भगवद्भक्त (bhagavadbhakta)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaभगवद्भक्त
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪರಮಾತ್ಮನಲ್ಲಿ ಭಕ್ತಿಯುಳ್ಳವನು/ಪರಮಾತ್ಮನ ಚರಣಾರವಿಂದಗಳ ಧ್ಯಾನ ಅರ್ಚನೆ ಪ್ರಣಾಮ ಪೂಜೆ ಇತ್ಯಾದಿಗಳಲ್ಲಿ ಆಸಕ್ತನಾದವನು
व्युत्पत्तिः - > भगवतो भक्तः
Indian Epigraphical Glossary
EnglishMahabharata
English*Bhagavadbhakta (pl. ºāḥ) (“adoring the Exalted one”). § 248 (Arjunavanavāsap.): I, 214, 7777.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritभगवद्भक्तः, (भगवतो भगवत्या वा भक्तः ।)श्रीकृष्णभक्तियुक्तः ॥
अथ भगवद्भक्तानां लक्ष-णानि । सामान्यतः लैङ्गे ।“विष्णुरेव हि यस्यैष देवता वैष्णवः स्मृतः ॥
”अत्र विशेषः ।“व्रतकर्म्मशुभज्ञानभोगजन्मादिमत्स्वपि ।शैवेष्वपि च कृष्णस्य भक्ताः सन्ति तथा तथा ॥
”तत्र व्रतिषु मध्ये भगवद्भक्तिहेतुव्रतपरता भग-वद्भक्तलक्षणम् । तथा च स्कान्दे श्रीमार्कण्डेय-भगीरथसंवादे ।“दशमीशेषसंयुक्तं दिनं वैष्णववल्लभम् ।ह्युपास्यते महीपाल ! ते वै भागवता नराः ॥
प्राणात्यये न चाश्नन्ति दिनं प्राप्यं हरेर्नराः ।कुर्व्वन्ति जागरं रात्रौ सदा भागवता हि ते ॥
उपोष्य द्वादशीं शुद्धां रात्रौ जागरणान्विताम् ।अल्पान्तु साधयेद्यस्तु स वै भागवतो नरः ॥
भक्तिर्न विच्युता येषां न च्युतानि व्रतानि च ।सुप्रियः श्रीपतिर्येषां ते स्युर्भागवता नराः ॥
”कर्म्मिषु भगवदर्पणादिना तदाज्ञाबुद्ध्या वाभक्तिहेतुसदाचारपरता तत्रैव ।“धर्म्मार्थं जीवितं येषां सन्तानार्थञ्च मैथुनम् ।पचनं विप्रमुख्यार्थं ज्ञेयास्ते वैष्णवा नराः ॥
अध्वगन्तु पथि श्रान्तं कालेऽत्र गृहमागतम् ।योऽतिथिं पूजयेद्भक्त्या वैष्णवः स न संशयः ॥
सदाचाररताः शिष्टाः सर्व्वभूतानुकम्पकाः ।शुचयस्त्यक्तरागा ये सदा भागवता हि ते ॥
”पाद्मे वैशाखमाहात्म्ये श्रीनारदाम्बरीषसं वादे ।यथा, --“जीवितं यस्य धर्म्मार्थे धर्म्मो हर्य्यर्थमेव च ।अहोरात्राणि पुण्यार्थे तं मन्ये वैष्णवं जनम् ॥
”लैङ्गे च ।“विष्णुभक्तिसमायुक्तान् श्रौतस्मार्त्तप्रवर्त्तकान् ।प्रीतो भवति यो दृष्ट्वा वैष्णवोऽसौ प्रकीर्त्तितः ॥
”गुणवत्सु भक्तिहेतुकृपालुत्वादिसद्गुणशीलतातत्रैव ।“परदुःखेनात्मदुःखं मन्यन्ते ये नृपोत्तम ! ।भगवद्धर्म्मनिरतास्ते नरा वैष्णवा नृप ! ॥
”भागवततृतीयस्कन्धे श्रीकपिलदेवहूतिसंवादे ।यथा, --“तितिक्षवः कारुणिकाः सुहृदः सर्व्वदेहिनाम् ।अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥
