| YouTube Channel

भक्ष्याभक्ष्य (bhakSyAbhakSya)

 
Capeller Eng
English
भक्ष्याभक्ष्य
n.
allowed and forbidden food.
Monier Williams Cologne
English
भ°क्ष्याभक्ष्य
n.
what may and may not be eaten, food allowed and prohibited,
Mn.
v, 26
Apte Hindi
Hindi
भक्ष्याभक्ष्यम्
नपुं*
भक्ष्य-अभक्ष्यम् -
अनुमत और निषिद्ध भोजन
शब्दकल्पद्रुमः
Sanskrit
भक्ष्याभक्ष्यं,
क्ली,
(भक्ष्यमभक्ष्यञ्च ।) खाद्याखाद्य-द्रव्यम् यथा, --“भक्ष्याभक्ष्याण्यनेकानि ब्राह्मणस्य विशेषतः ।अत्र शिष्टा यथा ब्रूयुस्तथा कार्य्यविनिर्णयः
”इत्येकादशीतत्त्वे शङ्खवचनम्
*
नारद उवाच ।“भक्ष्यं किंवाप्यभक्ष्यञ्च द्बिजानां गृहिणां प्रभो ! ।यतीनां वैष्णवानाञ्च विधवाब्रह्मचारिणाम्
किं कर्त्तव्यमकर्त्तव्यमभोग्यं भोग्यमेव ।सर्व्वं कथय सर्व्वज्ञ ! सर्व्वेश ! सर्व्वकारण !
”श्रीमहेश्वर उवाच ।“कश्चित्तपस्वी विप्रश्च निराहारी चिरं मुनिःकश्चित् समीरणाहारी फलाहारी कश्चन
अन्नाहारी यथा लोके गृही गृहिणीयुतः ।येषामिच्छा या ब्रह्मन् ! रुचीनां विविधागतिः
हविष्यान्नं ब्राह्मणानां प्रशस्तं गृहिणां सदा ।नारायणोच्छिष्टमिष्टमनिवेद्यमभक्ष्यकम्
अन्नं विष्ठा जलं मूत्रं यद्विष्णोरनिवेदनम् ।विण्मूत्रं सर्व्वपापोक्तमन्नञ्च हरिवासरे
ब्राह्मणः कामतोऽन्नञ्च यो भुङ्क्ते हरिवासरे ।त्रैलोक्यजनितं पापं सोऽपि भुङ्क्ते संशयः
भोक्तव्यं भोक्तव्यं भोक्तव्यञ्च नारद ! ।गृहिभिर्ब्राह्मणैरन्नं संप्राप्ते हरिवासरे
गृही शैवश्च शाक्तश्च ब्राह्मणो ज्ञानदुर्बलः ।प्रयाति कालसूत्रञ्च भुक्त्वा हरिवासरे
क्रमिभिः शालमानैश्च भक्षितस्तत्र तिष्ठति ।विण्मूत्रभक्षणं कृत्वा यावदिन्द्राश्चतुर्द्दश
जन्माष्टमीदिने रामनवमीदिवसे हरेः ।शिवरात्रौ यो भुङ्क्ते सोऽपि द्बिगुणपातकी
उपवासासमर्थश्चेत् फलमूलजलं पिबेत् ।नष्टे शरीरे भवेदन्यथा चात्मघातकः
सकृद्भुङ्क्ते हविष्यान्नं विष्णोर्नैवेद्यमेव ।न भवेत् प्रत्यवायी चोपवासफलं लभेत्
एकादश्यामनाहारी गृही विप्राश्च भारत ! ।ते तिष्ठन्ति वैकुण्ठे यावद्वै ब्रह्मणो वयः
गृहिणां शैवशाक्तानामिदमुक्तञ्च नारद ! ।विशेषतो वैष्णवानां यतीनां ब्रह्मचारिणाम्
नित्यं नैवेद्यभोजी श्रीकृष्णस्य वैष्णवः ।नित्यं शतोपवासानां जीवन्मुक्तो लभेत् फलम्
वाञ्छन्ति तस्य संस्पर्शं तीर्थानि सर्व्वदेवताः ।आलापं दर्शनञ्चैव सर्व्वपापप्रणाशनम्
द्विस्विन्नमन्नं पृथुकं शुद्धं देशविशेषके ।नात्यन्तशस्तं विप्राणां भक्षणे निवेदने
अभक्ष्यञ्च यतीनाञ्च विधवाब्रह्मचारिणाम् ।ताम्बूलञ्च यथा ब्रह्मन् ! तथैते वस्तुनी ध्रुवम्
ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचारिणाम् ।तपस्विनाञ्च विप्रेन्द्र ! गोमांससदृशं ध्रुवम्
सर्व्वेषां ब्राह्मणानाञ्च अभक्ष्यं शृणु नारद ! ।यदुक्तं सामवेदे हरिणा चाह्निकक्रमे
ताम्रपात्रे पयःपानं उच्छिष्टे घृतभोजनम् ।दुग्धं लवणसार्द्धञ्च सद्यो गोमांसभक्षणम्
नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु ।ऐक्षवं ताम्रपात्रस्थं मुरातुल्यं संशयः
उत्थाय वामहस्तेन यत्तोयं पिबति द्विजः
सुरापीती विज्ञेयः सर्व्वधर्म्मबहिष्कृतः
अनिवेद्यं हरेरन्नं भक्ष्यशेषञ्च नित्यशः ।पीतशेषं जलञ्चैव गोमांससदृशं मुने !
