भज (bhaja)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishभज r. 1st cl. (औ) भजौ (भजति-ते) 1. To serve, to worship.
2. To possess,
to enjoy, (carnally.) r. 10th cl. (भजयति)
1. To give.
2. To dress or
cook.
3. To separate or divide: see भाज् (इ) भजि r. 10th cl. (भंज-
यति)
1. To shine.
2. To speak: with वि prefixed, to measure
with
प्र and वि, to discriminate, to discuss.
Wilson
EnglishHindi
Hindiपूजा
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaभज - सेवायाम्
पदविभागः - > धातु
कन्नडार्थः - > ಭಾಗಮಾಡು/ವಿಭಾಗಿಸು
प्रयोगाः - > "भजेरन् पैतृकं रिक्थमनीशास्ते हि जीवतोः"
उल्लेखाः - > मनु० ९-१०४
विस्तारः - > भ्वा० उभ० सक० अनि० भजति/ते। बभाज/ भेजे। भक्ता। भक्ष्यति/ते। भजतु/ ताम्। अभजत्/त। भजेत्/त। कर्मणि- भज्यते। भज्यताम्। अभज्यत। भज्येत। अभाजि। केवलात् कृत्सु- भक्तव्यम्। भजनीयम्। भाग्यम्। भक्तः। भक्तवान्। भजन्/ती। भजमानः। भक्ष्यन्/ती। भक्ष्यमाणः। भक्तम्। भक्तुम्। भक्त्वा। विभज्य। भाजम्भाजम्। भक्त्वाभक्त्वा।
भज - सेवायाम्
पदविभागः - > धातु
कन्नडार्थः - > ಪಾಲು ತೆಗೆದುಕೊ/ಹಂಚಿಕೊ
प्रयोगाः - > "पित्र्यं भजते शीलं मातुर्वोभयमेव वा"
उल्लेखाः - > मनु० १०-५९
भज - सेवायाम्
पदविभागः - > धातु
कन्नडार्थः - > ಸ್ವೀಕರಿಸು/ಅಂಗೀಕರಿಸು
प्रयोगाः - > "भजतु प्रथमार्हणां यथार्हं भगवानेष भवार्णवैकसेतुः"
उल्लेखाः - > याद० १५-७२
भज - सेवायाम्
पदविभागः - > धातु
कन्नडार्थः - > ಆಶ್ರಯಹೊಂದು/ಅವಲಂಬಿಸು
प्रयोगाः - > "न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते"
उल्लेखाः - > शाकु ५-१०
भज - सेवायाम्
पदविभागः - > धातु
कन्नडार्थः - > ಆಚರಿಸು/ಪಾಲಿಸು
प्रयोगाः - > "जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः"
उल्लेखाः - > रघु० १-२१
भज - सेवायाम्
पदविभागः - > धातु
कन्नडार्थः - > ಸೇವಿಸು/ಪೂಜಿಸು
प्रयोगाः - > "भजन्ति यस्मिन् पदयोरमुष्य न्यासं शुभं निश्चितयोगलक्ष्याः"
उल्लेखाः - > याद० १८-५६
भज - सेवायाम्
पदविभागः - > धातु
कन्नडार्थः - > ಪಡೆ/ಹೊಂದು/ತಾಳು
प्रयोगाः - > "अनुभूय हिरण्यरावणत्वे भजते सम्प्रति चेदिराजभावम्"
उल्लेखाः - > याद० १५-२५
भज - सेवायाम्
पदविभागः - > धातु
कन्नडार्थः - > ಹೊಂದು/ಅನುಭವಿಸು/ಗುರಿಯಾಗು
प्रयोगाः - > "भजन्ति विपदस्तूर्णमतिक्रामन्ति सम्पदः"
उल्लेखाः - > भट्टि० १८-४
भज - सेवायाम्
