितिनियमः सर्व्वपुराणे तथा दृष्टत्वात् तथा चकृष्णजन्मखण्डस्य दशमस्कन्धे विद्यमानत्वेऽपिप्रथमतस्तत्कथाया अभावात्पाद्मकल्पकथायाःप्रथमतो विद्यमानत्वस्य स्वेनैवोक्तत्वाच्च नसारस्वतस्य कल्पस्येति वचनस्य विष्णुभागवतंविषयः किञ्च कृष्णजन्मखण्डस्य यथा दशम-स्कन्धे कथनं तदा सर्व्वपुराणेषु तत्कथनं वर्त्ततएवेति सर्व्वपुराणानां तद्वचनविषयत्वं स्यात्तथाच सर्व्वपुराणानि भागवतपदवाच्यानि स्युस्त-स्मात्सारस्वतकल्पस्य यत्र प्रथमतः प्रतिपादनंस एव तद्वचनस्य विषयो वक्तव्यस्तादृशञ्चदेवीभागवतमेवास्तीति देवीभागवतमेव तद्वि-षयो वक्तव्य इति किञ्च शिवपुराणे उमा-संहितायाम् ।“ब्रह्मणा संस्तुता सेयं मधुकैटभनाशने ।महाविद्या जगद्धात्री सर्व्वविद्याधिदेवता
द्वादश्यां फाल्गुनस्यैव शुक्लायां समभून्नृप !
”इति वचनात् फाल्गुनशुक्लद्वादश्यां देव्याउद्भवस्तद्दिने एव सारस्वतकल्पोद्भवस्तदुक्तंहेमाद्रौ कल्पश्राद्धप्रकरणे नागरखण्डे ।“सारस्वतस्तु द्बादश्यां शुक्लायां फाल् गुनस्यच ।” इति
तथा सरस्वत्याः कल्प इत्यर्थकस्य ।“सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः
”इति वचनस्य सर्व्वथा देवीभागवतमेव विषयोन विष्णुभागवतमिति बोध्यम् किञ्च तस्यग्रहणे तस्य हरिमाहात्म्यप्रतिपादकत्वात् ।तदाश्रितकल्पस्य सात्त्विकत्वमेवायास्यति ।“सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः ।”इति वचनात् ततश्च संकीर्णेषु सरस्वत्या इतिवचनेन सारस्वतकल्प इति नाम्ना पारम-हंस्यसामग्र्येव कर्त्तव्या स्यात् अतो विष्णु-मागवतं विहाय देवीभागवतमेवास्य वचनस्यविषयोऽनिच्छतापि वक्तव्यस्तस्मात् सारस्वतस्यकल्पस्येति चनाद्देवीभागवतमेव महापुराणम् ।अस्ति चात्र सरस्वत्याविर्भावप्रतिपादकं वच-नम् तदुक्तं देवीभागवते प्रथमस्कन्धे ।“तस्यास्तु सात्त्विकी शक्ती राजसी तामसीतथा ।महालक्ष्मीः सरस्वती महाकालीति ताः स्त्रियः ।तासां तिसृणां शक्तीनां देहाङ्गीकारलक्षणः ।सृष्ट्यर्थञ्च समाख्यातः सर्गः शास्त्रविशारदैः
”इति ।“अम्बरीषशुकप्रोक्तं नित्यं भागवतं शृणु ।”इति वचनमपि शुकाय प्रोक्तमिति व्युत्पत्त्यादेवीभागवतपरमपि सङ्गच्छते भवति हिदेवीभागवतं शुकायैव प्रोक्तं व्यासेनेति किञ्च“अष्टादशपुराणानि कृत्वा सत्यवतीसुतः ।भारताख्यानमखिलं चक्रे तदुपबृंहणम्
”इति मात्स्यवचनमपि देवीभागवतस्यैव महा-पुराणत्वं बोधयति अष्टादशपुराणोत्तरंभारतस्य जातत्वात् भारतोत्तरञ्च विष्णु-भागवतस्य जातत्वात् भारतोत्तरकालंनिर्व्विण्णो व्यासश्चकारेति विष्णुभागवते एवोक्त-त्वात् ननु“वेदशाखाः पुराणानि वेदान्तं भारतन्तथा ।कृत्वा सम्मोहसंमूढोऽभवं राजन् ! मन-स्यपि
