| YouTube Channel

भव्यं (bhavyaM)

 
शब्दकल्पद्रुमः
Sanskrit
भव्यं,
क्ली,
(भवतीति भूयते इति वा भू +“भव्य गेयेति ।” ६८ इति यत् ।भव्यादयः शब्दाः कर्त्तरि वा निपात्यन्ते इतिकाशिका ।) फलविशेषः चाल्ता इतिभाषा
तत्पर्य्यायः भवम् भविष्यम् ३भावनम् वक्त्वशोधनम् लोमफलम् ६पिच्छिलबीजम् अस्य गुणाः अम्लत्वम् ।कटुत्वम् उष्णत्वञ्च बालस्य तस्य गुणः ।वातकफापहत्वम् पक्वस्य तस्य गुणः मधु-राम्लत्वम् रुचिकारित्वम् श्रमशूलहरत्वञ्च ।इति राजनिर्घण्टः
अपि ।“भव्यं स्वादु कषायाम्लं हृद्यमास्यविशोधनम् ।तदेव पक्वं दोषघ्नं गुरु ग्राहि विषापहम्
”इति राजवल्लभः
अस्थि इति मेदिनी ये, ४३
भव्यं, त्रि, (भवतीति भू + कर्त्तरि निपातनात् वायत् ।) शुभम् (यथा, भागवते ।१४ ३० ।“भग्नायां भव्ययाच्ञायां तस्मै विदुर ! चुक्रुधुः
”)सत्यम् योग्यम् भावि इति मेदिनी शब्द-रत्नावली
(यथा, मार्कण्डेये ७९ ।“भूतभव्यभवन्नाथाः शृणु चैतत् त्रयं द्बिज !
”श्रेष्ठम् यथा, भागवते १५ १७ ।“यत्पादपद्ममभवाय भजन्ति भव्याः
”“भव्याः श्रेष्ठाः ।” इति तट्टीकायां स्वामी
प्रसन्नम् यथा, रामायणे ६२ ।“स मे नाथो ह्यनाथस्य भव भव्येन चेतसा
”भव्येन प्रसन्नेन चेतसेति तट्टीकायां रामानुजः
)