| YouTube Channel

भट्टारः (bhaTTAraH)

 
शब्दकल्पद्रुमः
Sanskrit
भट्टारः, त्रि, (भटतीति भट् + क्विप् भट्चासौ तारश्चेति कर्म्मधारयः पृषोदरादित्वात्साधुः यद्वा भट्टं स्वामित्वं ऋच्छतीति ।अण् ।) पूज्यः इति त्रिकाण्डशेषः
(यथा, राजतरङ्गिण्याम् ८६७ ।“नोनसिह्लारभट्टारप्रशस्तकलसादयः ।बद्द्वाथ हर्षदेवेन कारागारं प्रवेशिताः
”)