”इति देवीभागवते तृतीयस्कन्धे एवोक्तत्वात्त-त्रापि सविरोधस्तदवस्थ एवेति चेन्न मन्मतेतदानीं ग्रन्थो नैव जातः किन्तु जनमेजयंप्रति एवं वक्तास्मीति ज्ञानचक्षुषा ज्ञात्वा भार-तात् पूर्व्वमेव देवीभागवतं कृतमित्यर्थस्य कल्प-नात् त्वन्मते तु तथा कल्पयितुं शक्यते ।चतुःश्लोकीभागवतोपदेशस्य जायमानत्वात् ।उपदेशात् पूब्ब तज्ज्ञानाभावस्यावश्यं कल्प-नीयत्वात् यदि तत्रापि पूर्व्वं व्यासस्य ज्ञान-मस्तीति स्वीक्रियते तदा वक्ष्यमाणः सर्व्वोप्यर्थ-वादः स्यात् ततश्च ग्रन्थसारस्यभङ्गप्रसङ्गइत्यास्तां तावत् वस्तुतस्तु वेदशाखाः पुराणा-नीति पाठोऽसङ्गत इति वक्ष्यते तृतीयस्कन्धेतदा कोऽपि विरोधः यत्तु पाद्मे भागवत-माहात्म्ये श्रीमद्भागवतकथाश्रवणाय समा-गतानां परिगणनप्रसङ्गे ।“वेदान्तानि वेदाश्च मन्त्रास्तन्त्राणि संहिताः ।दशसप्तपुराणानि षट्शास्त्राणि समाययुः
”इत्युक्तम् तत्र व्यासकृतपुराणानामष्टादशत्वा-दष्टादशेति वक्तव्ये सप्तदशत्वोक्तिः श्रीमद्भागवत-स्याष्टादशत्वं गमयति तस्याष्टादशानन्तर्गतत्वेदेवीभागवतस्याष्टादशान्तर्गतत्वे वाष्टादशानांश्रोतृत्वसम्भवेन श्रोतुमागतानां पुराणाना-मष्टादशत्वानुक्तेर्निर्बीजत्वप्रसङ्गात् एवं पाद्मे“सप्तदशपुराणानि कृत्वा सत्यवतीसुतः ।नाप्तवान्मनसा तोषं भारतेनापि भामिनि !
चकार संहितामेतां श्रीमद्भागवतीं पराम्
”इति सप्तदशत्वोक्तिः श्रीमद्भागवतस्यैवैतां संहि-तामिति निर्द्दिष्टस्याष्टादशत्वं गमयति ।देवीभागवतस्याष्टादशत्वेऽष्टादशपुराणानीत्य-नुक्तेर्निर्बीजत्वप्रसङ्गादित्याहुस्तदसत् तेषा-मेव वचनैर्विष्णुभागवतस्याष्टादशपुराणान्त-र्गतत्यं सिध्यति किन्तु देवीभागवतस्यैवेतिवार्द्धुषिकत्वं कुर्व्वाणो मूलमेव विनाशितवा-निति न्याय आगतः तथा हि भारतं व्यास-मुखाच्छ्रुत्वा तत्र सन्दिहानः क्रौष्टुकिर्मार्कण्डेयंप्रत्यागत्य सन्देहं पृष्ठवान् तस्मै मार्कण्डेयोमार्कण्डेयपुराणमुक्तवान् तदुक्तं मार्कण्डेय-पुराणे“तदिदं भारताख्यानं बह्वर्थं श्रुतिविस्तरम् ।तत्त्वतो ज्ञातुकामोऽहं भगवन्तमुपस्थितः
”इति ।तथा भारतोत्तरं मार्कण्डेयपुराणमभवत् ।तथैव त्वदुक्तरीत्यैव विष्णुभागवतमपि तथा चभारतात् पूर्व्वं षोडशपुराणान्येव सिद्धानि ।तथा पूर्व्वोक्तवचनमध्ये षोडशेत्येव वक्तव्येसप्तदशेत्युक्तत्वात् देवीभागवतमेव महापुराण-मन्यथा सप्तदशत्वपूर्त्तिर्न स्यात् तस्मात्तद्वचन-प्रामाण्याद्देवीभागवतमेव महापुराणमितिसिध्यति तु विष्णुभागवतम् भारतात् पूर्व्वंसप्तदश मदीयभागवतसहितानि मार्कण्डेयमष्टा-दशमुभयमतसिद्धमेव विष्णुभागवतस्य भारतो-त्तरं जायमानत्वेन तन्मध्ये तस्यावस्थानस्थला-भावादित्येवं लापनेनापि दोषाभावादितिसुधियो विभावयन्तु यत्तु किञ्च पाद्मे ।“वैष्णवं नारदीयञ्च तथा भागवतं शुभम् ।गारुडञ्च तथा पाद्मं वाराहं शुभदर्शने ! ।सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै
”इत्युक्या भागवतस्य सात्त्विकत्वमुक्तम् ।सात्त्विकेषु पुराणेष्विति कौर्म्मोक्त्या सात्त्विक-पुराणानां विष्णुपरत्वमुक्तम् अतो विष्णु पर-मेव भागवतमष्टादशपुराणान्तर्गतं तु देवी-भागवतमिति अपि स्कान्दे प्रभासखण्डे ।“चतुर्भिर्भगवान् विष्णुर्द्वाभ्यां ब्रह्मा तथा रविः ।अष्टादशपुराणेषु शेषेषु भगवान् भवः
”इत्युक्तम् स्कान्दे सौरसंहितायाञ्च ।“कथ्यते दशभिर्विप्राः पुराणैः परमेश्वरः ।चतुर्भिर्भगवान् विष्णुर्द्वाभ्यां ब्रह्मा प्रकीर्त्तितः
एकेनाग्निस्तथैकेन भगवांश्चण्डभास्करः
”इत्युक्तमतोऽपि विष्णुभागवतमष्टादशान्तर्गतंनत्वन्यदित्याहुस्तदसत् त्वन्मते मत्स्योक्त-सात्त्विकराजसतामससङ्कीर्णपुराणेषु मध्येत्रयाणां व्यवस्था पूर्व्ववचनैस्त्वयोक्ता सङ्कीर्ण-पुराणानान्तु नोक्ता तेषां केषु पुराणेष्वन्तर्भावइति वद करिष्यामि कुत्रचिदिति चेन्मममतेऽपि श्रीभगवत्या विष्णु शक्तित्वाभिमानेनमन्त्राधिष्ठात्रीं देवतां वेदमानो दुर्गां दुर्ब्बोध-ध्वान्तभानुं गुरुञ्च इति श्रीक्रमदीपिकोक्तप्रका-रेण विष्णु मन्त्राणां दुर्गायाः अधिष्ठातृत्वेनतयोरैक्याद्वा तत्प्रतिपादकभागवतस्य वैष्णवे-ष्वेवान्तर्भावात् अतएव“हरिर्द्वाभ्यां रविर्द्वाभ्यां द्वाभ्यां चण्डीविना-यकौ ।द्वाभ्यां ब्रह्मा समाख्यातः शेषेषु भगवान्शिवः
”इति वचनं सङ्गच्छते वस्तुतस्तु द्वयोरपिभागवतयोरस्मन्मते प्रमाणत्वात् विष्णुभाग-वतपक्षपातिनां वचनानामस्माकं विरोधाभावेनतल्लापने प्रयोजनाभाव एव तथा नार-दीयादिपुराणमतेन श्रीविष्णु भागवतं महा-पुराणं तद्वचनानि प्रसिद्धान्येवेति लिखितानि ।देवीभागवतन्तु तन्मते उपपुराणम् शैव-मात्म्यपुराणादिमते तु देवीभागवतं महापुरा-णम् विष्णुभागवतमर्थादुपपुराणमिति सिद्धम् ।अत्र केचिद्देवीभागवतसम्मतित्वेन देवीयामल-तन्त्रस्थम् ।“श्रीमद्भागवतं नाम पुराणं वेदसम्मितम् ।पारीक्षितायोपदिष्टं सत्यवत्यङ्गजन्मना
तत्र देव्यवताराश्च बहवः प्रतिपादिताः
”इति ।तथा“इदं रहस्यञ्चरितं राधोपासनमुत्तमम् ।व्यासाय मम भक्ताय प्रोक्तं पूर्व्वं मयाद्रिजे !
मत्तो रहस्यं ज्ञात्वैव राधामाहात्म्यमुत्तमम् ।एतस्य विस्तरं चक्रे श्रीमद्भागवते तथा
नारदे ब्रह्मवैवर्त्ते लोकानां हितकाम्यया
”इति ।सौभाग्यकल्पलतायां संहारभैरवतन्त्रस्थं वचनंलिखन्ति तत्र परे विवदन्ते तदुभयमपिगौरवभिया लिख्यत इति
*
)तत्र विष्णुभागवते प्रथमस्कन्धे परिक्षिन्नारदयो-रुपाख्यानम् विप्रशापात् परीक्षितस्य प्रायोप-वेशः शुकपरीक्षितसंवादश्च
*
द्वितीय-स्कन्धे योगधारणयोत्क्रान्तिः नारदाजयोःसंवादः अवतारानुगीतम् महदादिक्रमेणसृष्टिश्च
*
