| YouTube Channel

भस्मकं (bhasmakaM)

 
Apte 1890
English
भस्मकं 1 Gold or silver.
2 Morbid appetite from over-digestion of food.
3 A kind of disease of the eyes.
शब्दकल्पद्रुमः
Sanskrit
भस्मकं,
क्ली,
(भस्म + संज्ञायां कन् ।) रोग-भेदः भस्मकोट इति ख्यातः विडङ्गः ।(यथास्य पर्य्यायः ।“जन्तुघ्नं भस्मकं रेणुः क्रिमिघ्नं चित्रतण्डुलम् ।क्रिमिशत्रु विडङ्गश्च गर्द्दभं तच्च कैवलम्
”इति वैद्यकरत्नमालायाम्
)कलधौतम् इति मेदिनी के, १३३
*
भस्मकस्य निदानसंप्राप्तिपूर्व्वकं लक्षणमाह ।“कट्वादिरूक्षान्नभुजां नराणांक्षीणे कफे मारुतपित्तवृद्धौ ।अतिप्रवृद्धः पवनान्वितोऽग्नि-र्भुक्तं क्षणाद्भस्म करोति यस्मात् ।तस्मादसौ भस्मकसंज्ञकोऽभू-दुपेक्षितोऽयं पचते धातून्
”भस्मकस्य सोपद्रवमरिष्टमाह ।“तृट्स्वेददाहमूर्च्छादीन् कृत्वैवात्यग्निसम्भवान् ।पक्त्वान्नमाशु धात्वादीन् क्षिप्रं नाशयेद्-ध्रुवम्
”इति भावप्रकाशः
(अत्र तीक्ष्णाग्निव्याख्याने विजयेनोक्तम् ।तीक्ष्णग्रहणेन भस्मकस्यावरोधः अत्यन्त-तीक्ष्णाग्निरेव हि भस्मकमित्युच्यते
यदुक्त-ञ्चरके चिकित्सास्थाने ऊनविंशेऽध्याये ।भस्मकचिकित्सामाह ।“बरे क्षीणकफे पित्तं कुपितं मारुतानुगम् ।स्वोष्मणा पावकस्थाने बलमग्नेः प्रयच्छति
तथा लब्धबलो देहे विरूक्षे सानिलोऽनलः ।परिभूय पचत्यन्नं तैक्ष्ण्यादाशु मुहुर्मुहुः
पक्त्वान्नं सततं धातून् शोणितादीन् पचत्यपि ।ततो दौर्ब्बल्यमातङ्कान् मृत्युञ्चोपनयेन्नरम्
भुक्तेऽन्ने लभते शान्तिं जीर्णमात्रे प्रताम्यति
”“तमत्यग्निं गुरुस्निग्धशीतमधुरविज्वलैः
अन्नपानैर्नयेच्छान्तिं दीप्तमग्निमिवाम्बुभिः ।मुहुर्मुहुरजीर्णेऽपि भोज्यान्यस्योपहारयेत्
निरिन्धनोऽन्तरं लब्ध्वा यथैनं विपादयेत् ।पायसं कृशरं स्निग्धं पैष्टिकं गुडवैकृतम्
अद्यात्तथौदकानूपपिशितानि घृतानि ।मत्स्यान् विशेषतः स्निग्धान् स्थिरतोयचरां-स्तथा
आविकं सघृतं मांसमद्यादत्यग्निनाशनम् ।”“पिबेत् शीताम्बुना सर्पिर्मधूच्छिष्टेन वा युतम् ।गोधूमचूर्णं पयसा ससर्पिष्कं पिबेन्नरः
आनूपरससिद्धान् वा त्रीन् स्नेहांस्तैलवर्ज्जितान् ।गोधूमचूर्णमन्थं वा व्यधयित्वा शिरां पिबेत्
”“श्यामा त्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम् ।असकृत् पित्तशान्त्यर्थं पायसप्रतिभोजनम्
यत्किञ्चिन्मधुरं मेध्यं श्लेष्मलं गुरुभोजनम् ।तदत्यग्निहितं सर्व्वं भुक्त्वा प्रस्वपनं दिवा
कफे वृद्धे जिते पित्ते मारुते चानलः समः ।समधातोः पचत्यन्नं पुष्ट्यायुर्बलवृद्धये
”)