”पञ्चमस्कन्धे ऋषभदेवस्य पुत्त्रानुशासने । यथा, “महत्सेवां द्वारमाहुर्विमुक्ते-स्तमोद्वारं योषितां सङ्गिसङ्गम् ।महान्तस्ते समचित्ताः प्रशान्ताविमन्यवः सुहृदः साधवो ये ॥
”एकादशस्कन्धे श्रीभगवत्प्रदत्तोद्धवप्रश्नोत्तरे ।यथा, --“कृपलुरक्त्वतद्रोहस्तितिक्षुः सर्व्वदेहिनाम् ।सत्यसारोऽनवद्यात्मा समः सर्व्वोपकारकः ॥
कामाक्षुभितधीर्दान्तो मृदुः शुचिरकिञ्चनः ।अनीहो मितभुक् शान्तः स्थिरो मच्छरणोमुनिः ॥
अप्रमत्तो गभीरात्मा धृतिमान् जितषड्गुणः ।अमानी मानदः कल्यो मैत्रः कारुणिकःकविः ॥
”विष्णुपुराणे यमतद्भटसंवादे । यथा, --“न चलति निजवर्णधर्म्मतो यःसममतिरात्मसुहृद्विपक्षपक्षे ।न हरति न चलति किञ्चिदुच्चैःस्थिरमनसं तमवेहि विष्णुभक्तम् ॥
” * ॥
ज्ञानिषु भक्तिहेतुज्ञानवत्ता एकादशे । यथा, --“सर्व्वभूतेषु यः पश्येद्भगवद्भावमात्मनः ।भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥
न यस्य स्वः पर इति वित्तेष्वात्मनि वा भिदा ।सर्व्वभूतसमः शान्तः स वै भागवतोत्तमः ॥
ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मियादृशः ।भजन्त्यनन्यभावेन ते मे भक्ततमा मताः ॥
ईश्वरे त्रदधीनेषु वालिशेषु द्विषत्सु च ।प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥
अर्च्चायामेव हरये पूजां यः श्रद्धयेहते ।ग तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥
”भोगवत्सु भक्तिहेतुभोगानासक्तता हरियोगे-श्वरोचरे । यथा, --“गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न काङ्क्षति ।विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः ॥
”सज्जमविद्यादिमत्सु भक्तिहेतुनिरभिमानितातत्रैव । यथा, --“न यस्य जन्मकर्म्मभ्यां न वर्णाश्रमजातिभिः ।सज्जतेऽस्मिन्नहंभावो देहे वै स हरेः प्रियः ॥
भावाः कथञ्चिद्भक्त्यैव ज्ञानानासक्त्यमानिता ।भक्तिनिष्ठापका जातास्ततो ह्युत्तमतोदिता ॥
”निष्ठापकाः परिपाकं प्रापकाः ॥
* ॥
शैवषु श्रीशिवकृष्णाभेदकता बृहन्नारदीये ।“शिवे च परमेशाने विष्णौ च परमात्मनि ।समबुद्ध्या प्रवर्त्तन्ते ते वै भागवतोत्तमाः ॥
”इति ॥
* ॥
“अन्यच्च तेषां भगवच्छास्त्रार्थपरतादिकम् ।साक्षाद्भक्त्यात्मकं मुख्यं लक्षणं लिख्यतेऽधुना ॥
”श्रीभागवतशास्त्रपरता स्कान्दे ।“येषां भागवतं शास्त्रं सदा तिष्ठति सन्निधौ ।पूजयन्ति च ये नित्यं ते स्युर्भागवता नराः ॥
येषां भागवतं शास्त्रं जीवितादधिकं भवेत् ।महाभागवताः श्रेष्ठा विष्णुना कथिता नराः ॥
”वैष्णवसम्माननिष्ठा लैङ्गे ।“विष्णुभक्तमथायातं यो दृष्ट्वा सुमुखप्रियः ।प्रणामादि करोत्येव वासुदेवे यथा तथा ।स वै भक्त इति ज्ञेयः स पुनाति जगत्त्रयम् ॥
