| YouTube Channel

भद्रमुस्ता (bhadramustA)

 
Monier Williams Cologne
English
भद्र—मुस्त,
m.
(Ṛtus.), भद्र—मुस्तक,
m.
and भद्र—मुस्ता,
f.
(L. ) a kind of Cyperus (only ifc. )
शब्दकल्पद्रुमः
Sanskrit
भद्रमुस्ता,
स्त्री,
(भद्रा मुस्ता ।) नागरमुस्तकः ।तत्पर्य्यायः वराही गुन्द्रा ग्रन्थिः ४भद्रकाशी कशेरुः क्रोडेष्टा कुरु-विन्दाख्या सुगन्धिः ग्रन्थिला १० हिमा११ बल्या १२ राजकशेरुः १३ कच्छोत्था १४मुस्ता १५ अर्णोदः १६ वारिदः १७ अम्भोदः१८ मेघः १९ जीमूतः २० अब्दः २१ नीरदः२२ अभ्रम् २३ घनः २४ गाङ्गेयः २५ अस्यागुणाः कषायत्वम् तिक्तत्वम् शीतत्वम् ।पाचनत्वम् पित्तज्वरकफनाशित्वम् संग्रा-हित्वञ्च इति राजनिर्घण्टः
अपि ।“मुस्तकं स्त्रियां मुस्तं त्रिषु वारिदनामकः ।कुरुबिन्दश्च संख्यातोऽपरः क्रोडकशेरुकः
भद्रमुस्तश्च गुन्द्रा तथा नागरमुस्तकः ।मुस्तं कटु हिमं ग्राहि तिक्तं दीपनपाचनम्
कषायं कफपित्तास्रतृड्ज्वरारुचिजन्तुहृत् ।अनूपदेशे यज्जातं मुस्तकं तत् प्रशस्यते
तत्रापि मुनिभिः प्रोक्तं वरं नागरमुस्तकम्
”इति भावप्रकाशः
वाचस्पत्यम्
Sanskrit
भद्रमुस्ता स्त्री कर्म० भद्रमुस्तके “भद्रमुस्ता गृन्द्रा चतथा नागरमुस्तकः मुस्तं कटु हिमं ग्राहि तिक्तं दी-पनपाचनम् कषायं कफपित्तास्रतृड्ज्वरारुचिजन्तु-हृत् अनूपदेशे यज्जातं मुस्तकं तत् प्रशस्यते तत्रापिमुनिमिः प्रोक्तं घरं नागरमुस्तकम्” भावप्र०