| YouTube Channel

भद्राश्वं (bhadrAzvaM)

 
शब्दकल्पद्रुमः
Sanskrit
भद्राश्वं,
क्ली,
(भद्रा अश्वा अत्र ।) भुवि जम्बुद्वीपस्यनववर्षान्तर्गतवर्षविशेषः इति त्रिकाण्डशेषः
तद्विवरणं यथा माल्यवतः पूर्व्वपार्श्वे पूर्व्व-गण्डिका एकशृङ्गाद्योजनसहस्राणि मानन्तत्रच भद्राश्वा नाम जनपदाः भद्रशालवनञ्च तत्रव्यवस्थितं कालाभ्रवृक्षाः पुरुषाः श्वेताः पद्म-वर्णिनः स्त्रियः कुमुदवर्णाः दशवर्षसहस्राणि चतेषामायुस्तत्र पञ्च कुलपर्व्वताः तद्यथा, शैलवर्णः मालाख्यको वरजस्वः त्रिपर्णोनीलश्चेतितद्विनिर्गता बह्व्यो नद्यस्तदम्भःस्थितानां देशानांतान्येव नामानि ते देशाः एताः नदीःपिबन्ति तद्यथा, सीता सुवाहिनी हंसवतीकावेरी सुरसा शाखावती इन्द्रनदी अङ्गार-वाहिनी हरितोया सोमावर्त्ता शतह्रदा वन-माला वसुमती हंसा पर्णा पञ्चगङ्गा धनुष्मतीमणिवप्रा सुब्रह्मभागा विलासिनी कृष्णतोयापुण्योदा नागवती शिवा शैवालिनी मणितटाक्षीरोदा वरुणावती विष्णुपदी महानदीहिरण्यस्कन्धवाहा सुरावती वामोदा पताका-श्चेत्येता महानद्यः एताश्च गड्गासमाः कीर्त्तिताःआजन्मान्तं पापं विनाशयन्ति क्षुद्रनद्यश्चकोटिशस्ताश्च बदीर्ये पिबन्ति ते दशवर्षसह-स्रायुषः रुद्रोमाभक्ता इति इति वाराहेभुवनकोषे रुद्रगीता
अपि तथैवेलावृत-मपरेण पूर्व्वेण माल्यवद्गन्धमादनावानीलनिषधायतौ द्विसहस्रं पप्रथतुः केतुमालभद्रा-श्वयोः सीमानं विदधाते मन्दरो मेरुमन्दरःसुपार्श्वः कुमुद इत्ययुतयोजनविस्तारोन्नाहामेरो अतुर्द्दिगमवष्टम्भगिरय उपकॢप्ताः चतुर्षुएतेषु चूतजम्बूकदम्बन्यग्रोधाश्चत्वारः पादप-प्रवराः पर्व्वतकेतव इवाधिसहस्रयोजनोन्नाहा-स्तावद्विटपविततयः शतयोजनपरिणाहाः ।ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजलाः यदुप-स्पर्शिन उपदेवगणा योगैश्वर्य्याणि स्वाभावि-कानि भरतर्षभ ! धारयन्ति देवोद्यानानि चभवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकंसर्व्वतोभद्रामति येष्वमरपरिवृढाः सहसुर-ललनाललामयूथपतय उपदेवगणैरुपगीयमान-महिमानः किल विहरन्ति मन्दरोत्सङ्गएकादशशतयोजनोत्तुङ्गदेवचूतशिरसो गिरि-शिखरस्थूलानि फलान्यमृतकल्पानि निपतन्ति ।तेषां विशीर्य्यमाणानां अतिमधुरसुरभिसुगन्धि-बहलारुणरसोदेनारुणोदा नाम नदी मन्दर-गिरिशिखरान्निपतन्ती पूर्व्वेणेलावृतमुपप्लाव-यति यदुपजोषणाद्भवान्या अनुचरीणां पुण्य-जनबधूनामवयवस्पर्शसुगन्धिवातो दशयोजनंसमन्तादनुवासयति एवं जम्बूफलानामत्यु-च्चनिपातविशीर्णानामनस्थिप्रायाणामिभकाय-निभानां रसेन जम्बूनदी नाम नदी मेरुमन्दर-शिखरादयुतयोजनादवनितले निपतन्ती दक्षिणे-नात्मानं यावदिलावृतमुपस्यन्दति तावदु-भयोरपि रोधसोर्या मृत्तिका तद्रसेनानुविध्य-माना वाय्वर्कसंयोगविपाकेन सदामरलोकाभरणंजाम्बूनदं नाम सुवर्णं भवति यदुहवाव विबुधा-दयः सह युवतिभिर्मुकुटकटककटिसूत्राद्या-भरणरूपेण खलु धारयन्ति यस्तु महाकदम्बःमुपाश्वपार्श्वनिरूढस्तस्य कोटरेभ्यो विनिःसृताःपञ्चायामपरिणाहाः पञ्च मधुधाराः सुपार्श्व-शिखरात् पतन्त्योऽपरेणात्मानमिलावृतमनु-मोदयन्ति यो ह्युपयुञ्जानानां मुखनिर्व्वासितोवायुः समन्तात् शतयोजनमनुवासयति एवंकुमुदनिरूढो यः शतवल्लो नाम वटस्तस्यस्कन्धेभ्यो नीचीनाः पयोदधिमधुघृतगुडान्नाद्य-म्बरशव्यासनाभरणादयः सर्व्व एव कामदुघानदाः कुमुदाग्रात् पतन्तस्तमुत्तरेणेलावृतमुप-योजयन्ति यानुपजुषाणानां कदाचिदपिप्रजानां बलीपलितक्लमस्वेददौर्गन्ध्यजरा-मयापमृत्युशीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषाभवन्ति यावज्जीवं सुखनिरतिशयमेव कुरङ्गकुरर-कुसुम्भवैकङ्कत्रिकूटशिशिरपतङ्गरुचकनिषध-शितिवासकपिलशङ्खवैदूर्य्यजारुधिहंसर्षभनाग-कालञ्जरनीरदादयो गिरयो मेरोः कर्णिकायाइव केशरभूता मूलदेशे परित उपकॢप्ताः ।जठरदेवकूटौ मेरुं पूर्व्वेणाष्टादशयोजनसहस्र-मुदगायतौ द्विसहस्रपृथुतुङ्गौ भवतः एवमप-रेण पवनपारिपात्रौ दक्षिणेन कैलासकरवीरौप्रागायतौ एवमुत्तरतस्त्रिशृङ्गमकरौ अष्टाभि-रेतैः परिवृतोऽग्निरिव परितश्चकास्ते काञ्चन-गिरिः मेरोर्मूर्द्धनि भगवत आत्मयोनेर्मध्यतउपकॢप्तां पुरीमयुतयोजनसाहस्रीं समचतु-रम्नां शातकौम्भीं वदन्ति तामनुपरितो लोक-पालानामष्टानां यथादिशं यथारूपं तुरीय-मानेन पुरोऽष्टावुपकॢप्ताः इति श्रीभागवते५ स्कन्धे भुवनकोषवर्णने १६ अध्यायः