भगवती (bhagavatI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishभगवती [bhagavatī], 1 of Durgā.
Of Lakṣmī.
Any venerable woman.
Monier Williams Cologne
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaभगवती
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಗೌರಿ/ಪಾರ್ವತಿ/ದುರ್ಗಾದೇವಿ
निष्पत्तिः - > भग (नित्ययोगे) "मतुप्"(५-२-९४)। मस्य वः (८-२-९)। स्त्रियां "ङीप्" (४-१-६)
भगवती
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಲಕ್ಷ್ಮಿ
विस्तारः - > "भगवत्युमा भगवान् बुद्धे पूज्ये हरे हरौ"- वैज०
भगवती
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸರಸ್ವತಿ
भगवती
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಗಂಗೆ
भगवती
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪೂಜ್ಯಳು/ಆರಾಧಿಸಲು ಅರ್ಹಳು
भगवती
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅದೃಷ್ಟಶಾಲಿನಿ
Edgerton Buddhist Hybrid
EnglishIndian Epigraphical Glossary
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
GermanWordnet
Sanskrit दुर्गा, उमा, कात्यायनी, गौरी, ब्रह्माणी, काली, हैमवती, ईश्वरा, शिवा, भवानी, रुद्राणी, सर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती, मृडानी, लीलावती, चणडिका, अम्बिका, शारदा, चण्डी, चण्डा, चण्डनायिका, गिरिजा, मङ्गला, नारायणी, महामाया, वैष्णवी, महेश्वरी, कोट्टवी, षष्ठी, माधवी, नगनन्दिनी, जयन्ती, भार्गवी, रम्भा, सिंहरथा, सती, भ्रामरी, दक्षकन्या, महिषमर्दिनी, हेरम्बजननी, सावित्री, कृष्णपिङ्गला, वृषाकपायी, लम्बा, हिमशैलजा, कार्त्तिकेयप्रसूः, आद्या, नित्या, विद्या, शुभह्करी, सात्त्विकी, राजसी, तामसी, भीमा, नन्दनन्दिनी, महामायी, शूलधरा, सुनन्दा, शुम्यभघातिनी, ह्री, पर्वतराजतनया, हिमालयसुता, महेश्वरवनिता, सत्या, भगवती, ईशाना, सनातनी, महाकाली, शिवानी, हरवल्लभा, उग्रचण्डा, चामुण्डा, विधात्री, आनन्दा, महामात्रा, महामुद्रा, माकरी, भौमी, कल्याणी, कृष्णा, मानदात्री, मदालसा, मानिनी, चार्वङ्गी, वाणी, ईशा, वलेशी, भ्रमरी, भूष्या, फाल्गुनी, यती, ब्रह्ममयी, भाविनी, देवी, अचिन्ता, त्रिनेत्रा, त्रिशूला, चर्चिका, तीव्रा, नन्दिनी, नन्दा, धरित्रिणी, मातृका, चिदानन्दस्वरूपिणी, मनस्विनी, महादेवी, निद्रारूपा, भवानिका, तारा, नीलसरस्वती, कालिका, उग्रतारा, कामेश्वरी, सुन्दरी, भैरवी, राजराजेश्वरी, भुवनेशी, त्वरिता, महालक्ष्मी, राजीवलोचनी, धनदा, वागीश्वरी, त्रिपुरा, ज्वाल्मुखी, वगलामुखी, सिद्धविद्या, अन्नपूर्णा, विशालाक्षी, सुभगा, सगुणा, निर्गुणा, धवला, गीतिः, गीतवाद्यप्रिया, अट्टालवासिनी, अट्टहासिनी, घोरा, प्रेमा, वटेश्वरी, कीर्तिदा, बुद्धिदा, अवीरा, पण्डितालयवासिनी, मण्डिता, संवत्सरा, कृष्णरूपा, बलिप्रिया, तुमुला, कामिनी, कामरूपा, पुण्यदा, विष्णुचक्रधरा, पञ्चमा, वृन्दावनस्वरूपिणी, अयोध्यारुपिणी, मायावती, जीमूतवसना, जगन्नाथस्वरूपिणी, कृत्तिवसना, त्रियामा, जमलार्जुनी, यामिनी, यशोदा, यादवी, जगती, कृष्णजाया, सत्यभामा, सुभद्रिका, लक्ष्मणा, दिगम्बरी, पृथुका, तीक्ष्णा, आचारा, अक्रूरा, जाह्नवी, गण्डकी, ध्येया, जृम्भणी, मोहिनी, विकारा, अक्षरवासिनी, अंशका, पत्रिका, पवित्रिका, तुलसी, अतुला, जानकी, वन्द्या, कामना, नारसिंही, गिरीशा, साध्वी, कल्याणी, कमला, कान्ता, शान्ता, कुला, वेदमाता, कर्मदा, सन्ध्या, त्रिपुरसुन्दरी, रासेशी, दक्षयज्ञविनाशिनी, अनन्ता, धर्मेश्वरी, चक्रेश्वरी, खञ्जना, विदग्धा, कुञ्जिका, चित्रा, सुलेखा, चतुर्भुजा, राका, प्रज्ञा, ऋद्भिदा, तापिनी, तपा, सुमन्त्रा, दूती, अशनी, कराला, कालकी, कुष्माण्डी, कैटभा, कैटभी, क्षत्रिया, क्षमा, क्षेमा, चण्डालिका, जयन्ती, भेरुण्डा
