भल्लातकः (bhallAtakaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiभल्लातकः
- भल्लात+कन्
भिलावे का पौधा
Wordnet
Sanskrit भल्लातकः, दुर्धरः
एकः क्षुपः ।
"भल्लातकस्य उल्लेखः कोशे वर्तते"
शब्दकल्पद्रुमः
Sanskritभल्लातकः, (भल्ल इवाततीति । अत + क्वुन् ।यद्वा, भल्लात + स्वार्थे कन् ।) वृक्षविशेषः ।भेला इति भाषा । तत्पर्य्यायः । अरुष्करः २भल्लातः ३ शोथहृत् ४ वह्निनामा ५ वीरतरुः६ व्रणकृत् ७ भूतनाशनः ८ । इति रत्नमाला ॥
भल्लातकी ९ अग्निमुखी १० वीरवृक्षः ११ ।इत्यमरः ॥
निर्दहनः १२ तपनः १३ अनलः१४ कृमिघ्नः १५ शैलबीजः १६ वातारिः १७स्फोटबीजकः १८ पृथग्बीजः १९ धनुर्वृक्षः २०बीजपादपः २१ वह्निः २२ । (यथा, सुश्रुते ।सूत्रस्थने । ४६ ।“उष्णोदकानुपानन्तु स्नेहानामथ शस्यते ।ऋते भल्लातकस्नेहात् स्नेहात्तौवरकात्तथा ॥
”)अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । कषाय-त्वम् । उष्णत्वम् । कृमिकफवातोदरानाहमेह-दुर्नामनाशित्वञ्च । तत्फलगुणाः । कषायत्वम् ।मधुरत्वम् । कोष्णत्वम् । कफार्त्तिश्रमश्वासानाह-विबन्धशूलजठराध्मानकृमिनाशित्वञ्च । तन्-मज्जगुणाः । विशेषेण दाहशमनत्वम् । पित्तापहत्वम् । तर्पणत्वम् । वातारोचकहारित्वम् ।दीप्तिजनकत्वम् । पित्तनाशित्वञ्च । इति राज-निर्घण्टः ॥
अपि च ।“भल्लातकं त्रिषु प्रोक्तमरुष्कोऽरुष्करोऽग्निकः ।तथैवाग्निमुखी भल्ली वीरवृक्षश्च शोफहृत् ॥
भल्लातकफलं पक्वं स्वादुपाकरसं लघु ।कषायं पाचनं स्निग्धं तीक्ष्णोष्णं छेदि भेद-नम् ॥
मेध्यं वह्निकरं हन्ति कफवातव्रणोदरम् ।कुष्ठार्शोग्रहणीगुल्मशोफानाहज्वरक्रमीन् ॥
तन्मज्जा मधुरो वृष्यो वृं हणो वातपित्तहा ।वृत्तमारुष्करं स्वादु पित्तघ्नं केश्यमग्निकृत् ॥
भल्लातकः कषायोष्णः शुक्रलो मधुरो लघुः ।वातश्लेष्मोदरानाहकुष्ठार्शोग्रहणीगदान् ॥
हन्ति गुल्मज्वरं चित्रवह्निमान्द्यकृमिव्रणान् ॥
”इति भावप्रकाशः ॥
अन्यच्च ।“भल्लातकफलं स्निग्धं क्रिमिदुर्नामनाशनम् ।दन्तस्थैर्य्यकरं ग्राहि कषायं मधुंरञ्च तत् ॥
भल्लातवृन्तं मधुरं कषायं वातकोपनम् ॥
”इति राजवल्लभः ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
