| YouTube Channel

भट्टाचार्य्यः (bhaTTAcAryyaH)

 
शब्दकल्पद्रुमः
Sanskrit
भट्टाचार्य्यः,
पुं,
(भट्टः तुतातभट्टः आचार्य्यःउदयनाचार्य्यः तौ तुल्यतया तन्मताभिज्ञत्वेना-स्त्यस्येति अण् ।) तुतातभट्टमतं न्यायशास्त्रम्उदयनाचार्य्यमतं न्यायशास्त्रम् एतदुभय-शास्त्रवेत्ता एतदुभयमतं जानाति यः इत्यर्थेढघेकादिति कारकात् कर्त्तरि अणिताष्णप्रत्ययेन निष्पन्नः