| YouTube Channel

भक्तिरस (bhaktirasa)

 
Monier Williams Cologne
English
भक्ति—रस
m.
a sense of devotion, feeling of loving faith,
Kathās.
शब्दकल्पद्रुमः
Sanskrit
भक्तिरसः,
पुं,
भक्तिरेव रसः यथा, --“विभावैरनुभावैश्च सात्विकैर्व्यभिचारिभिः ।स्वाद्यत्वं हृदि भक्तानामानीता श्रवणादिभिः ।एषा कृष्णरतिः स्थायीभावा भक्तिरसो भवेत्
”इति भक्तिरसामृतसिन्धुः
वाचस्पत्यम्
Sanskrit
भक्तिरस
पु०
भक्तिः ईश्वरविषया रतिरेव रसः तत्स्थायि-भावके रसभेदे “विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ।स्वाद्यत्वं हृदि भक्तानामानीता श्रवणादिभिः एषःकृष्णरतिस्थायिभावो भक्तिरसो भवेत्” इति भक्ति-रसामृतसिन्धुः मुक्ताफले तद्वीकायाञ्च भक्तेरसत्वम्व्यवस्थापितं यथा “भक्तिरसस्यैव हास्यशृङ्गारकरुणरौद्रभयानकवीभत्सशान्ताद्भुतवीररूपेणानुभवात् व्या-सादिभिः वर्णितस्य विष्णोर्विष्णु भक्तानां वा चरित्रस्यनवरसात्मकस्य श्रवणादिना जनितश्चमत्कारो हि भक्ति-रसः” मुक्ता० “भक्तिर्विहिताऽविहिता सैव परांप्रकर्षरेखामापन्नारसः यदाहुः “भावा एवातिसम्पन्नाःप्रयान्ति रसताममी” इति भक्तिरसानुभावाच्च भक्तः यथातृप्त्यनुभवात् तृप्त इत्युच्यते सचानुभवो नवधा हास्यादिभङ्गिभेदेन हास्यादय एव हि भगवति प्रयुज्यमानाः“तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेदिति” भक्ति-लक्षणाक्रान्तत्वात् भक्तिरसपदवीमासादयन्तीति भावः ।हास्यादिलक्षण तु र्वक्ष्यते ते चामी नवापि सुखः खमोहात्मकत्रैगुण्यव्यतिकरोद्भवाः तथा हि प्रथमे "योरजोमूलाः, मध्यास्तु तमोमूलाः, चरमे सत्त्वमूलः ।रतिहासादयो हि रजःप्रभृतीनां विकारा रत्युक्त-मेकादशस्य पञ्चविंशाध्याये तत्रापि प्रथमे त्रिषु-क्रमात् सत्त्वसंमिश्रं तमःमंमिश्रं सत्त्वतमःसंमिश्रंच रजोमूलम् मध्येषु रजोमिश्रं सत्त्वमिश्रं रजःसत्त्वमिश्रञ्च तमः चरमेषु तमोमिश्रं रजोमिश्रं रज-स्तमोमिश्रं सत्त्वम् हेयाभिधानक्रमेण चैष क्रमः” ।आक्षेपपूर्वकं तस्या रसरूपत्वं तत्र व्यवस्थापितं यथा“तस्माद्विभावादिरससामग्रीविरहान्न भक्ते रसत्वम् अत-एवायमन्यैः “एवं भक्तावपि वाच्यमिति” वदद्भिः स्रत्या-दिष्टः अत उत्तरं पठति व्यासादिभिरिति वर्णितस्यचरित्रस्य विष्णुभक्ताः गोप्यादयः श्रवणादिनेत्यादिशब्दा-द्दर्शर्नकीर्त्तनस्मरणाभिनयात् चमत्कारः सामाजिकानांहि यस्मादेवंसामग्रीको भक्तिरसस्तस्मादनपह्नवनीयइत्यर्थः तत्रैषा सामग्री केनाप्युपायेन मनीनिवेशःस्थायी चरित्रश्रवणादय उद्दीपनविभावा विष्णु विष्णु-भक्ताश्चालम्बनम् अनुभावास्तु स्तम्भादयो वक्ष्यमाणायथायोग्यं धृत्यादिका व्यभिचारिणश्च उपायस्तु रति-हासादिः कविभिर्वर्णितस्येत्यनेन महाकविप्रबन्धसमर्प्य-माणेष्वेव रसव्यवहारो नान्यत्रेऽत्युक्तम् एवमेवैतत्अनुकार्य्येषु हि जानकीरामभद्रादिषु रत्यादिमात्रंचमत्कारश्च यद्यपि शृङ्गारादौ क्वचिदस्ति तथापि तस्यभयानकादावनुपलम्भान्न तत्र रसव्यवहारः अतएव च“तानि चेन्नाट्यकाव्ययोः” इत्यादीनि विशेषणानि अभि-नयैरुपदर्श्यमानादपि सन्दर्मैः समर्प्यमाणो रसोऽतिस्वदतेअतएवोक्तं “कविवागभिनेयञ्च तदुपायो द्विधेष्यते ।वस्तुशक्तिमहिम्ना तु प्रथमोऽत्र विशिष्यते” इति यत्त्वभिनवगुप्तहेमचन्द्रभ्याम् “एवं भक्तावपि बाच्यम्” इत्युक्तंतदसत् रसत्वस्य दर्शितत्वात् सामग्रीसद्भावेऽपि पत्या-ख्यानमरोचकतामात्रशरणम् संगच्छमानोप्ययमसर्वविषयत्वात् रसत्वात्च्यवतामिति चोद्यं तथासति सर्वरसोच्छेदापातात् तथा हि शोत्रियजरन्मी-मांसकादयो हि नाट्यमण्डपान्तःप्रविष्टा अपि चमत्-काराभावात् कीशप्राया एव एवं प्रशान्तब्रह्मचारि-प्रभृतयः शृङ्गाररसास्वादे बालानां गाढरागाणाञ्चशान्तरसचर्वणानभिज्ञत्वम् अननुभूतशोकस्पर्शानां चकरुणरसास्वादावसरे पाषाणप्रख्यत्वम् तस्मात् सवासन-स्यैव रसचर्वणेति भक्तिरसदर्शनम्”