भगण (bhagaNa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishApte Hindi
Hindiभगणः
भः+गणः -
"तारापुंज, नक्षत्रपुंज"
भगणः
भः+गणः -
राशि चक्र
भगणः
भः+गणः -
ग्रहों का राशिचक्र में भ्रमण
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaभगण
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ರಾಶಿಗಳ ಸಮೂಹ
भगण
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ನಕ್ಷತ್ರಗಳ ಸಮೂಹ
व्युत्पत्तिः - > भानां नक्षत्राणां गणः समूहः
L R Vaidya
Englishभूतसङ्ख्या
Sanskrit१२, अर्क, आदित्य, इन, उष्णांशु, गण, चक्र, तपन, तरणि, तिग्मांशु, तीक्ष्णांशु, दिनकर, दिननाथ, दिनप, दिनमणि, दिनेश, दिवाकर, द्युमणि, नर, नृ, ना, पतङ्ग, पूषन्, प्रद्योतन, भगण, भानु, भानुमत्, भास्कर, मण्डल, मार्तण्ड, मास, मित्र, मिहिर, रवि, राशि, विवस्वत्, व्यय, शङ्कु, सवितृ, सूर्य, हंस
शब्दकल्पद्रुमः
Sanskritभगणः, (भानां नक्षत्राणां गणः समूहः ।)नक्षत्रसमूहः । शीघ्रगामिनां ग्रहाणामल्पेनकालेन मन्दगामिनां ग्रहाणां महता कालेनपूर्व्वगत्या पातानां पश्चिमगत्या परिवर्त्तनेनाश्वि-न्यादिरेवत्यन्तनक्षत्रभोगकालः । षष्टिविकलाभिःकला षष्टिकलाभिर्भागस्त्रिंशभागैराशिर्द्वादश-राशिभिर्भगणः । यथा, --“शीव्रगस्तान्यथाल्पेन कालेन महताल्पगः ।तेषान्तु परिवर्त्तेन पौष्णान्ते भगणः स्मृतः ॥
विकलानां कलाषष्ट्या तत्षष्ट्या भाग उच्यते ।तत्त्रिंशता भवेद्राशिर्भगणो द्बादशैव ते ॥
युगे सूर्य्यज्ञशुक्राणां खचतुष्करदार्णवाः४३२०००० ।कुजार्किगुरुशीघ्राणां भगणाः पूर्व्वयायिनाम् ॥
इन्दो रसाग्नित्रित्रीषुसप्तभूधरमागणाः५७७५३३३६ ।दस्रत्र्यष्टरसाङ्काक्षिलोचनानि कुजस्य तु२२९६८३२ ॥
बुधशीघ्रस्य शून्यर्त्तुखाद्रित्र्यङ्कनगेन्दवः१७९३७०६० ।बृहस्पतेः खदस्राक्षिवेदषड्वह्रयस्तथा३६४२२० ॥
सितशीघ्रस्य षट्सप्तत्रियमाश्विखभूधराः७०२२३७६ ।शनेर्भुजङ्गषट्पञ्चरसवेदनिशाकराः १४६५६८ ॥
चन्द्रोच्चस्याग्निशून्याश्विवसुसर्पार्णवा४८८२०३ युगे ।वामं पातस्य सर्पाग्नियमाश्विशिखिदस्रकाः२३२२३८ ॥
इति सूर्य्यसिद्धान्तः ॥
* ॥
अपि च । ग्रहाणां मन्दोच्चानां चलोच्चानांग्रहपातानाञ्च भगणान् श्लोकषट्केनाह ।अर्कशुक्रबुधपर्य्यया विधेरह्नि कोटिगुणिता रदा-ब्धयः । ४३२००००००० एत एव शनिजीव-भूभुवां कीर्त्तिताश्च गणकैश्चलोच्चजाः ॥
१ ॥
खाब्भ्रखाब्भ्रगगनामरेन्द्रियक्ष्माधराद्रिविषया५७७५३३००००० हिमद्युतेः ।युग्मयुग्मशरनागलोचनव्यालषण्णवयमाश्विनोऽसृजः २२९६८२८५२२ ॥
२ ॥
सिन्धुसिन्धुरनवाष्टगोऽङ्कषट्त्र्यङ्कसप्तशशिनो१७९३६९९८९८४ ज्ञशीघ्रजाः ।पञ्चपञ्चयुगषट्कलोचनद्ब्यब्धिषड्गुणमिता३६४२२६४५५ गुरोर्मताः ॥
