भगं (bhagaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritभगं, (भज्यते अनेनास्मिन् वेति एतदा-श्रित्यैव कन्दर्पं सेवते इति भावः । भजसेवा-याम् + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ ।११८ । इति घः । “खनो घ च ।” ३ । ३ । १२५ ।घित्करणमन्यतोऽप्ययमिति विज्ञापनार्थम् इतिवृत्तिकृद्भट्टोजीदीक्षितः ।) स्त्रीचिह्नम् । तत्-पर्य्यायः । योनिः २ । इत्यमरः । २ । ६ । ७६ ॥
वरा-ङ्गम् ३ उपस्थः ४ स्मरमन्दिरम् ५ । इति राज-निर्घण्टः ॥
(भजन्त्यनेनेति भगो मेहनम् । भज-न्त्यस्मिन्निति भगं योनिः । अत्र भगशब्देनद्वयमपि कथ्यते । इति भावप्रकाशस्य मध्यखण्डेचतुर्थे भागे ॥
“ब्रह्मा बृहस्पतिर्विष्णुः सोमः सूर्य्यस्तथाश्विनौ ।भगोऽथ मित्रावरुणौ वीरं ददतु मे सुतम् ॥
”इति वाभटे शारीरस्थाने प्रथमेऽध्याये ॥
)रतिगृहम् ६ जन्मवर्त्म ७ अधरम् ८ अवाच्य-देशः ९ प्रकृतिः १० अपथम् ११ स्मरकूपः १२अप्रदेशः १३ प्रकूतिः १४ पुष्पी १५ संसारमार्गः१६ गुह्यम् १७ स्मरागारम् १८ स्मरध्वजम् १९रत्यङ्गम् २० रतिकुहरम् २१ कलत्रम् २२अधः २३ । इति शब्दरत्नावली ॥
तस्य लक्ष-णम् । यथा, --“विस्तीर्णञ्च गभीरञ्च द्विविधं भगलक्षणम् ।”तद्गुणा यथा, --“कूर्म्मपृष्ठं गजस्कन्धं पद्मगन्धं सुकोमलम् ।अकोमलं सुविस्तीर्णं पञ्चैते च भगोत्तमाः ॥
”तद्दोषा यथा, --“शीतलं निम्नमत्युष्णं गोजिह्वासदृशं परम् ।इत्युक्तं कामशास्त्रज्ञैर्भगदोषचतुष्टयम् ॥
विस्तीर्णे मुषलं योज्यं गभीरे वंशबीजकम् ।”इति रतिमञ्जरी ॥
तस्य शुभाशुभलक्षणम् । यथा, --“शुभः कमठपृष्ठाभो गजस्कन्धोपमो भगः ।वामोन्नतस्तु कन्याजः पुत्त्रजो दक्षिणोन्नतः ॥
आखुरोमा गूढमणिः स्वाश्लिष्टः संहतः पृथुः ।तुङ्गः कमलवर्णाभः शुभोऽश्वत्थदलाकृतिः ॥
कुरङ्गखुररूपो यश्चुल्लिकोदरसन्निभः ।रोमशो विवृतास्यश्च दृश्यनासोऽतिदुर्भगः ॥
शङ्खावर्त्तो भगो यस्याः सा गर्भमिह नेच्छति ।चिपिटः कर्पराकारः किङ्करीपददो भगः ॥
वंशवेतसपत्राभो गजरोमोच्चनासिकः ।विकटः कुटिलाकारो लम्बगल्लस्तथाशुभः ॥
”इति स्कान्दे काशीखण्डे ३७ अध्यायः ॥
श्रीः । वीर्य्यम् । इच्छा । ज्ञानम् । वैराग्यम् ।कीर्त्तिः । माहात्म्यम् । ऐश्वर्य्यम् । (यथा, भागवते । २ । ७ । ९ ।“यद्वेणमुत्पथगतं द्विजवाक्यवज्र-निष्प्लुष्टपौरुषभगं निरये पतन्तम् ॥
”“निष्प्लुष्टं दग्धं पौरुषं भगमैश्वर्य्यञ्च यस्य ।”इति तट्टीकायां स्वामी ॥
) यत्नः । धर्म्मः ।मोक्षः । इति मेदिनी । गे, १४ ॥
पुंसां गुदमुष्क-मध्यभागः । इति राजनिर्घण्टः ॥
श्रीः । यशः ।सौभाग्यम् । (यथा, भागवते । १ । १७ । १० ।“यस्य राष्ट्रे प्रजाः सर्व्वास्त्य्रस्यन्ते साध्व्य-साधुभिः ।तस्य मत्तस्य नश्यन्ति कीर्त्तिरायुर्भगो गतिः ॥
”“भगो भाग्यम् ।” इति तट्टीकायां स्वामी ॥
)कान्तिः । सूर्य्यः । शम्भुविशेषः । चन्द्रः । इत्य-नेकार्थध्वनिमञ्जरी ॥
पूर्व्वफल्गुनीनक्षत्रम् ।यथा, ज्योतिस्तत्त्वे ।“अक्षतामाषयुक्ताश्च भगे सर्पिस्तदुत्तरे ॥
”
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