पदविभागः - > धातु
कन्नडार्थः - > ಸೇವಿಸು/ಉಪಚರಿಸು
प्रयोगाः - > "दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम्"
उल्लेखाः - > रघु० २-२३
भज - सेवायाम्
पदविभागः - > धातु
कन्नडार्थः - > ಆರಿಸು/ಆಯ್ದುಕೊ
प्रयोगाः - > "सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः"
उल्लेखाः - > माल० १-२
भज - सेवायाम्
पदविभागः - > धातु
कन्नडार्थः - > ಅನುಗ್ರಹಿಸು/ಕೃಪೆಮಾಡು.ದಯೆ ತೋರಿಸು
धातुपाठः (Krishnacharya)
Sanskrit भज्
भज
सेवायाम्
भ्वादिः
सकर्मकः
अनिट्
उभयपदी
भजति-ते
भज्
भज
विश्राणने(दाने)
चुरादिः
सकर्मकः
सेट्
उभयपदी
भाजयति-ते
धातुप्रदीपः
Sanskritभजँ भज सेवायम्
- भजति । भजते । भक्ता । भक्तुम् । अर्थभाक् । भक्तम् । भगम् (100) ।। 1006 ।।
भजँ भज विश्राणने
- भाजयति भाजः भाजा भाजी अन्यत्र भजति भजते 195
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritक्षीरतरङ्गिणी
Sanskritभजँ भज सेवायाम्
- भजते भजति तॄफलभज (64122) इति भेजे, भेजुः भजो ण्विः (3262) अर्धभाक् सम्पृचानुरुध 32142) इति घिनिण्-भागी खलं भगः पदं च (द्र0 काशिका33125) इति भगः घञ् (द्र0 3318- 19) भागः भक्तुम् भक्तः चुरादौ भाज पृथक्कर्मणि (10282) विभाजयति 968
भजँ भज विश्राणने
- (अर्थविवरणम्) विश्राणनं दानम्
विश्रणे विवेचन इत्यन्ये भाजयति, भाजी (द्र0 4142) अन्यत्र (1725) भजति, भजते 199
धातुवृत्तिः
Sanskritभजँ भज (अर्थः) सेवायाम्
( भजति बभाज भेजतुः भेजिथ बभक्थ भेजिव ) "तॄफलभजत्रपश्च'' इति किति लिटि सेटि थलि च परत्वादेत्वाभ्यासलोपौ ( भक्ता भक्ष्यति भजतु अभजत् भजेत् भज्यात् अभाक्षीत् बिभक्षति बाभज्यते बाभक्ति भाजयति अबीभजत् भजते भजेते भक्तासे भक्ष्यते भजताम् अभजत भजेत भक्षीष्ट अभक्तअभक्षातातम् बिभक्षते ) ( विभक्तव्यो विभज्यः ) "द्विवचनविभज्योपपदे'' इति निपातनाद्यत् ( जन्मभाक् ) "भजो ण्विः'' इति कर्म्मोपपदादस्माण्ण्विः ( भागी ) संपृचादित्वाद्घिनुण् ( भागः ) "खनो घ च'' इति चशब्दात् घञ् कुत्वम् सुभगस्य भावकर्म्मणी सौभाग्यम् ब्राह्मणादिपाठात् ष्यञ् "हृद्भग" इत्युभयपदवृद्धिः एवं दौर्भाग्यमपि सुभगाया अपत्यं सौभागिनेयः "कल्याण्यादीनामिनङ्'' इतीनङादेशोऽन्त्यस्य पूर्ववदुभयपदवृद्धिः एवं ( दौर्भागिनेयः भागः ) घञ् भागोऽस्मिन् वृद्धिरायो लाभः शुक्ल उपदा वा दीयते भाग्यं शतम्, भागिकं शतम् "भागाद्यच्च''इति दीयमानाद्वृध्यायादीनामन्यतमोपाधिकात्प्रथमान्तादस्मिन्निति