| YouTube Channel

भद्रदार्व्वादिकः (bhadradArvvAdikaH)

 
शब्दकल्पद्रुमः
Sanskrit
भद्रदार्व्वादिकः,
पुं,
(भद्रदारु आदौ यस्य कप् ।)औषधगणविशेषः यथा भद्रदारुकुष्ठहरिद्रा-वरुणमेषशृङ्गीबलातिबलार्त्तगलकच्छुरासल्लकी-कुवेराक्षीवीरतरुसहचराग्निमन्थवत्सादन्येर-ण्डाश्मभेदकालर्कार्कशतावरीपुनर्नवावसुकवसि-रकाञ्चनकभार्गीकाप्पासीवृश्चिकालीपत्तूरवदर-यवकोलकुषत्थप्रभृतीनि इति सुश्रुतसूत्र-स्थानस्य संशोधनसंशमनीयाध्यायः
*
अपिच ।“देवदारु हरिद्रे द्वे वरुणः कुष्ठमेव ।महानिम्बं नागबला श्यामला गरलोऽपरः
पाटला चात्मगुप्ता शुण्ठी पाषाणभेदिका ।शतावरी चार्कमूतं गुडूची गणिकारिका
पुनर्नवा वास्तूकसूर्य्यावर्त्तककानतम ।गोक्षुरं शरमूलञ्च कुशमूलं समांसिकम्
ऊनचत्वारिंशद्द्रव्यैर्भद्रदार्व्वादिको गणः
”इति शब्दचन्द्रिका
*
एतन्मध्ये चतुर्दशद्रव्याणि प्राप्तानि