| YouTube Channel

भस (bhasa)

 
Wilson
English
भस r. 3d cl. (वभस्ति)
1 To shine.
2 To blame or abuse
this root is usually restricted to the Vedas.
Apte
English
भस [bhasa],
a.
Shining
तनुवारभसो भास्वान्
Ki.*
15.23.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
भस्
मूलधातुः:
भस
धात्वर्थः:
भर्त्सन-दीप्त्योः
गणः:
जुहोत्यादिः
कर्मकत्वं:
भर्त्सने सकर्मकः, दीप्तौ अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
बभस्ति
अनुबन्धादिविशेषः:
छान्दसः
धातुप्रदीपः
Sanskrit
भसँ भस भर्त्सन, दीप्त्योः
- बभस्ति बभस्त बभसति भासितम् भस्म नभः (8) 19
शब्दकल्पद्रुमः
Sanskrit
भस, लि द्युतौ भर्त्से इति कविकल्पद्रुमः
(ह्वा०-पर०-अक०-सक० सेट् ।) वैदिकः ।लि, वभस्ति इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
भस दीप्तौ अक० भर्त्सने
सक०
जु०
पर०
सेट् बभस्ति अभा-सीत् अभसीत् बभास वैदिकीऽयम्
भस भक्षणे प०
सक०
सेट् निघण्टुः भसति अभा(भ)सीत् बभास
क्षीरतरङ्गिणी
Sanskrit
भसँ भस भर्त्सन, दीप्त्योः
- बभस्ति बाहुलकाद् (द्र0 7478) इत्त्वं नास्ति बभस्ति-नभः भसितं भस्म, मनिन् (द्र0 उ0 4145) हुयामाश्रुभसिभ्यस्त्रन् (उ0 4168)-भस्त्रा शॄदॄभसोऽदिः (उ0 1130)-भसद् भगम् 19
धातुवृत्तिः
Sanskrit
भसँ भस (अर्थः) भर्त्सन, दीप्त्योः
"कपिर्बभस्ति ते जनम्' ( बब्धः ) "घसिभसोर्हलि च'' इत्युपधालोपे "झषस्तथोर्धो धः'' "झलां जश् झशि'' इति जश्त्वम् ( बप्सति ) उपधालोपे "खरि च'' इति चर्त्वम् "न पदान्त''इत्यादिना जश्त्वचर्त्वयोरुपधालोपस्य स्थानिवत्त्वम् अन्यदपि यथादर्शनम् ( भस्म ) "अन्येभ्योऽपि दृश्यते'' इति भाषायामपि मनिन् ( भस्रा ) "हुयामा'' इत्यादिना त्रन् स्वभावात् स्त्रियाम् ( भस्त्रिका, भस्त्रका, अभस्त्रिका, अभस्त्रका, परमभस्त्रिका, परमभस्त्रका) "भस्त्रैषा'' इत्यादिना केबलस्य नञ्पूर्वस्य अन्यपूर्वस्य चास्यककारात्पूर्वस्यात्सथानिकस्याकारस्य वेत्वम् भस्त्रया हरति ( भस्त्रिकः भस्त्रिकी ) "भस्त्रादिभ्यष्ठन्'' इति हरत्यर्थे ष्ठन् षित्त्वाङीष् स्त्रियाम् बभस्तीति ( नभः ) क्विबित्यात्रेयः 18
कृदन्तरूपमाला
Sanskrit
1 {@“भस भर्त्सनदीप्त्योः”@} 2 छान्दसः।
3 धातुपाठेषु सर्वत्र ‘--भर्त्सनदीप्त्योः’ इत्येवास्य धातोरर्थनिर्देशो दृश्यते।
परं तु निरुक्ते 4 ‘बभस्तिरत्तिकर्मा।’ इत्युक्तत्वात्