३ ॥
द्विनन्दवेदाङ्कगजाग्निलोचनद्विशून्यशैलाः७०२२३८९४९२ सितशीघ्रपर्य्ययाः ।भुजङ्गनन्दद्विनगाङ्गबाणषट्कृतेन्दवःसूर्य्यसुतस्य पर्य्ययाः १४६५६७२९८ ॥
४ ॥
खाष्टाब्धयो ४८० ऽष्टाक्षगजेषुदिग्वियद्द्विपाब्धयो४८०१०५८५८ द्व्यङ्कयमा २९२ रदाग्नयः ३३२ ।शरेष्विभा ८५५ स्त्र्यक्षरसाः ६५३ कुषागराः ४१स्युः पूर्व्वगत्या तरणेर्मृदुच्चजाः ॥
५ ॥
गजार्ष्टिभर्गत्रिरदाश्विनः २३२३१११६८ कुभृद्र-साश्विनः २६७ कुद्बिशराः ५२१ क्रमर्त्तवः ६३ ।त्रिनन्दनागा ८९३ युगकुञ्जरेषवो ५८४निशाकराद्व्यस्तगपातपर्य्ययाः ॥
६ ॥
”इति सिद्धान्तशिरोमणिः ॥
* ॥
ग्रहाणां पूर्व्वगमनेन कल्पे एते पर्य्ययाः । तथामन्दोच्चानाञ्च प्राग्गत्या एतावन्तः । पातानांपश्चिमगत्या एतावन्तो भवन्ति । अत्रोपपत्तिःसा तु तद्भाषाकुशलेन तत्क्षेत्रसंस्थानज्ञेन शुत-गोलेनैव श्रोतुं शक्यते नान्येन । ग्रहमन्दशीघ्र-पाताः स्वस्वमार्गेषु गच्छन्त एतावतः पर्य्ययान्कल्पे कुर्व्वन्तीत्यत्रागम एव प्रमाणम् । इतितट्टीका ॥
वाचस्पत्यम्
Sanskritभगण ६ त० । १ द्वादशराशीनां समूहे २ तद्भोगकाले च ।यथोक्तं सू० सि० “पश्चाद्व्रजन्तोऽतिजवान्नक्षत्रैः सततंग्रहाः । जीयमानास्तु लम्बन्ते तुल्यमेव स्वमार्गगाः ।प्राग्गतित्वमतस्तेषां भगणैः प्रत्यहं गतिः । परिणाहवशाद्भिन्ना तद्वशाद्भानि भुञ्जते । शीघ्रगस्तान्यथाल्पेनकालेन महताल्पगः । तेषां तु परिवर्त्तेन पौष्णान्ते भगणःस्मृतः । विकलानां कला षष्ठ्या तत् षष्ठ्या भाग उच्यते ।तत्त्रिंशता भवेद्राशिर्भगणो द्वादशैव ते” सू० सि० ।“शीघ्रगतिर्ग्रहस्तानि भान्यल्पेन कालेन भुनक्त्यल्पगति-र्ग्रहो बहुकालेन भुनक्ति, तुल्यराश्यादिभोगो मन्दशीघ्र-गतिग्रहयोस्तुल्यकालेन न भवतीति विशेषार्थः । तेषांराशीनां परिवर्त्तेन भ्रमणेन । तुकाराद् ग्रहादिगति-भोगजनितेन भगणः प्राज्ञैरुक्तः । क्रान्तिवृत्ते द्वादश-राशीनां सत्त्वात् तद्भोगेन चक्रभोगसमाप्तेर्यत् स्थान-मारभ्य चलितो ग्रहः पुनस्तत् स्थानमायाति स चक्र-भोगः परिवर्त्तसञ्ज्ञीऽपि द्वादशराशिभोगाद्भगणइत्यर्थः । ननु क्रान्तिवृत्ते सर्वप्रदेशेभ्यः परिवर्त्तसम्भवा-दत्रकः परिबर्त्तादिभूतः प्रदेश इत्यत आह पौष्णान्तइति । सृष्ट्यादौ ब्रह्मणा क्रान्तिवृत्ते रेवतीयोगतारा-सन्नप्रदेशे सर्वग्रहाणां निवेशतित्वात् तदवधिती ग्रह-चलनाच्च पौष्णस्य रेवतीयोताराया अन्ते निकटे प्रदेशेतथा च रेवतीयोगतारासन्नाग्रिमस्थानमेवाद्यन्तावधिभूत-मिति भावः” रङ्गनाथः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