सप्तम्यर्थे यत् चकाराट्ठञ् भाग एव भागधेयम् "भागरूपनामभ्यो धेयः'' इति स्वार्थे धेयः ( भ्राता ) "नप्तृनेष्टृ'' इत्यादिना तृनि भ्रादेशो निपात्यते, भ्रातरावित्यादौ सर्वनामस्थाने "अप्तृन्''इति दीर्घो न भवति, तृन्नन्तत्वादेव नप्त्रादीनां दीर्घे सिद्धे तेषां पुनर्ग्रहणादौणादिकानां संज्ञाशब्दानामेषामेवेति नियमार्थत्वात् "भ्रातृपुत्रौ'' इत्यत्र तु भाष्ये विभक्तीति भ्रातेति व्युदपादि ( भ्रातुरपत्यं भातृव्यः भ्रात्रीयः ) "भ्रातुर्व्यच्च'' इति व्यच्छौ ( भ्रातृव्यः सपत्नः ) "व्यन्सपत्ने'' इतिव्यन् ( सौभ्रात्रम् दौर्भ्रात्रम् ) युवादिपाठाद्भावकर्म्मणोरण् भ्राता च स्वसा च भ्रातरौ "भ्रातृपुत्रौ स्वसृदुहितृभ्याम्'' इति भ्रातुः शेषः कल्याणी भक्तिरस्य कल्याणीभक्तिः प्रियादिषु भक्तिशब्दस्य पाठात् "स्त्रियाः पुंवत्'' इति पुंवद्भावो न भवति दृढभक्तिरित्यत्र कुक्कुटाण्डादिवत्स्त्रीपूर्वपदस्याविवक्षितत्वात्सिद्धम् प्रतिपादितं चैतद् भाष्यादौ भञ्जो आमर्दनइति रुधादौ, भज विश्राणने, भाज पृथक्कर्मणीति द्वयं चुरादौ तथात्रैव भजेतिभाषार्थो दण्डके 977
भजँ भज (अर्थः) विश्राणने
( भाजयति ) भाज पृथक्कर्मणी वक्ष्यमाणस्य भाजयति भञ्जयतीति भाषार्थेऽग्रे भजति, भजतइति शपि सेवायाम्, भनक्तीत्यामर्दने श्नमि 198
कृदन्तरूपमाला
Sanskrit1 {@“भज सेवायाम्”@} 2 ‘--विभागसेवयोः’ इति द्रुमे 3।
‘सेवायां भजते भजेदिति भजेः, विश्राणने भाजयेद् आमर्दे तु भनक्ति, भाजयति णौ भाजेः पृथक्कर्मणि।।
4 इति देवः।
5 भाजकः-जिका, भाजकः-जिका, 6 बिभक्षकः-क्षिका, 7 बाभजकः-जिका
8 भक्ता-भक्त्री, भाजयिता-त्री, बिभक्षिता-त्री
बाभजिता-त्री
भजन्-न्ती, भाजयन्-न्ती, बिभक्षन्-न्ती
-- भक्ष्यन्-न्ती, भाजयिष्यन्-न्ती-ती, बिभक्षिष्यन्-न्ती-ती
-- भजमानः, भाजयमानः, बिभक्षमाणः, बाभज्यमानः
भक्ष्यमाणः, भाजयिष्यमाणः, बिभक्षिष्यमाणः, बाभजिष्यमाणः
9 देहभाक् 10 -देहभाग्-देहभाजौ-देहभाजः
-- -- विभक्तम्-भक्तवान्, भाजितः, बिभक्षितः, बाभजितः-तवान्
भजः, 11 भागी, 12 भक्तम्-भक्तः, 13 राज्यभाक्-प्रभाक्, 14 भेजिवान् 15, 16 भ्राता, 17 18 धनभाजी, 19 विभक्तिः, 20 भजमानः, भाजः, बिभक्षुः, बाभजः
भक्तव्यम्, भाजयितव्यम्, बिभक्षितव्यम्, बाभजितव्यम्
भजनीयम्, भाजनीयम्, बिभक्षणीयम्, बाभजनीयम्
21 विभज्यम्, 22 विभाग्यम्, भाज्यम्, बिभक्ष्यम्, बाभज्यम्
ईषद्भजः-दुर्भजः-सुभजः