तथा, ‘हरी इवान्धांसि बप्सता।’ 5 इत्यत्र यास्केन ‘हरी इवान्नानि भुञ्जाने।’ इति व्याख्यानात्, सायणभाष्येऽपि ‘भस भक्षणदीप्त्योः।’ इत्येवात्र 6 धातुस्वरूपोपादानाच्च ‘भक्षणदीप्त्योः’ इत्येव पाठः प्रामाणिक इति, भर्त्सन-भक्षणशब्दयोः प्रायस्तुल्यश्रुत्या पाठभेद इति वा प्रतिभाति।]] 7 भासकः-सिका, भासकः-सिका, बिभसिषकः-षिका, बाभसकः-सिका
भसिता-त्री, भासयिता-त्री, बिभसिषिता-त्री, बाभसिता-त्री
8 बप्सत्-बप्सतौ-बप्सतः, 9 भासयन्-न्ती-ती, बिभसिषन्-न्ती-ती
-- भसिष्यन्-न्ती-ती, भासयिष्यन्-न्ती-ती, बिभसिषिष्यन्-न्ती-ती
-- इत्यादीनि सर्वाण्यपि रूपाणि आदादिककशतिवत् 10 ज्ञेयानि।
11 नभः, 12 भस्म, 13 भस्त्रम्, 14 भसत् इतीमानि रूपाण्यस्माद् भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(११५२)
02
=>
(३-जुहोत्यादिः-११००। अक। सेट्। पर।)
03
=>
[[[अ]
04
=>
(५-४६)
05
=>
(ऋ। वे। १-६-२८-७)
06
=>
(ऋ। वे। १-६-२८-७)
07
=>
[पृष्ठम्०९४६+ २६]
08
=>
[[१। शतरि, शपि, तस्य ‘जुहोत्यादिभ्यः--’ (२-४-७५) इति श्लुः। ‘श्लौ’ (६-१-१०) इति द्विर्वचनम्। ‘घसिभसोर्हलि च’ (६-४-१००) इति उपधा- ऽकारलोपः। ‘खरि च’ (८-४-५५) इति भकारस्य चर्त्वेन पकारः। अभ्यासे हलादिशेषजश्त्वादिकम्।]]
09
=>
[[२। भक्षणार्थकत्वे, ‘निगरणचलनार्थेभ्यः--’ (१-३-८७) इति ण्यन्तात् कर्तृगामिन्यपि क्रियाफले परस्मैपदमेव। दीप्त्याद्यर्थकत्वे, छान्दसत्वात् दृष्टानुविध्याश्रयणे वा शानजन्तेऽपि भासयमानः इति रूपं साध्वेवेत्यपि बोध्यम्।]]
10
=>
(१७८)
11
=>
[[३। बभस्ति इति नभः = आकाशः। नञ्पूर्वादस्मात् ‘अन्येभ्योऽपि दृश्यते’ (३-२-१७८) इति क्विपि सकारस्य रुत्वे विसर्गे रूपमिति आत्रेयादयः साधयन्तीति माधवधातुवृत्तौ दृश्यते। अत्र बाहुलकात् नञ्समासे नलोपाभाव इति बोध्यम्।]]
12
=>
[[४। भाषायामपि, ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति मनिन्प्रत्यये ‘नेड् वशि कृति’ (७-२-८) इतीण्निषेधे रूपमेवम्। ‘भूतेऽपि दृश्यन्ते’ (३-३-२) इति भूते- ऽयं प्रत्ययः। भसितम् = भस्म।]]
13
=>
[[५। ‘हुयामाश्रुभसिभ्यस्त्रन्’ (द। उ। ८-८४) इति त्रन्प्रत्यये रूपमेवम्। ‘तितुत्रत--’ (७-२-९) इतीण्निषेधः। बभस्तीति भस्त्रम् = चर्म, उदरं च।]]
14
=>
[[६। ‘शॄदॄभसोऽदिः’ (द। उ। ६-४२) इत्यदिप्रत्यये रूपमेवम्। बभस्ति, भस्यते वा तस्मिन् आहार इति भसत् = आमाशयस्थानम्।]]