| YouTube Channel

भन्जो (bhanjo)

 
धातुप्रदीपः
Sanskrit
भन्जोँ भञ्जो आमर्दने
- भनक्ति बभञ्ज भङ्क्ता भङ्क्ष्यति अभनक् अभाङ्क्षीत् अभाजि अभञ्जि बिभङ्क्षति बम्भज्यते भक्त्वा भङ्क्त्वा भङ्गुरम् भग्नः भङ्गः भङ्ग्यम् भङ्गा कुसुम्भम् भाङ्गीनम् भङ्गाकटम् 16
क्षीरतरङ्गिणी
Sanskrit
भन्जोँ भन्जो आमर्दने
- भनक्ति भङ्क्ता अभाङ्क्षीत् भञ्जेश्च चिणि (6433)-अभाजि, अभञ्जि जपजभ (7486) इत्यभ्यासस्यानुस्वारः-बम्भज्यते जान्तनशां विभाषा (6432) इति वा नुम्-भक्त्वा भङ्क्त्वा भञ्जभासमिदो घुरच् (32161)-भङ्गुरः घञ् (द्र0 3319) भज्यतेऽनेनेति भङ्गस्तरङ्गः क्ते-भग्नः भङ्गिः 16
धातुवृत्तिः
Sanskrit
भन्जोँ भञ्जो (अर्थः) आमर्द्दने
(भनक्ति भङ्क्तः भञ्जन्ति भनक्षि भनज्मि भञ्ज्वः) "श्नान्नलोप" इति प्रकृतिनकारस्य लोपः नकारे परतोऽकारस्य "अतो दीर्घे यञि" इति दीर्घो भवति अकारान्तस्यानङ्त्वात् किङितोस्तु "श्नसोरल्लोपः" इत्याकारलोपो, झलि "चोःकुः" इति कुत्वे "खरि च" इति चर्त्वम् (बभञ्ज बभञ्जतुः बभञ्जिथ बभङ्थ बभञ्जिव) क्रादिनियमादिट्, थलि "उपदेशेऽत्वत" इति निषेधाद्भारद्वाजनियमाञ्च विकल्पः (भङ्क्ता भङ्क्ष्यति भनक्तु भङ्क्तात् भङ्गधि) हेरपित्त्वात् "श्नसोरल्लोपः" धत्वे कुत्वं गकारः (भनजानि अभनक् अभनग्) पदान्तत्वात्कुत्वे चर्त्वविकल्पः (अभङ्क्षीत् अभाङ्क्ताम् अभञ्जन् अभनक् अभनजम् भञ्ज्यात्) आशिषि (भज्यात् अभाङ्क्ति) झालि सिचो लोपः (बिभङ्क्षति बम्भज्यते बम्भञ्जीति बम्भाङ्क्ति ) "जपजभदहदशभञ्ज" इति यङि यङलुकि चाभ्यास्य नुक् तस्य अनुस्वारे पदन्तवद्वचनात्परसवर्णविकल्पः (भञ्जयति अबभञ्जत्) कर्मणि (अभञ्जि अभाजि) "भञ्जेश्र चिणि" इत्यनुनासिकलोपः (भग्नः भग्नवान्) "जान्तनशां विभाषा" इति क्त्वायामनुनासिकलोपविकल्पः (भग्नः भग्नवान्)"भञ्जभास" इति कर्मकर्तरि घुरच् "चजोः कुघिण्ण्यतोः" इति कुत्वम् (भङ्गः) घञ् (भङ्गा) कुसुम्भम् कर्मणि घञन्ताट्टाप् भङ्गानां भवनं क्षेत्रं (भङ्ग्यम्) "विभाषा तिलमाषामाभङ्गाणुभ्यः" इति यत् विभाषाग्रहणात् खञि (भङ्गीनं) भङ्गापि धान्यमिति स्थितं, भङ्गानां रजो (भङ्गाकटम्) "अलाबूतिलोमाभङ्गाभ्यो रजसि कटच्" इति कटच् (भङ्गी) पिप्पल्यादित्वान्डीष्, भाज् दीप्त्यर्थ इति चुरादौ दण्डके इदित् भजते भजतीति सेवायां शपिः गतम् 16
कृदन्तरूपमाला
Sanskrit
1 {@“भन्जो आमर्दने”@} 2 ‘--आमर्दे तु भनक्ति…।।’ 3 इति देवः।
4 भञ्जकः-ञ्जिका, भञ्जकः-ञ्जिका, 5 बिभङ्क्षकः-क्षिका, 6 बम्भजकः-बंभजकः-जिका
