| YouTube Channel

भद्रपणी (bhadrapaNI)

 
शब्दकल्पद्रुमः
Sanskrit
भद्रपणी,
स्त्री,
(भद्राणि पर्णान्यस्याः गौरादित्वात्ङीष् ।) गाम्भारी इत्यमरः ३६
(अस्याः पर्य्यायो यथा, --“गाम्भारी भद्रपर्णी श्रीपर्णी मधुपर्णिका
काश्मिरी काश्मरी हीरा काश्मर्य्यः पीत-रोहिणी ।कृष्णवृन्ता मधुरसा महाकुसुमिकापि
”)प्रसारिणी इति जटाधरः
(अस्याः पर्य्यायोयथा, --“प्रसारणी राजबला भद्रपर्णी प्रतापनी ।सरणी सारणी भद्रा बला चापि कटम्भरा
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
“प्रसारणी गन्धाली भद्रपर्णी कटम्भरा
”इति वैद्यकरत्नमालायाम्
यथा, शतपथब्राह्मणे १६ इत्यस्य भाष्ये“काष्मर्य्यो भद्रपर्णी प्रकृतौ पलाशवैकङ्कता-दीनामैच्छिकत्वादत्र नियमविधिः
”)