| YouTube Channel

भगदत्तः (bhagadattaH)

 
शब्दकल्पद्रुमः
Sanskrit
भगदत्तः,
पुं,
(भगमैश्वर्य्यं दत्तमस्मै इति ।) नरकराजस्यज्येष्ठपुत्त्रः तु प्राग्ज्योतिषपुराधिपः यथा, “ऋतुमत्यान्तु जायायां कालेन नरकः क्रमात् ।भगदत्तं महाशीर्षं मदवन्तं सुमालिनम्
चतुरो जनयामास पुत्त्रांस्तांश्च क्षितेः सुतः
”श्रीभगवानुवाच ।“भारावतरणे देवि ! नरकस्य वधः पुरा ।त्वयैव प्रार्थितो यस्मात् तेनासौ निहतो मया
पालयिष्पेऽस्य सन्तानं देवि ! त्वद्बचनादहम् ।प्राग्ज्योतिषेऽभिषेक्ष्यामि नप्तारं भगदत्तकम्
पृथिव्यां नारदेनैव सहितः केशवस्तदा ।भगदत्तं भौमसुतं प्राग्ज्योतिषपुरोत्तमे ।अभिषिच्य तदा भूपं पुरमन्ये न्यवेशयत्
”इति कालिकापुराण ३९ अध्यायः
(यथा महाभारते २६
“स तानपि महेष्वासान् विजिग्ये भरतर्षभ ! ।तैरेव सहितैः सर्व्वेः प्राग्ज्योतिषमुपाद्रवत्
”तत्र राजामहानासीद्भगदत्तो विशाम्पते ! ।तनासीत् सुमहद्युद्धं पाण्डुवस्य महात्मनः
”)