| YouTube Channel

भग्नं (bhagnaM)

 
शब्दकल्पद्रुमः
Sanskrit
भग्नं, त्रि, (भन्ज् + क्तः संघाद् विश्लिष्टत्वात्तथात्वम् ।) पराजितम् इति हेमचन्द्रः
मुटितम् चूर्णितम् भाङ्गा इति भाषा ।यथा, भट्टिः ।“चिरकालोषितं जीर्णं कीटनिष्कुषितं धनुः ।किं चित्रं यदि रामेण भग्नं क्षत्त्रियकान्तिके
भग्नं,
क्ली,
(भज्यते आमर्द्द्यते विश्लेष्यते इति ।भञ्ज + क्तः ।) रोगविशेषः अथ भग्नाधिकारः ।तत्र भग्नस्य भेदमाह ।“भग्नं समासाद्द्विविधं हुताश !काण्डे सन्धावपि तत्र सन्धौ ।उत्पिष्टविश्लिष्टविवर्त्तितानितिर्य्यग्गतं क्षिप्तमधश्च षड्धा
”भग्नमत्र भावार्थे क्तप्रत्ययस्तेन भग्नं भङ्गः सचात्र विश्लेषोऽभिप्रेतः तेन भग्नमत्रास्थि-विश्लेषलक्षणम् समासात् संक्षेपात् हुताश !हे अग्निवेश ! यतश्चरकेऽग्निवेशस्य हुताशेतिनामान्तरमुक्तम् काण्डे सन्धिपर्य्यन्ते एक-खण्डे अस्थिसन्धौ द्वयोरस्थ्नोः सन्धानस्थाने ।तत्र सन्धौ उत्पिष्टादिभेदैः षट्प्रकारं भग्नंभवति स्वल्पवक्तव्यत्वेन सन्धिभग्नस्यादौ विव-रणम् उत्पिष्टेत्यादि अधः अधोभग्नम्
*
सन्धिभग्नस्य सामान्यं लिङ्गमाह ।“प्रसारणाकुञ्चनवर्त्तनोग्रा-रुक्स्पर्शविद्वेषणमेतदुक्तम् ।सामान्यतः सन्धिगतस्य लिङ्ग-मुत्पिष्टंसन्धेः श्वयथुः समन्तात्
विशेषतो रात्रिभवा रुजश्चविश्लिष्टके तौ रुजा नित्यम्
”वर्त्तनं परिवर्त्तनम्
*
उत्पिष्टस्य लिङ्गमाह ।उत्पिष्टसन्धेः उत्पिष्टः द्बाभ्यामस्थिभ्यां पिष्टःसन्धिर्यस्य तस्य समन्तात् उभयभागद्वयोः ।विश्लिष्टमाह विश्लिष्ट इत्यादि तौ उभयतःशोथौ रुजा नित्यं सदा रुजाधिका भवती-त्युत्पिष्टाद्भेदः
*
विवर्त्तिततिर्य्यग्गताक्षिप्ताधो-गतानाह ।“विवर्त्तिते पार्श्वरुजश्च तीव्रा-स्तिर्य्यग्गते तीव्ररुजो भवन्ति ।क्षिप्तेऽतिशूलं विषमञ्च सक्थ्नोःक्षिप्ते त्वधो रुक् विघटश्च सन्धेः
”विवर्त्तिते सन्धावमुक्ते अस्थिद्बयोपरिवर्त्तितेपार्श्वरुजः सन्धिस्थितास्थिखण्डद्बयपार्श्वयोरुजः तिर्य्यग्गते सन्धिगते एकस्मिन्नस्थ्निसन्धिस्थानं त्यक्त्वा तिर्य्यग्गते क्षिप्ते सक्थ्नोःऊरुसन्ध्योः एकस्मिन्नस्थ्नि परस्यास्थ्न उपरिगते ।सक्थ्नोः अतिशूलं तत्र विषमं कदाचिदधिकंकदाचिन्न्यूनम् अधःक्षिप्ते सन्धिगते एक-स्मिन्नस्थ्नि अघोगते रुक् सन्धेर्विघटः विघ-टनञ्च
*
काण्डभग्नमाह भग्नञ्च काण्डेबहुधा प्रयाति विशेषतो नामभिरेव तुल्यम् ।भग्नं काण्डे काण्डविषये बहुधा बहुभिः प्रकारैःप्रयाति अत्र बहुविधत्वं द्वादशविधत्वंबोद्धव्यम् बहुविधस्य काण्डभग्नस्य पृथक्लक्षणं नोक्तं किन्तु काण्डंनामभिरेव तुल्यत्वम् ।कर्कटकादिनामानुरूपमेव लक्षणं किन्तुनामभिरेव बोद्धव्यम्
*
तान् प्रकारा-नाह ।“काण्डे त्वतः कर्कटकाश्वकर्णौविचूर्णितं पिच्चितमस्थि छल्लितम् ।काण्डेषु भग्नं ह्यतिपातितञ्चमज्जागतं विस्फुटितञ्च वक्रम्
