| YouTube Channel

भद्रनिधि (bhadranidhi)

 
Monier Williams Cologne
English
भद्र—निधि
m.
‘treasure of fortune’,
N.
of a costly vessel offered to Viṣṇu,
Pur.
Apte Hindi
Hindi
भद्रनिधिः
पुं*
भद्र-निधिः -
उपहार के लिए बने पात्र
शब्दकल्पद्रुमः
Sanskrit
भद्रनिधिः,
स्त्री,
(भद्रा निधयोऽत्र ।) महादान-विशेषः यथा, --इन्द्र उवाच ।“विधानं ब्रूहि मे ब्रह्मन् ! दानस्यास्य महानिधेः ।यथा देव ! विशेषेण विष्णोरानन्दकारकम्
”ब्रह्मोवाच ।“पुण्यां तिथिं प्राप्य तु पौर्णमास्यांतथोपरागे शशिसूरयोर्वा ।चतुर्युगादिष्वयनद्बये वाप्रबोधने प्रस्वपनेऽथ विष्णोः
कुर्य्यादथौडुम्बरमेव कुम्भंहिरण्यमानेन यथात्मशक्त्या ।तथा पिधानञ्च सुराजतं स्याद्-हिरण्यभारेण तु पूरयेत्तत्
तदर्द्धतोऽर्द्धेन तदर्द्धतो वास्वशक्तितः स्वर्णपलैः शतेन ।तदर्द्धमध्येन तु वित्तशक्त्यापलत्रयादूनमथो कुर्य्यात्
तत्ताम्रभाण्डे कनकं निधेयंसवज्रनीलोत्तमपद्मरागम् ।सुमुक्तवैदूर्य्यसविद्रुमञ्चतद्राजतं पात्रमधोमुखं स्यात्
एवन्तु तं भद्रनिधिं सुविद्वान्कृत्वासने प्रावरणोपयुक्ते ।कुशोत्तरे दर्पणचामराढ्यंसपादुकोपानहच्छत्रयुक्तम् ।तं क्षौमवस्त्रोत्तमयुग्मयुक्तंसम्पूजयेन्मन्त्रवरैरथैतम्
आदौ तु पञ्चामृतमाप्य विष्णुंसंस्नाप्य संसारतरं समर्च्च्य ।तथेश्वरं पावकमेव हुत्वाआमन्त्रयेद्भद्रनिधिं ततस्तम्
श्रीखण्डकर्पूरसकुङ्कुमेनपञ्चाक्षरं नाम श्रियः प्रलिख्य ।नमस्तथोङ्कारयुतञ्च पात्रेतद्राजतेऽप्येवमथार्च्चयेत्ताम्
त्वया समस्तामरसिद्धयक्ष-विद्याधरेन्द्रोरगकिन्नरेन्द्रैः ।गन्धर्व्वदिव्याप्सरदानवेन्द्रै-र्युतं वृतं विश्वमिदं नमस्ते
समस्तसंसारकरी त्वमेवविभोः सदानन्दमयी माया ।समस्तकल्याणनिधिः समाधि-र्हरिप्रिये ! भद्रनिधे ! नमस्ते
एवं संपूज्य विधिना ततो विप्रमथार्च्चयेत् ।किरीटाङ्गदनिष्काग्य्रकुण्डलाङ्गुलिभूषणैः
अलंकृत्य हरिं यद्वत् पीताम्बरधरं ततः ।पूजयेदच्युतं ध्यात्वा मन्त्रेणानेन भक्तिमान्
भूदेवोऽसि विभो ! नित्यं नित्यानन्द मयोहरे ! ।हर मे दुष्करं कृष्ण ! कृपाकर ! नमोऽस्तु ते
भूदेव ! भगवान् भर्ग भवभङ्गकरेश्वर ! ।भवभूतिकरो जिष्णो ! प्रभविष्णो नमोऽस्तु ते
एवं पूज्य हृदि ध्यात्वा तं द्विजं ब्रह्मरूपिणम् ।ततो भद्रनिधिं दद्यान्मन्त्रेणानेन वासव !