7 भङ्क्ता-भङ्क्त्री, भञ्जयिता-त्री, बिभङ्क्षिता-त्री, बम्भजिता-त्री
8 भञ्जन्-भञ्जती, भञ्जयन्-न्ती, बिभङ्क्षन्-न्ती
-- भङ्क्ष्यन्-न्ती-ती, भञ्जयिष्यन्-न्ती-ती, बिभङ्क्षिष्यन्-न्ती-ती
-- -- भञ्जयमानः, -- बम्भज्यमानः
-- भञ्जयिष्यमाणः, -- बम्भजिष्यमाणः
9 विभक्-विभग्-विभजौ-विभजः
-- -- 10 भग्नम्-भग्नः-भग्नवान्, भञ्जितः, बिभङ्क्षितः, बम्भजितः-तवान्
भञ्जः, 11 प्रभञ्जनः, 12 13 भङ्गुरः, 14 15 16 भञ्जानः, भञ्जः, बिभङ्क्षुः, 17 बम्भञ्जः
भङ्क्तव्यम्, भञ्जयितव्यम्, बिभङ्क्षितव्यम्, बम्भजितव्यम्
भञ्जनीयम्, 18 भजेलिमाः 19, भञ्जनीयम्, बिभङ्क्षणीयम्, बम्भजनीयम्
20 भङ्ग्यम्, भञ्ज्यम्, बिभङ्क्ष्यम्, बम्भज्यम्
21 ईषद्भञ्जः-दुर्भञ्जः-सुभञ्जः
-- -- भज्यमानः, भञ्ज्यमानः, बिभङ्क्ष्यमाणः, बम्भज्यमानः
22 भङ्गः-भङ्गा, भञ्जः, बिभङ्क्षः, बम्भजः
भङ्क्तुम्, भञ्जयितुम्, बिभङ्क्षितुम्, बम्भजितुम्
भक्तिः, 23 सालभञ्जिका, 24 उद्दालकपुष्पभञ्जिका, भञ्जना, बिभङ्क्षा, बम्भजा
भञ्जनम्, भञ्जनम्, बिभङ्क्षणम्, बम्भजनम्
25 भङ्क्त्वा 26 -भक्त्वा, भञ्जयित्वा, बिभङ्क्षित्वा, बम्भजित्वा
विभज्य, विभञ्ज्य, विबिभङ्क्ष्य, विबम्भज्य
27 इक्षुभञ्जं, गजभञ्जं, 28 वल्लीभञ्जं 29 भञ्जम् २, भङ्क्त्वा २, भक्त्वा २, भञ्जम् २, भञ्जयित्वा २, बिभङ्क्षम् २, बिभङ्क्षित्वा २, बम्भजम्
बम्भजित्वा २।
प्रासङ्गिक्यः
01
=>
(११४५)
02
=>
(७-रुधादिः-१४५३। सक। अनि। पर।)
03
=>
(श्लो। ६५)
04
=>
[[७। ‘नकारजावनुस्वारपञ्चमौ झलि धातुषु।’ इति अभियुक्तवचनात् उपदेशे नोप- धोऽयं धातुः। नकारस्य ‘नश्चापदान्तस्य झलि’ (८-३-२४) इत्यनुस्वारे परसवर्णे रूपमेवम्। एवमेवोत्तरत्र तृजादिष्वपि रूपनिष्पत्तिर्ज्ञेया।]]
05
=>
[[८। सन्नन्ताण्ण्वुलि धातुजकारस्य कुत्वे, सनः षत्वे रूपमेवम्। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
06
=>
[[९। यङन्ताण्ण्वुलि, द्विर्वचनादिकेषु ‘जपजभदहदशभञ्जपशां च’ (७-४-८६) इति अभ्यासे नुगागमः। नुकः पदान्तवद्भाववचनात् परसवर्णविकल्पः। तेन रूपद्वयम्।]]
07
=>
[पृष्ठम्०९४२+ २८]
08
=>
[[१। शतरि, ‘रुधादिभ्यः--’ (३-१-७८) इति श्नमि, ‘श्नान्नलोपः’ (६-४-२३) इति धातुनकारलोपे, ‘श्नसोरल्लोपः’ (६-४-१११) इति श्नमोऽकारस्य लोपे रूपमेवम्।]]
09
=>
[[२। विशेषेण भनक्तीति विभक्। क्विपि नकारलोपे कुत्वे रूपम्।]]
10
=>
[[३। ‘ओदितश्च’ (८-२-४५) इति निष्ठानत्वे, तस्यासिद्धत्वात् पूर्वमेव ‘चोः कुः’ (८-२-३०) इति कुत्वे रूपमेवम्।]]
