| YouTube Channel

भद्रेश्वरः (bhadrezvaraH)

 
शब्दकल्पद्रुमः
Sanskrit
भद्रेश्वरः,
पुं,
(भद्रः शुभदश्चासावीश्वरश्चेति भद्रा-त्मकः मङ्गलमय ईश्वरो वेति ।) कल्पग्रामस्थ-शिवः यथा, --“उत्तिष्ठ कान्त ! गच्छावः कल्पग्रामं सुशो-भनम् ।तया सार्द्धं जगामाथ कल्पग्रामं वसुन्धरे !
भद्रेश्वरनिमित्तं हि द्रव्यञ्च कथितं शुभम् ।नित्यञ्च भुञ्जते यत्र पात्रद्रव्यं समर्पितम्
दृष्ट्वा भद्रेश्वरं देवं चक्रतीर्थफलं लभेत् ।कल्पग्रामाच्छतगुणं चक्रतीर्थं वसुन्धरे !
”इति वाराहे मथुरामाहात्म्ये चक्रतीर्थप्रभावोनामाध्यायः
शिवप्राप्त्यर्थं दुर्गाराधितहिमालयस्थपार्थिव-शिवलिङ्गम् यथा, --“तवार्थाय ग्रहीष्यामि महर्षीन् हिमवद्गृहे ।यश्चेह रुद्रमीहन्त्या मृण्मयश्चेश्वरः कृतः
असौ भद्रेश्वरेत्येवं ख्याते लोके भविष्यति ।देवदानवगन्धर्व्वा यक्षकिम्पुरुषोरगाः
पूजयिष्यन्ति सततं मानवाश्च शुभेप्सवः
इति वामनपुराणे ४६ अध्याये उमां प्रतिशिववाक्यम्
गङ्गायाः पश्चिमतीरे गरिट्याख्य-ग्रामस्योत्तरे पाषाणमयशिवलिङ्गविशेषो ग्राम-विशेषश्च