स्वगोत्रोच्चारणेनादौ विप्रनाम तथात्मनः ।यवदर्भतिलैः सार्द्धमुदकं संपरित्यजेत्
पितृसन्तारणार्थाय नित्यानन्दविवृद्धये ।सर्व्वाघौघविघाताय विष्णोर्दानं मया कृतम्
तदनेन सरत्नेन धातुत्रययुतेन ।सक्षौमाम्बरयुक्तेन सादर्शपादुकेन
सासनेन सच्छत्रेण चामरोपानहेन ।सदानन्दनिधानेन प्रीयतां विष्णुरीश्वरः
एवमुच्चार्य्य तं दद्याद्द्विजाय हरिरूपिणे ।गोप्येन विधिना दद्याद्धेमसंख्यां कीर्त्तयेत्
प्रकीर्त्तिते कोटियुगायुतं फलंप्रगोपिते कल्पगणैर्न संक्षयः ।इतीयमज्ञो तु कीर्त्तयेत् सुधी-र्निधानमध्ये निहितञ्च यद्बसु
एवं कृते स्यान्मनुजः कृतात्मातपेन्न स्वामरणं कदाचित् ।प्रयाति विष्णोः पदमव्ययं तत्शिवात्मकानन्दमयं सदाख्यम्
”इत्याद्ये वह्रिपुराणे भद्रनिघिदाननामाध्यायः
वाचस्पत्यम्
Sanskrit
भद्रनिधि
पु०
दानार्थकल्पिते ताम्रादिघटितघटे तद्दानविधिश्चहेमा० दा० वामनपु० उक्तो यथा“पुण्यान्तिथिं प्राप्य तु पौर्णमास्यां तथोपरागे शशि-सूर्य्ययोर्वा चतुर्युगादिष्वयनद्वये वा प्रबोधने प्रस्व-पनेऽथ तिष्णोः कुर्य्यादथौदुम्बरमेव कुम्भं हिरण्य-भारेण यथात्मशक्त्या तथाविधानञ्च सुराजतं स्या-द्धिरण्यभारेण तु पूरयेत् तम् तदर्द्धतोऽर्द्धेन तद-र्द्धती वा स्वशक्तितः स्वर्णपलैः शतेन तदर्द्धमर्द्धेन तुवित्तशक्त्या पलत्रयादूर्द्धमपि प्रकुर्य्यात् तत्ताम्र-भाण्डे कनकं निधाय सवज्रनीलोत्पलपद्मरागम् समु-क्तवैद्रूर्य्यसविद्रुमञ्च तद्राजतं पात्रमधोमुखं स्यात् ।एवन्तु तं भद्रनिधिं सुविद्वान् कृत्वासने प्रावरणोप-युक्ते कुशोत्तरे दर्पणचामराणे सपादुकोपानहछत्र-युक्तम् सत्क्षौमवस्त्रोत्तमयुग्मयुक्तं संपूजयेन्मन्त्रवरै-रथैतैः” “आदौ तु पञ्चामृतकेन विष्णुं संस्नाप्य संसा-रहरं समर्च्य तथेश्वरं पावकमेव हुत्वा आमन्त्र-येद्भद्रनिधिं ततस्तम् श्रीखण्डकर्पूरसकुङ्मुमेन पञ्चा-क्षरं नाम श्रियः प्रलिख्य नमस्तथोङ्कारयुतं चपात्रे तद्राजतेऽप्येवमथार्चयेत त्वया समस्तामर-सिद्धयक्षविद्याधरेन्द्रोरगकिंनरेन्द्रैः गन्धर्वविद्याधर-दानवेन्द्रैर्युतं धृतं विश्वमिदं नमस्ते समस्तससार-करी त्वमेव विभोः सदानन्दमयी माया समस्त-कल्याणनिधिः समाधिः हरिप्रिये! भद्रनिधिर्नमस्ते ।एवं पूज्य विधानेन ततो विप्रमथार्चयेत् किरीटा-ङ्गदनिष्काग्र्यकुण्डलाङ्गुलिभूषणैः अलङ्कृत्य हरिंतद्वत् पीताम्बरधरं ततः पूजयेदच्युतं ध्यात्वा मन्त्रेणा-नेन भक्तिमान् भूदेवोऽसीत्यतो नित्यं नित्यानन्दमयोहरे! हर मे दुष्कृतं कृष्ण! कृपाकर! नमस्त ते ।भूदेव! भगवद्धर्म! भवभङ्गकरेश्वर! भवभूतिकरोजिष्णो!प्रमविष्णुर्नमोऽस्तु ते एवं पूज्य हृदि ध्यात्वा तं द्विजंविष्णु--रूपिणम् ततो भद्रनिधिं दद्यान्मन्त्रेणानेनमानवः स्वगोत्रोच्चारणेनादौ वपुर्नाम तथात्मनः ।यवदर्भतिलै सार्द्धमुदकं संपरित्यजेत् पितृसन्तार-णार्थाय नित्यानन्दविवृद्धये सर्वाघौघविनाशाय विष्णो-र्दानं मया कृतम् तदनेन सरत्नेन धातुत्रययुतेनप सक्षौमाम्बरयुक्तेन सादर्शपादुकेन आसनेनसच्छत्रेण चामरोपानहेन सदानन्दविधानेन प्रीयतांविष्णुरीश्वरः एवमुच्चार्य्य तन्दद्याद् द्विजाय हरि-रूपिणे गोप्येन विधिना दद्याद्धेमसंख्यां कीर्त्त-येत् अकीर्त्तिते कोटिगुणायुतं फलं प्रगोपिते कल्प-गुणैर्न संशयः इतीदमन्यस्य कीर्त्तयेत् सुधीःनिधानमध्ये निहितञ्च यद्वसु एवंकृते स्यान्मनुजःकृतात्मा तपेन्नवा स्यान्मरणं कदाचित् प्रयाति विष्णोःपदमव्ययं तत् शिवात्मकानन्दमयं स्वसंस्थम्”