वातिङ्गनफलञ्चैव गोमांसं कार्त्तिके स्मृतम् ।माघे मूलकञ्चैव कलम्बी शयने तथा
श्वेतवर्णञ्च तालञ्च मसूरं मत्स्य एव ।सर्व्वेषां ब्राह्मणानाञ्च त्याज्यञ्च सर्व्वदेशतः
मत्स्यांश्च कामतो भुक्त्वा चोपवासं त्र्यहं वसेत् ।प्रायश्चित्तं ततः कृत्वा शुद्धिमाप्नोति ब्राह्मणः
प्रतिपत्सु कुष्माण्डमभक्ष्यमर्थनाशनम् ।द्वितीयायाञ्च वृहतीभोजको स्मरेद्धरिम्
अभक्ष्यञ्च पटोलञ्च शत्त्रुवृद्धिकरं परम् ।तृतीयायाञ्चतुर्थ्याञ्च मूलकं धननाशकम्
कलङ्ककारणञ्चैव पञ्चम्यां विल्वभक्षणम् ।तिर्य्यग्योनिं प्रापयेत्तु षष्ठ्याञ्च निम्बभक्षणम्
रोगवृद्धिकरञ्चैव सप्तम्यां तालभक्षणम् ।नारिकेलफलं भक्ष्यमवृन्यां बुद्धिनाशनम्
तुम्बी नवम्यां गोमांसं दशम्याञ्च कलम्बिका ।एकादश्यां तथा शिम्बी द्वादश्यां पूतिका तथा
त्रयोदश्यान्तु वार्त्ताकीभक्षणं पुत्त्रनाशनम् ।चतुर्द्दश्यां माषभक्षं महापापकरं परम्
पञ्चदश्यां तथा मांसमभक्ष्यं गृहिणां मुने ! ।गृहिणां प्रोक्षितं मांसं भक्ष्यमन्यदिने दिने
मांसञ्च रक्तशाकञ्च कांस्यपात्रे भोजनम् ।निषिद्धं शयने चैव कूर्म्ममांसञ्च प्रोक्षितम्
रात्रौ दधिभक्तञ्च शयनं सन्ध्ययोर्दिने ।रजस्वलावीरान्नञ्च पुंश्चलीनामभक्ष्यकम्
शूद्राणां याजकानाञ्च शूद्रश्राद्धान्नमेव ।अभक्षाणाञ्च विप्रर्षे ! यदन्नं वृषलीपतेः
ब्रह्मन् ! वार्द्धुषिकान्नञ्च गणकानामभक्ष्यकम्
अग्रदानीद्बिजानाञ्च चिकित्साकारकस्य ।हस्ताचित्राहरौ तैलमग्राह्यञ्चाप्यभक्ष्यकम् ।मूले मृगे भाद्रपदे मांसं गोमांसतुल्यकम्
”इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे २७ अध्यायः पाद्मेस्वर्गखण्डे ३१ अध्यायश्च
नारद उवाच ।“वर्णानाञ्च चतुर्णाञ्च भक्ष्याभक्ष्यञ्च सांप्रतम् ।विपाकं कर्म्मणाञ्चैव सर्व्वेषां प्राणिनामपि
कथयस्व महाभाग ! कारणानाञ्च कारण ! ।त्वत्तोऽन्यं कञ्च पृच्छामि नितान्तं सन्त-मीश्वर !
श्रीभगवानुवाच ।भक्ष्याभक्ष्यं चतुर्णाञ्च वर्णानाञ्च यथोचितम् ।वेदोक्तं श्रूयतां तात ! सावधानं निशामय
अयःपात्रे पयःपानं गव्यं सिद्धान्नमेव ।भृष्टादिकं मधु गुडं नारिकेलोदकं तथा
फलं मूलञ्च यत्किञ्चिदभक्ष्यं मनुरब्रवीत् ।दग्धान्नं तप्तसौवीरमभक्ष्यं ब्रह्मणा मतम्
नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु ।गव्यञ्च ताम्रपात्रस्थं सर्व्वं मद्यं घृतं विना
ताम्रपात्रे पयःपानमुच्छिष्टे घृतभोजनम् ।दुग्धं सलवणञ्चैव सद्यो गोमांसभक्षणम्
अभक्ष्यं मधुमिश्रञ्च घृतं तैलं गुडं तथा ।आर्द्रकं गुडसंयुक्तमभक्ष्यं श्रुतिसम्मतम्
पीतशेषं जलञ्चैव माघे मूलकं तथा ।द्बिर्भोजनञ्च दिवसे सन्ध्ययोर्भोजनं तथा
भक्ष्यञ्च रात्रिशेषे ध्रुवं प्राज्ञः परित्यजेत् ।पानीयं पायसं चूर्णं घृतं लवणमेव
स्वस्तिकं लवणञ्चैव क्षीरं तक्रं तथा मधु ।हस्ताद्धस्तगृहीतञ्च सद्यो गोमांसभक्षणम्
कर्पूरं रौप्यपात्रस्थमभक्ष्यं श्रुतिसम्मतम् ।परिवेशनकारी चेद्भोक्तारं स्पृशते यदि
अभक्ष्यञ्च तदन्नञ्च सर्व्वेषामेव सम्मतम् ।नकुलानां गण्डकानां महिषाणाञ्च पक्षिणाम्
सर्पाणां शूकराणाञ्च गर्द्दभानां विशेषतः ।मार्जाराणां शृगालानां कुक्कुराणां ब्रजेश्वर !
