| YouTube Channel

भण्डकः-ण्डिका (bhaNDakaH-NDikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“भडि परिभाषणे”@} 2 ‘परितो भाषणम् = परिभाषणम्।’ इति स्वाम्यादयः।
“-- ‘यः सनिन्द उपालम्भस्तत्र स्यात् परिभाषणम्।’ 3 इति निथण्टुः।” इति मा।
धा।
वृत्तिः।
‘कल्याणे भण्डयेद् भण्डेः, परिहासे तु भण्डते।’ 4 इति देवः।
5 यद्यपि, ‘कल्याणे भण्डयेद् भण्डेः, परिहासे तु भण्डते।’ इति देवश्लोकः क्वचित् दैवकोशेषु नोपलभ्यते, पुरुषकारेऽपि व्याख्यातः।
तथापि, ‘--परि- हासे’ इति देवः।’ इति माधवधातुवृत्तिवाक्यात्, क्वचित् कोशे मुद्रितत्वाच्चा- स्माभिरपीहोपात्तः इति ज्ञेयम्।]] भण्डकः-ण्डिका, भण्डकः-ण्डिका, बिभण्डिषकः-षिका, बाभण्डकः-ण्डिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककण्ठतिवत् 6 ज्ञेयानि।
7 भण्डनः, 8 भाण्डम्, 9 भण्डिलः 10।
प्रासङ्गिक्यः
01
=>
(११४१)
02
=>
(१-भ्वादिः-२७३। सक। सेट्। आत्म।)
03
=>
(अमरकोशे १-६-१४)
04
=>
(श्लो। ८९)
05
=>
[[[अ]
06
=>
(१४९)
07
=>
[[१। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छीलिके युचि रूपमेवम्।]]
08
=>
[[२। भण्डते इति भण्डः। पचाद्यच्। भण्ड एव भाण्डम् = पात्रादिकम्। स्वार्थिकेऽणि रूपमेवम्।]]
09
=>
[[३। बाहुलकात् औणादिके इलच्प्रत्यये रूपमेवम्। भण्डिलः = दूतः।]]
10
=>
[[आ। ‘स भण्डिलो भोजनृपालपिण्डभुक् प्रमुण्डितांस्तत्र जनानतुण्डकान्।।’ धा। का। १। ३६।]]
1 {@“भडि कल्याणे”@} 2 इदित्करणात् णिचो वैकल्पिकत्वम्।
‘कल्याणे भण्डयेद् भण्डेः परिहासे तु भण्डते।’ 3 इति देवः।
भण्डकः-ण्डिका, बिभण्डयिषकः-षिका, भण्डकः-ण्डिका, बिभण्डिषकः-षिका, बाभण्डकः-ण्डिका
इत्यादीनि सर्वाणि रूपाणि चौरादिककुण्ठयतिवत् 4 ज्ञेयानि।
कर्तरि क्तपत्यये 5 सुभण्डितः इति भवति।
प्रासङ्गिक्यः
01
=>
(११४२)
02
=>
(१०-चुरादिः-१५८८। सक। सेट्। उभ।)
03
=>
(श्लो। ८९)
04
=>
(२१०)
05
=>
[[B। ‘बर्हादिमण्डितसुभण्डितविग्रहोऽसौ प्रच्छर्दितः किल बकेन पुस्तितार्तिः।’ धा। का। ३। २०।]]