| YouTube Channel

भर्त्ता (bharttA)

 
शब्दकल्पद्रुमः
Sanskrit
भर्त्ता, [ऋ]
पुं,
(बिभर्त्ति पुष्णाति पालयति धारय-तीति वा भृञ् धारणपोषणयोः + “ण्वुल्तृचौ ।” १३३ इति तृच् ।) अधि-पतिः (यथा, रघौ ७४ ।“सोऽपश्यत् प्रणिधानेन सन्ततेः स्तम्भकारणम् ।भावितात्मा भुवो भर्त्तुरथैनं प्रत्यबोधयत्
”)तत्पर्य्यायः अधिपः ईशः नेता परि-वृढः अधिभूः पतिः इन्द्रः स्वामी ९नाथः १० आर्य्यः ११ प्रभुः १२ ईश्वरः १३विभुः १४ ईशिता १५ इनः १६ नायकः १७ ।इति हेमचन्द्रः
(विष्णुः प्रपञ्चाधिष्टान-वत्त्वेन भरणात्
) धातरि पोष्टरि त्रि ।इति मेदिनी ते, ३८
(यथा, ऋम्वेदे १० ।२२ ।“भर्त्ता वज्रस्य धृष्णोः पिता पुत्त्रमिष प्रियम्
”विवाहितायाः पतिः यथा, महाभारते ।१ १०४ २८ ।“भार्य्याया भरणाद्भर्त्ता पालनाच्च पतिः स्मृतः ।अहं त्वां भरणं कृत्वा जात्यन्धं ससुतं तदा ।नित्यकालं श्रमेणार्त्ता भरेयं महातपः
”)