व्याघ्राणामपि सिंहानां त्याज्यं मांसं नृणां सदा ।जलौकसाञ्च नक्राणां गोधिकानां तथैव
मण्डूकानां कर्क्कटीनां चञ्चुकानाञ्च निश्चितम् ।गवाञ्च चमरीणाञ्च कलौ मांसमभक्ष्यकम्
हस्तिनां घोटकानाञ्च नृणामेव रक्षसाम् ।दंशश्च मशकश्चैव मक्षिका पिपीलिका
अन्येषाञ्च निषिद्धानां लोके वेदे ब्रजेश्वर ! ।वानराणां भल्लूकानां शरभाणां तथैव
निषिद्धं मृगनाभीनां गर्द्दभानाञ्च मांसकम् ।अभक्ष्यं महिषाणाञ्च दुग्धं दधि घृतं तथा
स्वस्तिकञ्च तथा चक्रं विप्राणां नवनीतकम् ।मांसमुच्चैःश्रवसकं तस्य दुग्धादिकं तथा
वर्णानाञ्च चतर्णाञ्चाप्यभक्ष्यञ्च श्रुतौ श्रुतम् ।अभक्ष्यमार्द्रकञ्चैव सर्व्वेषाञ्च रवेर्दिने
पर्य्युषितं जलञ्चान्नं विप्राणां दुग्धमेव ।वर्णानाञ्च चतुर्णाञ्चावीरान्नस्य भक्षणम्
तदन्नञ्च सुरातुल्यं गोमांसाधिकमेव ।अवीरान्नञ्च यो भुङ्क्ते ब्राह्मणो ज्ञानदुर्ब्बलः ।पितृदेवार्च्चनं तस्य निष्फलं मनुरब्रवीत्
ब्राह्मणानां वैष्णवानामभक्ष्यं मत्स्यमेव ।इतरेषामभक्ष्यञ्च पञ्चपर्व्वसु निश्चितम्
पितृदेवावशेषे भक्ष्यं मासं दूषितम् ।पञ्चपर्व्वसु त्याज्यञ्च सर्व्वेषां मनुरब्रवीत्
असंस्कृतञ्च लवणं तैलञ्चाभक्ष्यमेव ।भक्ष्यं पवित्रं सर्व्वेषां व्यञ्जने वह्रिसंस्कृतम्
एकहस्ते घृतं तोयमभक्ष्यं सर्व्वसम्मतम् ।आविलं कृमियुक्तञ्चापरिशुद्धन्त्वनिर्म्मलम्
अभक्ष्यं ब्राह्मणानाञ्च वैष्णवानां विशेषतः ।अनिवेद्यं हरेरेव यतीनां ब्रह्मचारिणाम्
पिपीलिकामिश्रितञ्च मधु गव्यं गुडं तथा ।यत्किञ्चिद्वस्तु वा तात ! भक्ष्यञ्च श्रुतौ श्रुतम्
पक्षिभक्ष्यं कीटभक्ष्यं शुद्धं पक्वफलन्तथा ।काकभक्ष्यमभक्ष्यञ्च सर्व्वेषां द्रव्यमेव
घृतपक्वं तैलपक्वं मिष्टान्नं शूद्रसंस्कृतम् ।अभक्ष्यं ब्राह्मणानाञ्च शूद्रभृष्टं चिपीटकम्
सर्व्वेषामशुचीनाञ्च जलमन्नं परित्यजेत् ।अशौचान्तात् परदिने शुद्धमेव संशयः
विपाकः कर्म्मणामेव दुष्करः श्रुतिसम्मतम् ।भक्ष्याभक्ष्यञ्च कथितं यथाज्ञानं व्रजेश्वर !
”इति ब्रह्मवैवर्त्ते श्रीकृष्ण जन्मखण्डे ८५ अध्यायः
“भक्ष्याभक्ष्यञ्च ते शिष्य ! वेदितव्यं तदन्तरे ।करीरस्य वधः शस्तः फलान्यौदुम्बरस्य
सद्यो भक्षी भवेत्तेन अभक्ष्या पूतिवासिका ।न भक्षणीयं वाराहं मांसं मत्स्यश्च सर्व्वशः
अभक्ष्या ब्राह्मणैर्ह्येतैर्दीक्षितैर्हि संशयः
”इति वाराहे ब्राह्मणदीक्षासूत्रनामाध्यायः