-- -- भज्यमानः, भाज्यमानः, बिभक्ष्यमाणः, बाभज्यमानः
भागः, 23 भगः, भाजः, बिभक्षः, बाभजः
भक्तुम्, भाजयितुम्, बिभक्षितुम्, बाभजितुम्
24 भक्तिः- 25 दृढभक्तिः, भाजना, बिभक्षा, बाभजा
26 भजनम्, भाजनम्, बिभक्षणम्, बाभजनम्
27 भक्त्वा
भाजयित्वा, बिभक्षित्वा, बाभजित्वा
विभज्य, विभाज्य, प्रबिभक्ष्य, प्रबाभज्य
भाजम् २, भक्त्वा २, भाजम् २, भाजयित्वा २, बिभक्षम् २, बिभक्षित्वा २, बाभजम् २
बाभजित्वा २।
01 (११३७)
02 (१-भ्वादिः-९९८। सक। अनि। उभ)
03 (श्लो। १२३)
04 (श्लो। ६६)
05 [पृष्ठम्०९३७+ ३१]
06 [[१। सन्नन्ताण्ण्वुलि, धातोरनिट्त्वादिडागमाभावे, चर्त्वषत्वयोश्च रूपम्। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
07 [[२। यङन्ते सर्वत्र, अभ्यासे दीर्घः, जश्त्वं चेति ज्ञेयम्।]]
08 [[३। धातोरनिट्त्वात्, चर्त्वे रूपमेवम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
09 [[४। ‘भजो ण्विः’ (३-२-६२) इति कर्तरि ण्विप्रत्ययः। प्रत्ययस्य णित्त्वादुपधावृद्धिः। क्विबादिवदयं प्रत्ययः सर्वलीपी। कर्तरि क्विपोऽपवादोऽयम्।]]
10 [[आ। ‘देहभाञ्जि ततः केशान् लुलुञ्च लुलुठे मुहुः।।’ भ। का। १४। ५९।]]
11 [[५। तच्छीलादिषु कर्तृषु, ‘सम्पृवानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिप- परिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभज--’ (३-२-१४२) इत्यादिना घिनुण्प्रत्ययः। णित्त्वादुपधावृद्धिः। घित्त्वात्, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वमिति च ज्ञेयम्।]]
12 [[६। आशीरर्थे, ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तप्रत्ययः। भक्तम् = अन्नम्। भजतादिति भक्तः = उपासकः।]]
13 [[७। ‘भजो ण्विः’ (३-२-६२) इत्यत्र उपसर्गे सुपि च उपपदे प्रत्ययविधानाश्रयणादत्र, प्रभाक् इत्यत्र च कर्तरि ण्विप्रत्यय इति ज्ञेयम्।]]
14 [[८। कर्तरि भूतसामान्ये लिटः क्वसौ, ‘तृफलभजत्रपश्च’ (६-४-१२२) इति एत्वाभ्यास- लोपयोः, ‘वस्वेकाजाद्धसाम्’ (७-२-६७) इतीडागमे च रूपमेवम्।]]
15 [[B। ‘आज्ञानुग्रहभीमकोमलपुरीपाला फलं भेजुषां याऽयोध्येत्यपराजितेति विदिता नाकं परेण स्थिता।’ श्रीगुणरत्नकोशे २३।]]
16 [[९। ‘तृन्’ (३-२-१३५) इति ताच्छीलिके तृन्प्रत्यये, ‘नप्तृनेष्टृ--’ (द। उ। २-३) इत्यत्र निपातनात् भ्रादेशे च भ्राता इति सिद्ध्यतीति मा। धा। वृत्तावुक्तम्। द। उ। वृत्त्यादिषु भ्राजतेर्जकारलोपे रूपनिष्पादनं कृतम्। ‘श्वशुरः श्वश्र्वा’ (१-२-७१) इत्यत्र भाष्ये तु ‘यदि तावद् बिभर्तीति भ्राता--’ इत्युक्तत्वात् भृञ्धातोरेव भ्रातृशब्दनिष्पत्तिन्याय्येति प्रतिभाति।]]