”छिन्नं द्बिधा द्बादशधा काण्डे अतः सन्धि-भग्नानन्तरं काण्डे काण्डभग्ने तदाह कर्कटकःअस्थिविश्लेषपूर्व्वको मध्ये प्रोन्नतः पार्श्वयोरव-नतः कर्कटतुल्यरूपत्वात् कर्कटः अश्वकर्णःअश्वकर्णवद्विपुलास्थिनिर्गमादश्वकर्णः विचू-र्णितं चूर्णितमस्थि तच्च शब्दस्पर्शाभ्यां बोद्धव्यम् ।पिच्चितमस्थि नियन्त्रितं बहुशोथम् छल्लितंविश्लिष्टं सम्यक्स्रवम् काण्डेषु भग्नं काण्ड-भग्नम् यद्यपि कर्कटकादि सर्व्वमेव काण्डभग्नंतथापि इयं काण्डभग्नसंज्ञांविशिष्टा अत्रभग्नं भङ्गः त्रुटिः तेन सर्व्वथा त्रुटितं पृथग्भूतंत्वचि स्थितं यत्र काण्डं तत्काण्डभग्नम् ।अतिपातितं अशेषेण छित्त्वा पातितमस्थि ।मज्जागतं अस्थ्यवयवोऽस्थिमध्ये प्रविश्य मज्जानंगतम् विस्फुटितं स्तोकविदीर्णं वक्रं स्थानंत्यक्त्वा कुब्जीभूतम् छिन्नं द्बिधा एकं विदीर्णंसत् लग्नं अपरं विदीर्य्य द्विधाभूतम् द्वादशधाच काण्डे काण्डे भग्नं द्वादशधेत्यन्वयः ।तच्चोक्तमेव कर्कटकादि
*
काण्डभग्नस्यसामान्यं लक्षणमाह ।“स्रस्ताङ्गता शोथरुजातिवृद्धिःसंपीड्यमाने भवतीह शब्दः ।स्पर्शासहं स्पन्दनतोदशूलंसर्व्वास्ववस्थामु शर्म्मलाभः
”भग्नस्य काण्डे खलु चिह्नमेतत्
”स्पर्शासहमिति काण्डभग्नस्य विशेषणं स्पन्दनंनाडीनां स्फुरणं शूलं शूलेनेव व्यथा रुजासामान्या पीडा सर्व्वास्ववस्थासु शयनासना-दिषु
कष्टसाध्यमाह ।“अल्पाशिनोऽनात्मवतो जन्तोर्वातात्मकस्य ।उपद्रवैर्वा जुष्टस्य भग्नं कृच्छेण सिध्यति
”अनात्मवतो रोगप्रतीकारे यत्नरहितस्य ।वातात्मकस्य वातप्रकृतेः उपद्रवैः ज्वरा-ध्मानमोहमूत्रपुरीषसङ्गादिभिः
*
असाध्य-माह ।“भिन्नं कपालं कट्यान्तु सन्धिमुक्तं तथाच्युतम् ।जघनं प्रतिपिष्टञ्च वर्जयेत्तच्चिकित्सकः
”कपालं जानुनितम्बांसगण्डतालुशङ्खवङ्क्षणशिरोऽस्थीनि कपालानि तथा च्युतं तथा क्षिप्तम् ।प्रतिपिष्टं उत्पिष्टम्
पुनरसाध्यमाह ।“असंश्लिष्टकपालञ्च ललाटे चूर्णितञ्च यत् ।भग्नं गुदे स्तने पृष्ठे शङ्खे मूर्द्धनि वर्ज्जयेत्
”असंश्लिष्टकपालमिति भग्नविशेषणम् स्तनेस्तनयोरन्तरे उरसि मूर्द्धनि चूडस्थाने
*
अपरमप्यसाध्यमाह ।“सम्यक्संहितमप्यस्थि दुर्न्यासाद्दुष्टबन्धनात् ।संक्षोभाद्वापि यद्गच्छेद्विक्रियां तच्च वर्ज्जयेत्
”सम्यक्संहितमपि सम्यग्योजितमपि अस्थिदुर्न्यासात् दुःस्थापनात् संन्यस्तमपि दुष्टबन्धनात्सुबद्धमपि संक्षोभात् अभिघातादिना सञ्चल-नात् यद्विक्रियां गच्छेत् विकृतं भवति तद्वर्ज्ज-येत्
अस्थिविशेषेण भग्नविशेषमाह ।“तरुणास्थीनि नम्यन्ते भिद्यन्ते नलकानि तु ।कपालानि विभज्यन्ते स्फुटन्ति रुचकानि
