| YouTube Channel

भल्लातकलौह (bhallAtakalauha)

 
वाचस्पत्यम्
Sanskrit
भल्लातकलौह
न०
चक्रदत्तोक्ते भल्लातकादिपक्वे लौहरूपे औषधभेदे“चित्रक त्रिफला मुस्तं ग्रन्थिकं चविकाऽमृता हस्ति-पिप्पल्यपाभाण्टण्डोत्पलकुठेरकाः एषां चतुप्पलान्भागान् जलद्रोणे विपाचयेत् भल्लातकसहस्रे द्वेछित्त्वा तत्रैव दापयेत् तेन पादावशेषेण लौहपात्रेपचेद्भिषक् तुलार्द्धं तीक्ष्णलौहस्य घृतस्य कुडवद्वयम् ।त्र्यूषणं त्रिफलावह्निसेन्धवं विडमौद्भिदम् सौवर्च-लविडङ्गानि पलिकांशानि कल्पयेत् कुडवं वृद्धदारस्यतालमूल्यास्तथैव शूरणस्य पलान्यष्टौ चूर्णं कृत्वाविनिः क्षिपेत् सिद्धे शीते प्रदातव्यं मधुनः कुडवद्वयम् ।प्रातर्भोजनकाले ततः स्वादेद् यथाबलम् अर्शांसिग्रहणीदोषं पाण्डुरोगमरोचकम् क्रिमिगुल्मा-श्मरीमेहान् शूलञ्चाशु व्यपोहति करोति शुक्रोप-चयं बलीपलितनाशनम् रसायनमिदं श्रेष्ठं सर्व-रोगहरं परम्”