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।
"नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।"
पार्वती, अम्बा, उमा, गिरिजा, गौरी, भगवती, भवानी, मङ्गला, महागौरी, महादेवी, रुद्राणी, शिवा, शैलजा, हिमालयजा, अम्बिका, अचलकन्या, अचलजा, शैलसुता, हिमजा, शैलेयी, अपर्णा, शैलकुमारी, शैलकन्या, जगद्जननी, त्रिभुवनसुन्दरी, सुनन्दा, भवभामिनी, भववामा, जगदीश्वरी, भव्या, पञ्चमुखी, पर्वतजा, वृषाकपायी, शम्भुकान्ता, नन्दा, जया, नन्दिनी, शङ्करा, शताक्षी, नित्या, मृड़ानी, हेमसुता, अद्रितनया, हैमवती, आर्या, इला, वारुणी
शिवस्य पत्नी।
"पार्वती गणेशस्य माता अस्ति।"
Sanskrit Tibetan
Tibetanskyung ka
भगवती
bcom ldan 'das ma
भगवती
bcom ldan 'das ma nor rgyun ma'i rtog pa
भगवती
bcom ldan 'das ma nor rgyun ma'i gzungs kyi rtog pa
भगवती
bcom ldan ma
भगवती
अभिधानरत्नमाला
Sanskritरुद्राणी
रुद्राणी, शर्वाणी, काली, कात्यायनी, भवानी, आर्या, अम्बिका, मृडानी, हैमवती, पार्वती, गौरी, उमा, भगवती, दुर्गा, चण्डी, दाक्षायणी, शिवा, अपर्णा, महादेवी, गिरिजा, मेनकात्मजा
रुद्राणी शर्वाणी काली कात्यायनी भवानी च ।
आर्याम्बिका मृडानी हैमवती पार्वती गौरी ॥ १५ ॥
उमा भगवती दुर्गा चण्डी दाक्षायणी शिवा ।
अपर्णा स्यान्महादेवी गिरिजा मेनकात्मजा ॥ १६ ॥
verse 1.1.1.15
page 0003
पुराणम्
Englishभगवती / BHAGAVATĪ. The words Bhagavān and bhagavatī mean paramātmā (universal self) and prakṛti (Nature and its modifications) respectively. prakṛti is also called by the name śakti. The following elucidation once given by Mahāviṣṇu about Bhagavān and bhagavatī is greatly illuminating.
Time, space, atmosphere and the universe (Brahmāṇḍam) are, just like paramātmā, eternal. This is the truth and reality. Below this eternal Gokula exists Vaikuṇṭhaloka, which also is, like the former, eternal. Just like this, prakṛti, which is a sport to brahmā and is also without beginning or end (Sanātanī) too is eternal. In the same manner as flame exists in fire inseparable from it, moonlight in moon, beauty in the lotus flower and brightness in the sun, so does nature exist in soul inseparable therefrom. In the same way as the goldsmith cannot make gold ornaments without gold and the potter cannot make pots without clay, the paramātmā will not in the least be able to function unaided by prakṛti. prakṛti (Nature, devī) is all powerful. ‘Para’ becomes powerful enough to do everything when he joins the devī.
The sound ‘Śa’ means welfare and good fortune, and the sound ‘kti’ means prowess. Hence “Śakti” means the embodiment of welfare and prowess or she, who is the giver of welfare and prowess. bhagavatī combines in herself knowledge, affluence, riches, fame and strength. As the paramātmā is always with and inseparable from such bhagavatī he is called Bhagavān also. When prakṛti and paramātmā remain combined it is called Parabrahma, which possesses neither form nor attributes. And, when prakṛti and puruṣa separate, of their own accord, they assume forms and attributes.
