| YouTube Channel

भदि (bhadi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
भन्द्
मूलधातुः:
भदि
धात्वर्थः:
कल्याणे सुखे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
भन्दते
धातुप्रदीपः
Sanskrit
भदिँ भदि कल्याणे, सुखे
- भन्दते बभन्देः भन्दः भद्रम् भन्द्यते ''भद्रः पुंसि वृषे मतः'' ।। 12 ।।
क्षीरतरङ्गिणी
Sanskrit
भदिँ भदि कल्याणे, सुखे
(अर्थविवरणम्) कल्याणं श्रेयो मङ्गलादि
, (अर्थविवरणम्) सुखम् आत्मगुणादयः
भन्दते भन्दिता भदन्तः श्रमणः चुरादौ (1070) भन्दयति 12
धातुवृत्तिः
Sanskrit
भदिँ भदि (अर्थः) कल्याणे, सुखे
(अर्थविवरणम्) कल्याणं मङ्गलं
(अर्थविवरणम्) सुखमात्मगुणः
( भन्दते बभन्दे भन्दिते त्यादि स्कुन्दिवत् देवदत्ताय भद्रं भूयाद्देवदत्तस्येति वा) "ऋज्ज्रेन्द्रायवज्विप्रकुब्रचुब्रक्षुरखुरभद्रोग्रमद्रभेरभेलशुक्रशुक्लवत्रेरामाना'' इति रक्यनुनासिकलोपे भद्रशब्दो निपातितः तद्युक्तात् ( सूत्रम्) चतुर्थि चाशिष्यायुष्मद्रभद्रकुशलसुखार्थहिर्तैः (इति सूत्रम्) इत्याशिषि गम्यमानग्यां चतुर्थीषष्ठयौ अत्रायुष्यादयोऽर्थपराः ( भद्राकरोति मुण्डयतात्यर्थः ) [ भद्राच्चेति वक्तव्यम् ] इति परिवापणे मुण्डने कृञो योगे डाच्प्रत्ययः अस्य "ऊर्यादिच्विर्डाचश्च'' इति गतित्वात्वूर्वे प्रयोगः अत एव निपातत्वेनाव्यात्वात्सोर्लुक् 12
कृदन्तरूपमाला
Sanskrit
1 {@“भदि कल्याणे सुखे च”@} 2 3 ‘भदि कल्याणे’ इति चुरादावपि दुर्गः पठतीति क्षीरतरङ्गिण्यामुक्तम्।
दुर्गा- तिरिक्तेन केनापि तस्य धातोः चुरादिष्वपठितत्वादस्माभिर्न लिखित इति ज्ञेयम्।]] कल्याणम् = मङ्गलम्, सुखम् = आत्मगुणः, आत्मगुणोदयो वा।
भन्दकः-न्दिका, भन्दकः-न्दिका, बिभन्दिषकः-षिका, बाभन्दकः-न्दिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककन्दतिवत् 4 ज्ञेयानि।
5 भद्रम्, 6 नतभन्दिनी।
7 भदाकः, 8 भदन्तः।
प्रासङ्गिक्यः
01
=>
(११४४)
02
=>
(१-भ्वादिः-१२। अक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
(१६३)
05
=>
[[४। औणादिके (द। उ। ८-४६) रन्प्रत्यये रूपमेवम्। बाहुलकाद्धातुनकारस्य लोपः।]]
06
=>
[[B। ‘प्रश्विन्दिताशं यशसा पुराऽप्यसौ विवन्दिषुस्तं नतभन्दिनं विभुम्।’ धा। का। १। ३।]]
07
=>
[[५। पिनाकादिषु (द। उ। ३-३४) दर्शनादाकप्रत्यये नकारलोपे रूपमेवम्। भदाकः = अकुटिलः।]]
08
=>
[[६। ‘भन्देर्नलोपश्च’ (पञ्चपाद्युणादिः ३-१३०) इति झच्प्रत्यये, ‘झोऽन्तः’ (७-१-३) इत्यन्तादेशे नकारलोपे रूपमेवम्। भदन्तः = प्रव्रजितः।]]