तरुणास्थीनि घ्राणकर्णाक्षिगुदेषु कोमलास्थीनिनम्यन्ते वक्रीभवन्ति तेनात्र वक्रतालक्षणंभग्नम् नलकानि नलादीनि नाडीवत् सरन्ध्रा-ण्यस्थिपर्व्वाणि भिद्यन्ते अस्थ्यन्तरानुप्रवेशाद्वि-दीर्य्यन्ते कपालानि जानुनितम्बांसगण्डतालु-शङ्खशिरोऽस्थीनि विभज्यन्ते स्फुटन्ति रुच-कानि दन्ताः स्फु टन्ति त्रुटन्ति अस्थीनितरुणानलककपालरुचकबलयभेदात् पञ्च-विधानि तत्र रुचकानि चेति चकाराद्बल-यान्यपि त्रुटन्तीति बोद्धव्यम् ।“पाण्योः पार्श्वयुगे पृष्ठे वक्षोजठरपायुषु ।पादयोरपि चास्थीनि बलयानि बभाषिरे
”अथ भग्नस्य चिकित्सा ।“भग्ने लेपाय मञ्जिष्ठामधुकञ्चाम्बुपेषितम् ।शतधौतघृतोन्मिश्रं शालिपिष्टञ्च लेपनम्
”लेपात् पिष्टिकलवणैरम्लीका फलरसाभ्यां वा ।सद्योऽभिघातजनिता रागरुजा श्वयथवः प्रशा-म्यन्ति ।“सघृतञ्चास्थिसंहारं लाक्षागोधूममर्ज्जुनम् ।सन्धिभग्नेऽस्थिसम्भग्ने पिबेत् क्षीरेण वा पुनः
”घृतेन पिबेत् क्षीरेण वेत्यर्थः अस्थिसंहारःहडसिंहार इति लोके ।“रसोनामधुलाक्षाज्यसिताकल्कं समश्नतः ।छिन्नभिन्नव्युतास्थ्नाञ्च सन्धानमचिराद्भवेत
”“लाक्षास्थिसंहृत् ककुभाश्वगन्धाचूर्णीकृता नागवला पुरश्च ।संभग्नमुक्तास्थिरुजो निहन्या-दङ्गानि कुर्य्यात् कुलिशोपमानि
”अस्थिसंहृत् हडसिंहार लाक्षादिगुग्गुजुः
“मांसं मांसरसः क्षीरं सर्पिर्यूषः कलायजः ।बृंहणञ्चान्नपानञ्च देयं भग्नाय जानता
लवणं कटुकं क्षारं मद्यं मैथुनमातपम् ।रूक्षमन्नं श्रमञ्चापि भग्नः सेवेत क्वचित्
”इति भावप्रकाशे भग्नाधिकारः
(अथास्य निदानं यथा पतनपीडनप्रहारा-क्षेपणव्यालमृगदशनप्रभृतिभिरभिघातविशेषै-रनेकविधमस्थ्नां भङ्गमुपदिशन्ति तत्तु भङ्गजात-मनुसार्य्यमाणं द्विविधमेवोत्पद्यते सन्धिमुक्तंकाण्डभग्नञ्च
इति सुश्रुते निदानस्थाने पञ्च-दशेऽध्याये
अथ भग्नचिकित्सा ।“भग्नास्थिञ्च नरं दृष्ट्वा तस्य वक्ष्यामि भेष-जम् ।मणिबन्धे कूर्परे जानौ भग्ने कटौ तथा
पृष्ठवंशे विभग्ने साध्यान्येतानि सत्तम ! ।ग्रीवादेशे चेन्द्रवस्तौ रोहिण्यां कूर्परादधः
स्कन्धकूर्परमध्ये तथा त्रिकमध्यतः ।उरसि क्रोडके चैव विभग्नं तदसाध्यकम्
विभग्नञ्च नरं दृष्ट्वा वेणुखण्डेन बन्धयेत् ।म्रक्षयेन्नवनीतेनैरण्डपत्रैश्च वेष्टयेत्
उष्णाम्भसा सेचयेच्च बस्त्रेण मृदु बन्धयेत् ।धवार्ज्जु नकदम्बानां बल्कलं काञ्जिकेन तु
पिष्ट्रा हितः प्रलेपश्च तेन सौख्यं प्रजायते ।स्वेदयेत्तानि चोष्णेन आवासं कारयेत् पुनः
एवं क्रिया समापत्तौ ततो बन्धं विमोचयेत् ।एकाहान्तरिते नापि पूर्व्ववत्तत् प्रबन्धयेत्
यावद्ग्रन्थिं बध्नाति तावन्न स्नापयेन्नरम्
इति हारीते चिकित्सितस्थाने ५६ अः
अथ पथ्यविधिः ।“शीताम्बुसेचनं पङ्कप्रदेहो बन्धनक्रिया ।शालिप्रियङ्गुगोधूमा यूषो मुद्गसतीलयोः
नवनीतं घृतं क्षीरं तैलं माषरसो मधु ।पटोलं लशुनं शिग्रु पत्तूरो बालमूलकम्
द्राक्षा धात्री वज्रवल्ली लाक्षा यच्चापि वृंहणम् ।तत्सर्व्वं भिषजा नित्यं देयं भग्नाय जानता
”अथात्रापथ्यविधिः ।“लवणं कटुकं क्षारमम्लं मैथुनमातपम् ।व्यायामञ्च सेवेत भग्नो रूक्षान्नमेव
”इत्यायुर्व्वेदपथ्यापथ्यग्रन्थस्य भग्नाधिकारे
)