तृतीयस्कन्धे विदुरोद्धव-संवादः क्षत्तृमैत्रेययोः संवादः पुराण-संहिताप्रश्नः महापुरुषसंस्थितिः प्राकृ-तिकः सर्गः वैकृतिकाः सप्त सर्गाः ब्रह्माण्ड-सम्भूतिः विराट्पुरुषोत्पत्तिः कालस्य स्थूल-सूक्ष्मस्य गतिः पाद्मसमुद्भवः अम्भोधेर्भवउद्धारणा हिरण्याक्षवधः ऊर्द्धतिर्य्यगर्वाक्सर्गः रुद्रसर्गः अर्द्धनारीनरस्य सर्गः यतःस्वायम्भुवमनुः स्त्रीणां आद्या प्रकृतिः शतरूपाच कर्द्दमप्रजापतेर्धर्म्मपत्नीनां सन्तानः भग-वत्कपिलावतारः कपिलेन देवहूतिसंवा-दश्च
*
चतुर्थस्कन्धे नवब्रह्मसमुत्पत्तिः ।दक्षयज्ञविनाशनम् ध्रुवचरितम् पृथोःप्राचीनवर्हिषश्च चरितम् नारदस्य संवा-दश्च
*
पञ्चमस्कन्धे प्रियव्रतचरितम् ।द्वीपसमुद्रादिवर्षनद्युपवर्णनम् ज्योतिश्चक्रस्यसंस्थानम् पातालनरकस्थितिश्च
*
षष्ठस्कन्धे दक्षजन्म तत्पुत्त्रीणां सन्ततिः ।यतः देवासुरनरतिर्य्यङ्नगखगादयः त्वाष्ट्रस्यजन्म
*
सप्तमस्कन्धे दितेः पुत्त्रयो-र्निधनम् प्रह्लादचरितञ्च
*
अष्टम-स्कन्धे मन्वन्तरानुचरितम् गजेन्द्रविमोक्ष-णम् मन्वन्तरावताराः हयशीर्षादयोऽव-ताराः जगत्पतेः कौर्म्ममात्स्यनारसिंह-वामनरूपाणि क्षीरोदमथनम् देवासुर-युद्धश्च
*
नवमस्कन्धे राजवंशानु-कीर्त्तनम् इक्ष्वाकुजन्म तद्वंशः सुद्मुम्नवंशः ।इलोपाख्यानम् तारोपाख्यानम् सूर्य्यवंशानु-कथनम् शशादनृगसौकन्यस्वर्जातिककुत्स्थ-खट्वाङ्गमान्धातृसौभरिरामाणां चरितम् निमे-रङ्गपरित्यागः जनकानां सम्भवः परशुराम-जन्म भुवो निःक्षत्त्रीकरणम् ययाति-नहुषभरतशान्तनुतत्सुतयदूनां वंशानुकीर्त्त-नञ्च
*
दशमस्कन्धे श्रीकृष्णस्य वसु-देवगृहे जन्म गोकुले तस्य वृद्धिः तस्यपूतनापयःपानम् शकटोच्चाटनम् तृणावर्त्त-वधः वकवत्सयोर्वधः अधासुरवधः धात्रावत्सपालावगूहनम् भ्रात्रा सह धेनुकस्यवधः प्रलम्बवधः गोपालानां दावाग्नेः परि-त्राणम् कालीयदमनम् महाहेर्नन्दमोक्ष-णम् कन्यानां व्रतचर्य्या यज्ञपत्नीभ्यः प्रसादः ।विप्राणामनुपालनम् गोवर्द्धनोद्धारणम् शक्र-सुरभिकर्त्तृककृष्णस्य यज्ञाभिषेकः रात्रिषुस्त्रीभिः क्रीडा शङ्खचूडस्य वधः केशिवधः ।अक्रूरागमनम् रामकृष्णयोर्मथुराप्रस्थानम् ।व्रजस्त्रीणां विलापः मथुरालोकनम् गज-मुष्टिकचानूरकंसादीनां वधः सान्दीपनेर्मृत-पुत्त्रानयनम् उद्धवरामाभ्यां सह हरिणायदुचक्रस्य प्रियकरणम् जरासन्धसमानीत-बहुसैन्यवधः यवनेन्द्रस्य घातनम् कुशस्थल्यानिवेशनम् पारिजातहरणम् रुक्मिणीहर-णम् बाणेन सह युद्धम् प्रागजोतिषपतिंहत्वा कन्यानां हरणम् चैद्यपौण्ड्रकशाल्वदन्त-वक्रशम्बरद्विविदपीटमुरपञ्चजनानां माहात्म्यवधश्च वाराणस्या दाहः पाण्डवान्निमित्तीकृत्य भूमेर्भारावतरणञ्च
१०
*
एकादशस्कन्धे विप्रशापापदेशेन स्वकुल-संहारः उद्धवसंवादः उद्धवाय आत्म-विद्याकर्म्मविनिर्णयकथनम् आत्मयोगानु-भावतो मर्त्यपरित्यागश्च
११
*
द्वादश-कन्धे युगलक्षणवृत्तिः कलौ नॄणामुपप्लवः ।चतुर्विधप्रलयः त्रिविधोत्पत्तिः परिक्षित-देहत्यागः व्यासकर्त्तृकशाखाप्रणयनम् मार्कण्डेयस्य सत्कथा सूर्य्यस्य विन्यासश्च
१२
*
इति श्रीभागवते १२ स्कन्धे अनुक्रमणिकाध्यायः