17 [पृष्ठम्०९३८+ २८]
18 [[१। ताच्छीलिके णिनिप्रत्यये रूपमेवम्।]]
19 [[२। ‘क्तिच्क्तौ च--’ (३-३-१७४) इत्यनेन संज्ञायां क्तिचि रूपम्। विभक्तिः = प्रथमाद्या विभक्तिः। अत्र सूत्रे (३-३-१७४) आशिषि गम्यमान एव प्रत्यय इत्युक्तम- विवक्षितमिति केचित्।]]
20 [[३। ‘ताच्छील्यवयोवचनशक्तिषु--’ (३-२-१२९) इत्यनेन ताच्छील्ये गम्ये चानश्प्रत्ययः। शित्त्वाच्छबादिकं भवति।]]
21 [[४। ‘द्विवचनविभज्योपपदे--’ (५-३-५७) इति सूत्रे विभज्य इति निर्देशात् हलन्तलक्षणण्यदपवादो यत्प्रत्ययोऽत्रेति ज्ञेयम्।]]
22 [[५। ‘अबाधकान्यपि निपातनानि’ (परिभाषा-१२०) इति दर्शने ण्यत्प्रत्यये कुत्वे च रूपमेवम्। विभाज्यम् इति कुत्वाभावरूपं तु सर्वथा अप्रामाणिकमेव। स्पष्टमिदं प्रकृतसूत्रे (५-३-५७) पदमञ्जर्याम्, उद्द्योते च।]]
23 [[६। ‘खनो घ च’ (३-३-१२५) इत्यत्र चकाराद् धात्वन्तरेभ्योऽपि घप्रत्ययो भवतीत्यतो- ऽत्र घप्रत्यये, घित्त्वेन कुत्वे च रूपमेवम्। ‘हृद्भग--’ (७-३-१९) इत्यत्र ‘भग--’ इति निर्देश एवात्र निदानम्।]]
24 [[७। भजनम् = भक्तिः। भावे क्तिन्। दृढभक्तिरित्यत्र दृढा भक्तिरस्येति विग्रहे ‘स्त्रियाः पुंवत्--’ (६-३-३४) इति पूर्वपदस्य पुंवद्भावे रूपमेवम्। प्रियादिषु (६-३-३४) कर्मसाधनस्यैव भक्तिशब्दस्य पाठः, न तु भावसाधनस्य। अतः पुंवद्भावः कथमत्रेति न शङ्क्यम्।]]
25 [[आ। ‘दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः।’ रघुवंशे १२-१९।]]
26 [[८। ल्युटि, अनादेशे रूपमेवम्। स्त्रियां टित्त्वेन ङीपि भजनी इत्येव भवति। भजना इति टाबन्तप्रयोगो लोके दृश्यते। तस्य शास्त्रं मृग्यमेव। ण्यन्तात् स्त्र्यधिकारीये युच्प्रत्ययेऽपि भाजना इत्येव स्यात्, न तु भजना इति।]]
27 [पृष्ठम्०९३९+ २६]
1 {@“भज विश्राणने”@} 2 विश्राणनम् = दानम्।
‘सेवायां भजते भजेदिति भजेः, विश्राणने भाजयेद्…’ 3 इति देवः।
भाजकः-जिका, बिभाजयिषकः-षिका
भाजयिता-त्री, बिभाजयिषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकगर्जयतिवत् 4 ज्ञेयानि।
5 विभाज्य।
01 (११३८)
02 (१०-चुरादिः-१७३४। सक। सेट्। उभ।)
03 (श्लो। ६५)
04 (३७८)
05 [[आ। ‘आज्ञापनामिह विभाज्य नृपेण दृष्टौ…।।’ धा। का। ३। ४०।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
