| YouTube Channel

भरद्वाजः (bharadvAjaH)

 
Apte
English
भरद्वाजः [bharadvājḥ], 1
N.
of one of the seven sages
भरे सुतान् भरे शिष्यान् भरे देवान् भरे द्विजान् भरे भार्यां भरद्वाजां भरद्वाजे$स्मि शोभने
Mb.
A sky-lark.
Apte 1890
English
भरद्वाजः 1 N. of one of the seven sages.
2 A sky-lark.
Apte Hindi
Hindi
भरद्वाजः
पुं*
- "भ्रियते मरुद्भिः, भृ+अप= भर, द्वाभ्यां जायते द्वि+जन् ड=द्वाज, भरश्चासौ द्वाजश्च, कर्म* स*"
सात ऋषियों में से एक का नाम
भरद्वाजः
पुं*
- -
चातक पक्षी
Wordnet
Sanskrit
Synonyms:
व्याघ्राटः, भरद्वाजः
noun
पक्षिविशेषः, व्याघ्र इव अटति इति
"व्याघ्राटस्य दर्शनम् शुभम् इति मन्यते"
वैजयन्तीकोषः
Sanskrit
Word: भरद्वाजः
Root: भरद्वाज
Gender: पुं
Number: all
अर्थः भरद्वाजः इति पक्षिविशेषः
Meaning(s):
Skylark
Shloka(s):
2|3|19|2 व्याघ्राटस्तु भरद्वाजः क्षिप्रिः श्येन सुपर्णकः॥ (अन्तरिक्षकाण्डः/खगाध्यायः)
Synonym(s):
2|3|19|2 व्याघ्राटः (व्याघ्राट) (पुं) Sky lark भरद्वाजः इति पक्षिविशेषः
2|3|19|2 भरद्वाजः (भरद्वाज) (पुं) Skylark भरद्वाजः इति पक्षिविशेषः
Related word(s):
परा_अपरासंबन्धः पक्षी
जातिः पक्षी
Tamil
Tamil
ப4ரத்3வாஜ: : வானம் பாடி.
शब्दकल्पद्रुमः
Sanskrit
भरद्वाजः,
पुं,
(द्वाभ्यां जायते इति जन् + डः ।ततः पृषोदरादित्वात् द्वाजः सङ्करः भ्रियतेमरुद्भिरिति भृ + अप् भरः भरश्चासौद्बाजश्चेति कर्म्मधारयः ।) मुनिविशेषः चउतथ्यपत्न्यां ममतायां बृहस्पतिवीर्य्याज्जातः ।तस्य जन्मविवरणं यथा “ततोऽस्य वितथेपुत्त्रजन्मनि पुत्त्रार्थिने मरुत्सोमयाजिने दीर्घ-तमसा पार्ष्ण्यपास्ताद्बृहस्पतिवीर्य्यादुतथ्यपत्नी-ममतासमुत्पन्नो भरद्बाजाख्यो नाम पुत्त्रो मरु-द्भिर्दत्तः अस्यापि नामनिर्वचनश्लोकः पठ्यते ।‘मूढे भर द्वाजमिमं भर द्वाजं बृहस्पते ! ।यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम्
इति ।भरद्वाजश्च तस्य वितथे पुत्त्रजन्मनि मरुद्भिर्दत्तोवितथसंज्ञामवाप
*
अस्य टीका वितथेअर्थ सति अत्रैवमितिहासः बृहस्पते-रग्रजस्योतथ्यस्य ममताख्या पत्नी गर्भिण्यासीत् ।तस्यां बृहस्पतिः कामाभिभूतो वीर्य्यं व्यसृजत् ।तच्च गर्भं प्रविशद्गर्भस्थेन स्थानसङ्कोचभयात्पार्ष्णिप्रहारेणापास्तं बहिः पतितमपि अमोघ-वीर्य्यतया बृहस्पतेर्भरद्वाजनामपुत्त्रोऽभूत् ।गर्भस्थश्च बृहस्पतिना तस्मादेवापराधादन्धोभवेति शप्तो दीर्घतमा नामाभवत् तत्र भर-द्वाजनामनिरुक्तिपरः तत्पित्रोर्विवादकरोऽयंश्लोको देवैः पठितः हे मूढे ममते द्बाजंद्वाभ्यामावाभ्यां जातमिमं पुत्त्रं त्वं भर रक्ष ।एवं बृहस्पतिनोक्तेव ममता तमाह हे बृह-स्पते ! द्वाजं द्बाभ्यां जातमिममेकाकिनी किमि-त्यहं भरिष्यामि त्वमिमं भरेति परस्परमुक्त्वा तंपुत्त्रं त्यक्त्वा यस्मात् पितरौ ममताबृहस्पतीततो यातौ ततो भरद्वाजाख्योऽयम् पाठा-न्तरे एवं विवदमानौ यद्दुःखात् यन्निमि-त्ताद् दुःखात् पितरौ यातावित्यर्थः तदेवंताभ्यां त्यक्तो मरुद्भिर्भृतः मरुत्सोमाख्येनच यागेनाराधितैर्मरुद्भिस्तस्य वितथे पुत्त्र-जन्मनि सति दत्तत्वाद्बितथसंज्ञाञ्चावाप ।इति बिष्णुपुराणे अंशे १९ अध्यायः
*
(द्वादशद्बापरेऽसावेव व्यासः यथा, देवीभाग-वते २९ ।“एकादशेऽथ त्रिवृषो भरद्वाजस्ततःपरम् ।त्रयोदशे चान्तरिक्षो धर्म्मश्चापि चतुर्द्दशे
”यथा भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ।“रोगाः कार्श्यकरा वलक्षयकरा देहस्यचेष्टाहराःदृष्टा इन्द्रियशक्तिसंक्षयकराः सर्व्वाङ्गपीडा-कराः ।धर्म्मार्थाखिलकाममुक्तिषु महाविघ्नस्वरूपाबलात्प्राणानाशु हरन्ति सन्ति यदि ते क्षेमं कुतःप्राणिनाम्
तत्तेषां प्रशमाय कश्चन विधिश्चिन्त्यो भवद्भिर्बुधै-र्योग्यैरित्यभिधाय संसदि भरद्वाजं मुनिंतेऽब्रुवन् ।त्वं योग्यो भगवन् ! सहस्रनयनं याचस्व लब्धंक्रमा-दायुर्व्वेदमधीत्य यं गदभयाम्मुक्ता भवामोवयम्
”)पक्षिविशेषः भारुइ इति भाषा तत्पर्य्यायः ।व्याघ्राटः इत्यमरः १५
भर-द्वाजकः इति शब्दरत्नावली
(गोत्रभेदः ।यथा, मनौ ।“शाण्डिल्यः काश्यपश्चैव वात्स्यः सावर्णकस्तथा ।भरद्वाजो गौतमश्च सौकालीनस्तथापरः
”इत्यादि गोत्रशब्दे द्रष्टव्यम्
भृ + शतृ ।भरत् + वाजः संभ्रियमाणहविर्लक्षणान्नेयज-मानादौ, त्रि यथा, ऋग्वेदे ११६ १८ ।“यदयातं दिवोदासाय वर्त्तिर्भरद्वाजायाश्विनाहयन्ता
”“भरद्वाजाय संभ्रियमाणहविर्लक्षणान्नाय यज-मानाय ।” इति तद्भाष्ये सायनाचार्य्यः
)