| YouTube Channel

भस्म (bhasma)

 
Monier Williams Cologne
English
भस्म in comp. for भस्मन्.
Hindi
Hindi
राख
Schmidt Nachtrage zum Sanskrit Worterbuch
German
भस्म = भस्मन् Asche. भस्मस्य, Śiva-P. (SK.) 28, 77.
Wordnet
Sanskrit
Synonyms:
भस्म
noun
कस्यापि वस्तुनः ज्वलनानन्तरम् अवशिष्टः चूर्णरूपः अंशः।
"ग्रामेषु कैश्चन जनैः पात्राणि मार्ष्टुं भस्म उपयुज्यते।"
Synonyms:
भस्म
noun
अग्निहोत्रस्य रक्षा यां शिवभक्ताः मस्तके धारयन्ति।
"साधुजनः भस्म धारयित्वा साधनायां लीनः अस्ति।"
वैजयन्तीकोषः
Sanskrit
Word: भस्म
Root: भस्मन्
Gender: नपुं
Number: all
अर्थः दग्धगोम्यादि-विकारः
Meaning(s):
Ashes
Shloka(s):
1|2|33|1 भसितं भस्म भूतिः स्यादग्न्युत्पात उपाहितः। (स्वर्गकाण्डः/लोकपालाध्यायः)
Synonym(s):
1|2|33|1 भसितम् (भसित) (नपुं) Ashes दग्धगोम्यादि-विकारः
1|2|33|1 भस्म (भस्मन्) (नपुं) Ashes दग्धगोम्यादि-विकारः
1|2|33|1 भूतिः (भूति) (स्त्री) Ashes दग्धगोम्यादि-विकारः
Related word(s):
अवयव_अवयवीसंबन्धः अग्निः
जातिः अचलनिर्जीववस्तु
पुराणम्
English
भस्म / BHASMA. (Sacred ash). To know a story about the greatness of bhasma see under the word durjaya.
शब्दकल्पद्रुमः
Sanskrit
भस्म, [न्]
क्ली,
(बभस्तीति भस् भर्त्सनदीप्त्योः +“सर्व्वधातुभ्यो मनिन् ।” उणा० १४४ ।इति मनिन्
दग्धकाष्ठादिविकारः ।) शिवाङ्ग-भूषणम् छाइ इति भाषा यथा, --“अस्याङ्गभूषणं भस्म विभूतिर्भूतिरस्य तु ।”इति शब्दरत्नावली
तद्भस्म कामदेवशरीरजम् यथा, --“प्रसीद सर्व्वभूतेश ! भक्त्या त्वत्प्रणता वयम् ।इति स्म वदतां तेषाममराणां तदानलः ।ललाटचक्षुः सम्भूतो भस्माकार्षीन्मनोभवम्
दग्ध्वा कामं तदा वह्निर्ज्वालामालातिदीपितः ।संस्तम्भितोऽथ विधिना हरं गन्तुं शशाक
महादेवोऽथ तद्भस्म मनोभवशरीरजम् ।आदाय सर्व्वगात्रेषु भूतिलेपं तदाकरोत्
लेपशेषाणि भस्मानि समादाय तदा हरः ।सगणोऽन्तर्दधे कालीं विहाय विधिसम्मते
”इति कालिकापुराणे ४१ अध्यायः
*
भस्मम्रक्षणं सप्तविधास्नानान्तर्गताग्नेयस्नानम् ।यथा, --“आग्नेयं भस्मना स्नानं वायव्यं गोरजः स्मृतम् ।”इति यामलः
शिवपूजायां ललाटे तस्य धारणमावश्यकम् ।यथा, --“विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया ।पूजितोऽपि महादेवो स्यात्तस्य फलप्रदः
”इत्याह्रिकतत्त्वम्
तेन कांस्यशुद्धिर्यथा, --“अम्भसा हेमरूप्यायः कांस्यं शुध्यति भस्मना ।अम्लैस्ताम्रञ्च रैत्यञ्च पुनःपाकेन मृण्मयम्
”इति शुद्धितत्त्वम्
*
अश्मरीविकारः यथा, --“शर्क्करासिकतामेहो भस्माख्योऽश्मरीवैकृतम् ।अश्मर्य्याः शर्क्करा ज्ञेया तुल्यव्यञ्जनवेदना
”इति सुश्रुते निदानस्थाने अश्मरीनिदानम्