| YouTube Channel

भक्षकः-क्षिका (bhakSakaH-kSikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“भक्ष अदने”@} 2 3 ‘भ्लक्ष अदने’ इत्यत्र भ्वादौ मैत्रेयादयः ‘भक्ष’ इति पठन्ति।
तदनुसारेण देवेनापि ‘शपि भक्षति भक्षते।’ 4 इत्युक्तम्।
धातुकाव्येऽपि ‘--प्रभ्लक्ष्य भक्षन्ति यदम्बु नीचाः।’ 5 इति शब्विकरणकः प्रयोगः कृतः।
परं तु ‘भक्षेरहिंसार्थस्य’ 6 इत्यत्र ‘भक्षयति पिण्डीं देवदत्तः।
भक्षयति पिण्डीं देवदत्तेन।’ इति ण्यन्ताद्धेतुमण्णिचि प्रयोज्यस्य कर्मसंज्ञाभावप्रतिपादकभाष्येण भक्षतेः शब्विकरणपाठोऽनभिसंहितः।
‘शीलि- कामिभक्ष्याचरिभ्यो णः’ 7 इत्यत्रापि बार्तिक-भाष्य-कैयटोद्द्यो- तादिषु चौरादिकस्य भक्षयतेरेव प्रत्ययविधानप्रदर्शनादपि भ्वादौ पाठोऽस्याप्रामा- णिक एवेति ज्ञेयम्।
स्पष्टमिदं माधवधातुवृत्तौ प्रकृतधातुप्रकरणे इति ज्ञेयम्।]] 8 ‘भक्षयत्यदने भक्षेः, शपि भक्षति भक्षते।’ 9 इति देवः।
भक्षकः-क्षिका, भक्षकः-क्षिका, बिभक्षिषकः-षिका, बाभक्षकः-क्षिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकतक्षतिवत् 10 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(११३५)
02
=>
(१-भ्वादिः-८९३। सक। सेट्। उभ।)
03
=>
[[[आ]
04
=>
(श्लो। १७७)
05
=>
(२-२८)
06
=>
(वा। १-४-५२)
07
=>
(वा। ३-२-१)
08
=>
[पृष्ठम्०९३६+ २५]
09
=>
(श्लो। १७७)
10
=>
(६९१)
1 {@“भक्ष अदने”@} 2 ‘भक्षयत्यदने भक्षेः, शपि भक्षति भक्षते।’ 3 इति देवः।
भक्षकः-क्षिका, बिभक्षयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकपक्षयतिवत् 4 ज्ञेयानि।
5 मांसभक्षः-मांसभक्षा, 6 भक्षयन् पिण्डीं देवदत्तेन याति।
7 इक्षुभक्षिका, 8 भक्-भग्-भक्षौ-भक्षः, भक्षणम्, इत्यादीनि रूपाण्यस्य संभवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(११३६)
02
=>
(१०-चुरादिः-१५५७। सक। सेट्। उभ।)
03
=>
(श्लो। १७७)
04
=>
(९५६)
05
=>
[[१। ‘शीलिकामिभक्ष्याचरिभ्यो णः’ (वा। ३-२-१) इति कर्मण्युपपदे णप्रत्ययः। मांसं भक्षयतीति मांसभक्षः। स्त्रियां णप्रत्ययान्तत्वेन टापि मांसभक्षा इति रूपम्। ‘स्तुतिशीला हरिकामा फलभक्षा कानने व्रताचारा’ इति प्र। सर्वस्वे।]]
06
=>
[[२। ‘निगरणचलनार्थेभ्यः--’ (१-३-८७) इति ण्यन्तादस्य नित्यं परस्मैपदमेव। अत्रास्य पुनः हेतुमण्णिचि, ‘गतिबुद्धिप्रत्यवसानार्थ--’ (१-४-५२) इति प्रयोज्यस्य कर्मत्वम्, ‘भक्षेरहिंसार्थस्य’ (वा। १-४-५२) इति वार्तिकेन निषिध्यते। हिंसायां तु ‘भक्षयति यवान् बलीवर्दान्।’ इति भाष्यम्। अत्र भक्षयतिः ‘सर्वे सचेतना भावाः’ इति न्यायेन हिंसायां वर्तते। यवानां सचेतनत्वात् हिंस्यत्वम्।]]
07
=>
[[३। ‘पर्यायार्हर्णोत्पत्तिषु--’ (३-३-१११) इत्यनेन अर्हार्थे ण्वुच् प्रत्ययः। इक्षुभक्षणमर्हति इति इक्षुभक्षिका।]]
08
=>
[[४। ण्यन्तादस्मात् क्विपि, संयोगान्तलोपे जश्त्वचर्त्वयो रूपमेवम्।]]