| YouTube Channel

भर्शकः-र्शिका (bharzakaH-rzikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“भृशु अधःपतने”@} 2 भर्शकः-र्शिका, भर्शकः-र्शिका, बिभर्शिषकः-षिका, बरीभृशकः-शिका
इत्यादीनि सर्वाण्यपि रूपाणि विशेषरूपाणि विना, दैवादिककृश्यतिवत् 3 ज्ञेयानि।
4 भृशम्, 5 भर्शित्वा-भृष्ट्वा, 6 7 भृष्टम्-भृष्टः-भृष्टवान्, 8 भृशाया, 9 भृश्यन्-न्ती, इत्यादीन्यस्य रूपाण्यधिकानि भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(११७४)
02
=>
(४-दिवादिः-१२२४। अक। सेट्। पर।)
03
=>
(२५४)
04
=>
[[२। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कप्रत्ययः। यद्यपि कप्रत्ययान्तानां पुंंल्लिङ्गत्वमेव न्याय्यम्, तथापि लिङ्गस्य लोकाश्रयत्वात् नपुंसकलिङ्गत्वमत्रेति ज्ञेयम्। अत एवास्य ‘भृशम्’ इति शब्दस्य क्रियाविशेषणत्वे, अव्ययत्वमप्याहुः।]]
05
=>
[[३। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणः। इडभावपक्षे षत्वे भृष्ट्वा इति रूपमिति ज्ञेयम्।]]
06
=>
[पृष्ठम्०९७५+ ३१]
07
=>
[[१। क्त्वायामस्य धातोर्विकल्पितेट्कत्वात्, निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्निषेधः। षत्वष्टुत्वयो रूपमेवम्।]]
08
=>
[[२। अभृशो भृशो भवतीत्यर्थे, ‘भृशादिभ्यो भुव्यच्वेः--’ (३-१-१२) इत्यनेन क्यङ्। ‘सनाद्यन्ता धातवः’ (३-१-३२) इति धातुसंज्ञा। ‘अकृत्सार्बधातुकयोः--’ (७-४-२५) इति दीर्घः। स्त्रियाम्, ‘अ प्रत्ययात्’ (३-३-१०२) इति भावादौ प्रत्ययान्तत्वनिमित्तकोऽकारप्रत्ययः।]]
09
=>
[[आ। ‘… भृश्यद्भ्रंशनवर्शकाकृशदयः तृष्णाहरो हृष्य मे।।’ धा। का। २। ६६।]]