रूक्षाक्षरा गिरः शृण्वन् तथा भागवतेरिताः ।प्रणामपूर्व्वं क्षन्त्वा यो वदेद्वै वैष्णवो हि सः ॥
भोजनाच्छादनं सर्व्वं यथाशक्त्या ददाति यः ।विष्णुभक्तस्य सततं स वै भागवतः स्मृतः ॥
गारुडे ।“येन सर्व्वात्मना विष्णुभक्त्या भावो निवेशितः ।वैष्णवेषु कृतात्मत्वान्महाभागवतो हि सः ॥
* ॥
श्रीतुलसीसेवानिष्ठा बृहन्नारदीये श्रीभगवन्माकण्डेयसंवादे ।“तुलसीकाननं दृष्ट्वा ये नमस्कुर्व्वते नराः ।तत्काष्ठाङ्कितकर्णा ये ते वै भागवतोत्तमाः ॥
तुलसीगन्धमाघ्राय सन्तोषं कुर्व्वते तु ये ।तन्मूलमुद्धृतं यैश्च ते वै भागवतोत्तमाः ॥
” * ॥
श्रीभगवतः कथापरता बृहन्नारदीये श्रीभगवन्-मार्कण्डेयसंवादे ।“मत्कथाश्रवणे येषां वर्त्तते सात्त्विकी मतिः ।तद्वक्तरि सुभक्ताश्च ते वै भागवतोत्तमाः ॥
”स्कान्दे श्रीभगवदर्ज्जुनसंवादे ।“मत्कथां कुरुते यस्तु मत्कथाञ्च शृणोति यः ।हृष्यते मत्कथायाञ्च स वै भागवतोत्तमः ॥
”तृतीयस्कन्धे तत्रैव ।“मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च ।तपन्ति विविधास्तापा नैतान्मद्गतचेतसः ॥
” * ॥
नामपरता बृहन्नारदीये तत्रैव ।मल्मानसाश्च मद्भक्ता मद्भक्तजनलोलुपाः ।मन्नामश्रवणासक्तास्ते वै भागवतोत्तमाः ॥
येऽभिनन्दन्ति नामानि हरेः शृण्वन्ति हर्षिताः ।रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ॥
”तत्रैवान्यत्र ।“अन्येषामुदयं दृष्ट्वा येऽभिनन्दन्ति मानवाः ।हरिनामपरा ये च ते वै भागवतोत्तमाः ॥
”स्मरणपरता । तत्र स्वधर्म्मनिष्ठया रागद्वेषादि-निवृत्त्या स्मरणं श्रीविष्णुपुराणे यमतद्भटसंवादे ।“न चलति उच्चैः श्रीभगवत्पदार-विन्दे सितमनास्तमवेहि विष्णुभक्तम् ।कलिकलुषमलेन यस्य नात्माविमलमतेर्मलिनीकृतस्तमेनम् ।मनसि कृतजनार्द्दनं मनुष्यंसततमवेहि हरेरतीव भक्तम् ॥
कनकमपि रहस्यवेक्ष्य बुद्ध्यातृणमिव यः समवैति वै परस्वम् ।भवति च भगवत्यनन्यचेताःपुरुषवरं तमवेहि विष्णुभक्तम् ॥
स्फटिकगिरिशिलामलः क्व विष्णु-र्मनसि नृणां क्व च मत्सरादिदोषः ।न हि तुहिनमयूखरश्मिपुञ्जेभवति हुताशनदीप्तिजः प्रतापः ॥
विमलमतिरमत्सरः प्रशान्तः शुचि-चरितोऽखिलसत्त्वमित्रभूतः ।प्रियहितवचनोऽस्तमानमायोवसति सदा हृदि तस्य वासुदेवः ॥
वसति हृदि सनातने च तस्मिन्भवति पुमान् जगतोऽस्य सौन्यरूपः ।क्षितिरसमतिरम्यमात्मनोऽन्तःकथयति चारुतयैव शालपोतः ॥
अन्यविजयेन वैराग्यादिना च स्मरणं श्रीहरि-योगेश्वरोत्तरे ।देहेन्द्रियप्राणमनोधियां योजन्माप्ययक्षुद्भयतर्षकृच्छ्रैः ।संसारधर्म्मैरविमुह्यमानःस्मृत्या हरेर्भागवतप्रधानः ॥