11
=>
[[४। प्रभञ्जयतीति प्रभञ्जनः = वायुः। नन्द्यादित्वात् (३-१-१३४) ण्यन्तात् कर्तरि ल्युः।]]
12
=>
[[आ। ‘व्यत्यगच्छन् गतं प्रचण्डोऽपि प्रभञ्जनः।।’ भ। का। ८। ४।]]
13
=>
[[५। ‘भञ्जभासमिदो घुरच्’ (३-२-१६१) इति तच्छीलादिषु कर्तृषु घुरच्प्रत्यये, घित्त्वेन ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वे रूपमेवम्। प्रक्रियाकौमुदीव्याख्याने तु “भञ्जेः कर्मकर्तरि (प्रत्ययः) तथोक्तम् पाणिनीयमतदर्पणे-- ‘कर्मकर्तारमेवास्मादभिधत्ते स्वभावतः। कर्ममात्रमित्येष प्रत्ययः कर्मकर्तरि।।’ इति।” इत्युक्तम्।]]
14
=>
[[B। ‘सृपरोऽभङ्गरप्रज्ञो गृहीत्वा भासुरं धनुः।’ भ। का। ७। २२।]]
15
=>
[शत्रुं]
16
=>
[[६। ‘ताच्छील्यवयोवचनशक्तिषु--’ (३-२-१२९) इति चानश्प्रत्यये रूपमेवम्। तु शानच्प्रत्ययः। अत्र ताच्छील्ये शक्तौ वा चानश्।]]
17
=>
[[७। यङन्तात् पचाद्यचि यङो लुकि उपधानकारलोपस्य निमित्ताभावात् तस्यानुस्वारपर- सवर्णयो रूपमेवम्।]]
18
=>
[[८। ‘केलिमर उपसंख्यानम्’ (वा। ३-१-९६) इति केलिमर्प्रत्यये, तस्य कित्त्वेनोपधान- कारलोपे रूपमेवम्। कर्मकर्तर्ययं प्रत्यय इति वृत्तिः। भाष्ये तु कर्मंण्येवायं प्रत्यय इति ज्ञायते।]]
19
=>
[शालयः]
20
=>
[[९। ण्यति, ‘चजोः--’ (७-३-५२) इति कुत्वम्।]]
21
=>
[पृष्ठम्०९४३+ २४]
22
=>
[[१। कर्मणि घञि कुत्वे रूपमेवम्। स्त्रियां टाप्। भङ्गा = कुसुम्भम्।]]
23
=>
[[२। ‘संज्ञायाम्’ (३-३-१०९) इति स्त्रियामधिकरणे भावादौ ण्वुल्। एवमेव उद्दालक- पुष्पभञ्जिका इत्यत्रापि ण्वुल्। उद्दालकपुष्पाणि = श्लेष्मातकपुष्पाणि भज्यन्ते यस्यां क्रियायां सेति विवरणम्। ‘नित्यं क्रीडाजीविकयोः’ (२-२-१७) इति समासः।]]
24
=>
[[आ। ‘धिक् सालभञ्जिकाप्रख्यान् विषयान् कल्पनारुचीन्।।’ भ। का। ७। ७४।]]
25
=>
[[३। क्त्वायाम्, ‘जान्तनशां विभाषा’ (६-४-३२) इत्यनुनासिकलोपविकल्पः, तेन रूपद्वयम्।]]
26
=>
[[B। ‘भङ्क्त्वा भुजौ विराधाख्यं तं तौ भुवि निचख्नतुः।।’ भ। का। ४। ३।]]
27
=>
[[४। ‘उपमाने कर्मणि च’ (३-४-४५) इति कर्मणि, कर्तरि णमुल्। ‘कषादिषु यथाविध्यनुप्रयोगः’ (३-४-४६) इति णमुल्प्रयोजकधातोरेव अनुप्रयोगः। ‘इक्षुभञ्जं बभञ्जासौ गजभञ्जं बभञ्ज तम्। अत्र हीक्षुमिवेत्यर्थस्तथा गज इवेत्यपि।।’ इति। प्र। सर्वस्वे।]]
28
=>
[[C। ‘अधिशयितवानब्धिं नाथो ममन्थ बबन्ध तं हरधनुरसौ वल्लीभञ्जं बभञ्ज मैथिलि।’ श्रीगुणरत्नकोशे ५४।]]
29
=>
[वा बभञ्ज।]