The above is Śaiva doctrine in a nut-shell. The Vaiṣṇavas do not accept this position. They ask, “How is it possible to have brightness or effulgence without there being an effulgent one?” Therefore, the Vaiṣṇavas believe in the existence, at the centre of an effulgent sphere, of a thing possessing the utmost effulgence and brightness equal to that of brahmā. This ‘thing’-deva--is very efficient and effective to remedy sorrows due to birth, death, disease etc. and to him the lifetime of brahma is just one minute only. This deva is called paramātmā, Parabrahma and kṛṣṇa by the Vaiṣṇavas. ‘Kṛṣ’ means maximum devotion (love) towards paramātmā, and ‘ṇa’ means he who becomes slave to such devotion. Hence kṛṣṇa means he who becomes a slave to the love of his devotees. There is another meaning also for the word kṛṣṇa. Kṛṣ means all and ‘ṇa’ means seed or root
and thus kṛṣṇa means he, who is the root of everything. In the very beginning there was only this kṛṣṇa
and this Lord, subject only to his own will and pleasure, divided himself into two, the left side becoming woman and the right side man. (devī bhāgavata, Navama skandha).
शब्दकल्पद्रुमः
Sanskritभगवती, (भगः ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्ययशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भगइतीङ्गना ॥
” इत्युक्तलक्षणम् षडैश्वर्य्यमस्त्य-स्येति । भग + “तदस्यास्त्यस्मिन्निति मतुप् ।”५ । २ । ९४ । इति मतुप् । मस्य वः ।“भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ।संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादयः ॥
”इति काशिकोक्तेर्नित्ययोगेऽत्र मतुप्प्रत्ययः ।ततः स्त्रियां ङीप् ।) पूज्या । गौरी । इतिमेदिनी । ते, २१४ ॥
(सा च प्रकृतिरूपिणीमहामाया देवी । यथा, मार्कण्डेये । ८१ । ४२ ।“ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।बलादाकृष्य मोहाय महामाया प्रयच्छति ॥
”)सरस्वती । यथाह पौराणिकाः ।“सा मां पातु सरस्वती भगवती निःशेष-जाड्यापहा ॥
”गङ्गा । यथा, शङ्कराचार्य्यकृतगङ्गास्तोत्रे ।“भगवति ! भवलीलामौलिमाले तवाम्भः-कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति ॥
”तस्याः स्वरूपं यथा, --“यथा नित्यो हि भगवान् नित्या भगवती तथा ।स्वमायया तिरोभूता तत्रेशे प्राकृते लये ॥
आब्रह्मस्तम्बपर्य्यन्तं सर्व्वं मिथ्यैव कृत्रिमम् ।दुर्गा सत्यस्वरूपा सा प्रकृतिर्भगवान् यथा ॥
सिद्ध्यैश्वर्य्यादिकं सर्व्वं यस्यामस्ति युगे युगे ।सिद्ध्यादिके भगो ज्ञेयस्तेन भगवती स्मृता ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५४ अध्यायः ॥
अपि च ।“सेव्यते या सुरैः सर्व्वैस्ताञ्चैव भजते यतः ।धातुर्भजेति सेवायां भगवत्येव सा स्मृता ॥
”इति देवीपुराणे ४५ अध्यायः ॥
तस्याः प्रतिमाविशेषस्य पूजने फलविशेषो यथा, ब्रह्मोवाच ।“शृणु तस्याः सुराध्यक्ष ! आराधनविधिंपरम् ।यथा सा तोषिता पूर्व्वं शङ्कराद्यैः फलेप्सुभिः ॥
कर्म्मयज्ञेन देवेश ! तथा त्वमपि पूजय ।शम्भुः पूजयते देवीं मन्त्रशक्तिमयीं शुभाम् ॥