त्रिभुवनविभवहेतवेऽप्यकुण्ठ-स्मृतिरजितात्मसुरादिभिर्विमृग्यात् ।न चलति भगवत्पदारविन्दा-ल्लवनिमिषार्द्धमपि स वैष्णवाग्र्यः ॥
भगवत उरुविक्रमाङ्घ्रिशाखा-नखमणिचन्द्रिकया निरस्ततापे ।हृदि कथमुपसीदतां पुनः सप्रभवति चन्द्रे इवोदितेऽर्कतापः ॥
”पूजापरता स्कान्दे तत्रैव ।“येऽर्च्चयन्ति सदा विष्णुं यज्ञेशं वरदं हरिम् ।देहिनः पुण्यकर्म्माणः सदा भागवता हि ते ॥
”लैङ्गे ।“विष्णुक्षेत्रे शुभान्येव करोति स्नेहसंयुतः ।प्रतिमाञ्च हरेर्नित्यं पूजयेत् प्रयतात्मवान् ॥
विष्णुभक्तः स विज्ञेयः कर्म्मणा मनसा गिरा ।नारायणपरो नित्यं भूप ! भागवतो हि सः ॥
”वैष्णवधर्म्मनिष्ठतादि पाद्मोत्तरखण्डे ।“तापादिपञ्चसंस्कारी नवेज्याकर्म्मकारकः ।अर्थपञ्चकविद्विप्रो महाभागवतो हि सः ॥
”तापः तप्तमुद्राधारणं तदादिपच्चसंस्कारयुक्तः ।पञ्चसंस्काराश्च तत्रैवक्ताः ।“तापः पुण्डस्तथा नाम मन्त्रो यागस्तु पश्चमः ॥
” इति ॥
अस्यार्थः । नाम श्रीकृष्णदासेत्यादि । मन्त्रःश्रीगुरोः सकाशात् मन्त्रग्रहणम् । यागः होम-पूर्व्वकय थाविधिदीक्षाग्रहणमित्यर्थः । नव इज्या-कर्म्माणि पूजासम्बन्धिकृत्यानि श्रवणादीनिपाद्मोक्तार्च्चनादीनि वा सर्व्वेषां तेषां पूजाङ्ग-त्वात् । तानि च तत्रैवोक्तानि । यथा, --“अर्च्चनं मन्त्रपठनं यागयोगौ महात्मनः ।नामसङ्कीर्त्तनं सेवा तच्चिह्रैरङ्कनं तथा ।तदीयाराधनं चर्य्या नवधा भिद्यते शुभे ! ॥
”अर्थपञ्चकं चत्वारो चत्वारो धर्म्मादयः पुरु-षार्थाः पञ्चमपुरुषार्थश्च भक्तिः । यद्वा पञ्च-तत्त्वानि अनात्मात्मपरमात्मपरमेश्वरतद्भक्तानांयाथार्थ्यानि । इति तट्टीका ॥
* ॥
एकान्तिता गारुडे ।“एकान्तेन सदा विष्णौ यस्माद्देवे परायणाः ।तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः ॥
”तद्विज्ञानेनानन्यपरता एकादशे उद्धवप्रश्नोत्तरे ।“ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मियादृशः ।भजन्त्यनन्यभावेन ते वै भागवता मताः ॥
”भागवते । ११ । ३ । ५० ।“न कामकर्म्मबीजानां यस्य चेतसि सम्भवः ।वासुदेवैकनिलयः स वै भागवतोत्तमः ॥
”सा च एकान्तिता चतुर्द्धा । तत्र धर्म्मानाद-रेण श्रीमदुद्धवप्रश्नोत्तर एव ।“अज्ञायैवं गुणान् दोषान् मयादिष्ठानपिस्वकान् ।धर्म्मान् सन्त्यज्य यः सर्व्वान् मां भजेत् स चसत्तमः ॥
गीतायाञ्च ।सर्व्वधर्म्मान् परित्यज्य मामेकं शरणं व्रज ।अहं त्वां सर्व्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥
यदा यस्यानुगृह्णाति भगवानात्मभावितः ।स जहाति मतिं लोके वेदे च परिनिष्ठताम् ॥
