| YouTube Channel

भयङ्करं (bhayaGkaraM)

 
शब्दकल्पद्रुमः
Sanskrit
भयङ्करं, त्रि, (भयं करोतीति भय + कृ +“मेघर्त्तिभयेषु कृञः ।” ४३ इति खच् ।मुम्च ।) भयजनकम् तत्पर्य्यायः भैरवम् २दारुणम् भीषणम् भीष्मम् घोरम् ६भीमम् भयानकम् प्रतिभयम् इत्यमरः ।१ २०
भयावहम् १० इति हेम-चन्द्रः
(यथा, मार्कण्डेयपुराणे १४ ८६ ।“वृकैर्भयङ्करैः पृष्ठं नित्यमस्योपभुज्यते
”)पुं, डुण्डुलपक्षी इति राजनिर्घण्टः