अक्षमालाकरो नित्यं तेनासौ विबुधांवरः ।अहं शैलमयीं देवीं यजामि सुरसत्तम ! ॥
तेन ब्रह्मत्वमेवेदं मया प्राप्तं सुदुर्लभम् ।इन्द्रनीलमयीं देवीं विष्णुरर्च्चयते तदा ॥
विष्णुत्वं प्राप्तवांस्तेन अद्भुतैकं सनातनम् ।देवीं हेममयीं कान्तां धनदोऽर्च्चयते सदा ॥
तेनासौ धनदो देवो धनेशत्वमवाप्तवान् ।विश्वेदेवा महात्मानो रौप्यां देवीं मनोहराम् ।यजन्ति विधिवद्भक्त्या तेन विश्वत्वमाप्नुयुः ॥
वायुः पूजयते भक्त्या देवीं पित्तलसम्भवाम् ।वायुत्वं तेन तत् प्राप्तमनौपम्यं गुणावहम् ॥
वसवः कांसिकां देवीं पूजयन्ते विधानतः ।प्राप्नुवन्तो महात्मानो वसुत्वं सुमहोदयम् ॥
अश्विनौ पार्थिवां देवीं पूजयन्तौ विधानतः ।तेन तावश्विनौ देवौ दिव्यदेहं गतायुभौ ॥
स्फाटिकां शोभनां देवीं वरुणोऽर्च्चयते सदा ।वरुणत्वं हि संप्राप्तं तेन ऋद्ध्या समन्वितम् ॥
देवीमन्नमयीं पुण्यामग्निर्यजति भावितः ।अग्नित्वं प्राप्तवांस्तेन तेजोरूपसमन्वितम् ॥
ताम्रां देवीं सदाकालं भक्त्या देवो दिवाकरः ।अर्च्चते तत्र संप्राप्तं तेन सूर्य्यत्वमुत्तमम् ॥
मुक्ताशैलमयीं देवीं सोमः पूजयते सदा ।तेन सोमोऽपि संप्राप्तः सोमत्वं सततोज्ज्वलम् ॥
प्रबालकमयीं देवीं यजन्ते पन्नगोत्तमाः ।तेन नागास्तु भोगाढ्याः प्रयान्त्येते परं पदम् ॥
कृष्णायसमयीं देवीं पूजयन्त्यसुरोत्तमाः ।राक्षसाश्च महात्मानस्तेन वेऽमितविक्रमाः ॥
त्रपुसीसमयीं देवीं पिशाचाः पूजयन्ति ताम् ।तेन ऋद्धिबलोपेताः प्रयान्ति परमं पदम् ॥
त्रैलोहिकां सदा देवीं यजन्ते गुह्यकादयः ।तेन भोगबलोपेताः प्रयान्तीश्वरमन्दिरम् ॥
वज्रलौहमयीं देवीं यजन्ते मातरः सदा ।मातृत्वं प्राप्य ताः सर्व्वाः प्रयान्ति परमं पदम् ॥
एवं देवाः सगन्धर्व्वाः पिशाचोरगराक्षसाः ।पूजयन्ते सदाकालं चर्च्चिकां सुरनायिकाम् ॥
तथा त्वमपि देवेन्द्र ! यदीच्छसि परां गतिम् ।शिवां मणिमयीं पूज्य लभसे मनसेप्सितान् ॥
कामान् सुरवराध्यक्ष ! कामिकैः पूजितैः सदा ।ददाति सर्व्वलोकानां चिन्तामणिर्यथा शिवा ॥
”इत्याद्ये देव्यवतारे द्रव्यविधिपूजामाहात्म्ये ३८अध्यायः ॥
तस्यै गृहदानस्य फलं यथा, --ईश्वर उवाच ।“देव्या गृहन्तु यः शुक्रकरार्पयति शोभनम् ।सर्व्वोपकरणैर्युक्तं सकपाटार्गलान्वितम् ॥
तस्मिन् घण्टा ध्वजं छत्रं वितानं दर्पणानि च ।दत्त्वा मुरजवंशादि नित्यं सङ्गीतकानि च ॥
देवीशास्त्रार्थवेत्तारं पूजनं भवने शुभम् ।एवं प्रवर्त्तते यस्तु तस्य पुण्यफलं शृणु ॥
दशपूर्व्वापरांस्तात ! आत्मनश्चैकविंशतिम् ।उद्धृत्य च कुलं पापाद्ब्रह्मलोके महीयते ॥
गच्छते भगवती यत्र परा परमपूजिता ।तत्र कल्पान्तरं यावद्भुक्त्वा भोगान् मनो-रमान् ॥
पुनः कालादिहायातः पृथिव्यामेकराड्भवेत् ।सभृत्यवाहनोपेतः शान्तः पुरपरिच्छदः ॥
पुनर्देव्या द्विजातीनां तद्भक्तानां प्रियो भवेत् ॥
कन्यासम्पूजको नित्यं देवीशास्त्रार्थपारगः ।लभते परसद्भावं तदन्ते शिवतां व्रजेत् ॥
देव्या गृहन्तु यः शुक्र ! सम्मार्ज्जयति नित्यशः ।स भवेद्बलवान् सौख्यसर्व्वसम्पत्तिसंयुतः ॥
तदागच्छेच्छिवालोकं सर्व्वकालफलप्रदम् ।देव्या गृहन्तु यः शुक्र ! गोमयेनानुलेपयेत् ॥
स्त्रियो वा यदि वा पुंसः षण्मासन्तु निरन्त-रम् ।स लभेदीप्सितान् कामान् देव्या लोकञ्चगच्छति ॥
”इत्याद्ये देव्यवतारे ४२ अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