”अन्यसर्व्वनिरपेक्षता भागवते श्रीमद्भगवदुद्धव-संवादे ऐलोपाख्याने ।“सन्तोऽनपेक्षा मच्चित्ताः प्रशान्ताः समदर्शिनः ।निर्म्ममा निरहङ्कारा निर्द्द्वन्द्वा निष्परिग्रहाः ॥
”तत्रैव तृतीये श्रीकपिलदेवहूतिसंवादे ।“त एते साधवः साध्वि ! सर्व्वसङ्गविवर्ज्जिताः ।सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते ॥
”विघ्नाकुलत्वेऽपि मनोरतिपरता स्कान्दे ।“यस्य कृच्छ्रगतस्यापि केशवे रमते मनः ।न विच्युता च भक्तिर्वै स वै भागवतो नरः ॥
आपद्गतस्य यस्येह भक्तिरव्यभिचारिणी ।नान्यत्र रमते चित्तं स वै भागवतो नरः ॥
”प्रेमैकपरता च भागवते पञ्चमस्कन्धे श्रीऋषभ-देवस्य पुत्त्रानुशासने ।“ये वा मयीश कृतसौहृदार्थाजनेषु देहम्मरवार्त्तिकेषु ।गृहेषु जायात्मजरातिमत्सुन प्रीतियुक्ता यावदर्याश्च लोके ॥
”राति मित्रं धनं वा ।“त्रिधा प्रेमैकपरता प्रेम्नः स्यात्तारतम्यतः ।उत्तमा मध्यमा चासौ कनिष्ठा चेति भेदतः ॥
”तत्रोत्तमा यथा एकादशे हरियोगेश्वरोत्तरे ।“सर्व्वभूतेषु यः पश्येद्भगवद्भावमात्मनः ।भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥
स्वेष्टदेवस्य भावं यः सर्व्वभूतेषु पश्यति ।भावयन्ति च तान्यस्मिन्नित्यर्थः सम्मतः सताम् ॥
”तृतीये श्रीकपिलदेवहूतिसंवादे ।“मय्यनन्येन भावेन भक्तिं कुर्व्वन्ति ये दृढाम् ।मत्कृते त्यक्तकर्म्माणस्त्यक्तस्वजनबान्धवाः ॥
”एकादशे श्रीहरियोगेश्वरोत्तरे च ।“विसृजति हृदयं न यस्य साक्षा-द्धरिरवशाभिहितोऽप्यघौघनाशः ।प्रणयरसनया धृताङ्घ्रिपद्मःस भवति भागघतप्रधान उक्तः ॥
”तत्रैव मध्यममाह हरियोगेश्वरोक्तावेव ।“ईश्वरे तदधीनेषु वालिशेषु द्बिषत्सु च ।प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥
”कनिष्ठता तत्रैव ।“अर्च्चायामेव हरये पूजां यः श्रद्धयेहते ।न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥
श्रद्धया पूजनं प्रेमबोधकं भक्त इत्यपि ।प्रेम्णो हि करणात्तत्तु स्वलं भक्तानपेक्षणात् ॥
लक्षणानि च यान्यग्रे भक्तेर्लेख्यानि तान्यपि ।बन्दनादीनि विद्यन्ते येषु भागवता हि ते ॥
एतानि लक्षणानीत्थं गौणमुख्यादिभेदतः ।ऊह्यानि लक्षणान्येवं विवेच्यानि पराण्यपि ॥
ईदृग्लक्षणवन्तः स्युर्द्दुर्लभा बहवो जनाः ।दिव्या हि मणयो व्यक्तं न वर्त्तन्ते इतस्ततः ॥
”अतएवोक्तं मोक्षधर्म्मे नारदीये ।जायमानं हि पुरुषं यं पश्येत्मधुसूदनः ।सात्त्विकः स तु विज्ञेयो भवेन्मोक्षार्थनिश्चयः ॥
”इति श्रीहरिभक्तिविलासे १० विलासः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
