| YouTube Channel

भक्तियोग (bhaktiyoga)

 
शब्दसागरः
English
भक्तियोग
m.
(-गः) Devotion or worship. as shewn by implicit faith in
any divinity.
E.
भक्ति and योग devotion.
Capeller Eng
English
भक्तियोग
m.
faithful devotion.
Yates
English
भक्ति-योग (गः) 1.
m.
Devotion.
Wilson
English
भक्तियोग
m.
(-गः) Devotion or worship, as shewn by implicit faith
in any divinity.
E.
भक्ति, and योग devotion.
Monier Williams Cologne
English
भक्ति—योग
m.
devoted attachment, loving devotion,
BhP.
N.
of 1st ch. of Śiva-gītā.
Apte Hindi
Hindi
भक्तियोगः
पुं*
भक्तिः+योगः -
"सानुराग निष्ठा, श्रद्धापूर्वक उपासना"
Shabdartha Kaustubha
Kannada
भक्तियोग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪರಮಾತ್ಮನ ಸಾಕ್ಷಾತ್ಕಾರಕ್ಕಾಗಿ ಭಕ್ತಿರೂಪವಾದ ಒಂದು ಉಪಾಯ/ಆತ್ಮದರ್ಶನಕ್ಕಾಗಿ ಕೈಗೊಳ್ಳುವ ಒಂದು ಸಾಧನ. ಮೋಕ್ಷ ಹೊಂದಲು ಅವಶ್ಯವಾದ ಉಪಾಯಗಳಲ್ಲೊಂದು
व्युत्पत्तिः - > भक्तिरेव योगः
विस्तारः - > ಪರಮಾತ್ಮಸಾಕ್ಷಾತ್ಕಾರಕ್ಕೆ ಕರ್ಮ(ಯೋಗ) ಭಕ್ತಿ(ಯೋಗ) ಮತ್ತು ಜ್ಞಾನ(ಯೋಗ) ಇವು ಮೂರು ಸಾಧನಗಳು
L R Vaidya
English
Bakti-yoga {% m. %} faithful devotion, loving faith.
शब्दकल्पद्रुमः
Sanskrit
भक्तियोगः,
पुं,
(भक्तेर्योगः भक्त्या यो योग इतिवा ।) परमेश्वरे भजनसम्बन्धः यथा, --“भक्तियोगप्रकाशाय लोकस्यानुग्रहाय ।सन्न्यासाश्रममाश्रित्य कृष्णचैतन्यनामधृक्
”इति चैतन्यभागवतम्
अपि ।“वासुदेवे भगवति भक्तियोगः प्रयोजितः ।जनयत्याशु वैराग्यं ज्ञानञ्च यदहैतुकम्
”इति श्रीभागवते स्कन्धे अध्यायः
(भक्तियोग उच्यते यथा, गीतायाम् १२ ।१-२ १४-२० ।“एवं सततयुक्ता ये भक्तास्त्वां पर्य्युपासते ।ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः
श्रीभगवानुवाच ।मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।श्रद्धया परयोपेतास्ते मे युक्ततमा मताः
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।मय्यर्पितमनोबुद्धिर्यो मे भक्तः मे प्रियः
१४
यस्मान्नोद्विजते लोको लोकान्नोद्विजते यः ।हर्षामर्षभयोद्वेगैर्मुक्तो यः मे प्रियः
१५
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।सर्व्वारम्भपरित्यागी यो मे भक्तः मेप्रियः
१६
यो हृष्यति द्वेष्टि शोचति काङ्क्षति ।शुभाशुभपरित्यागी भक्तिमान् यः मेप्रियः
१७
समः शत्री मित्रे तथामानापमानयोः ।शीतोष्णसुखदुःखेषु समः सङ्गविवर्ज्जितः
१८
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियोनरः
१९
ये तु घर्म्मामृतमिदं यथोक्तं पर्य्युपासते ।श्रद्दधाना मत्परमा भक्तास्तेऽतीव मेप्रियाः
२०
वाचस्पत्यम्
Sanskrit
भक्तियोग
पु०
भक्तिरूपो योगश्चित्तैकाग्रतासाधनम् उपाय-भेदः भक्तिरूपे योगे भक्तियोगस्य ज्ञानात् श्रैष्ठ्यम्स्वल्पायाससाध्यत्वात् गीतायाम् उक्तं यथा“एवं सततयुक्ता ये भक्तास्त्वां पर्य्युपासते ये चाप्य-क्षरगव्यक्तं तेषां के योगवित्तमाः” भू० “द्वितीयप्रभृति-ष्वध्यायेषु विभूत्यन्तेषु परमात्मनो ब्रह्मणोऽक्षरस्य बि-ध्वस्तसर्वविशेषणस्योपासनमुक्तं सर्वयोगैश्वर्य्यसर्वज्ञानशक्ति-मत्सत्त्वोपाघेरीश्वरस्य तव चोपासनम् तत्र तत्रोक्तंविश्वरूपाध्याये तु समस्तजगदात्मरूपं विश्वरूपंत्वदीयं दर्शितमुपासनार्थमेव त्वया तच्च दर्शयित्वोक्त-वानसि सत्कर्मकृदित्यादिना अहमनयोरुभयोः पक्षयोर्विशिष्टतरबुभुत्सया त्वां पृच्छामीति अर्जुन उ-वाच एवमिति एवं सततयुक्ता नैरन्तर्य्येण भगवत्-कर्मादौ यथोक्तेऽर्थे समाहिताः सन्तः प्रवृत्ता इत्यर्थःये भक्ताः अनन्यशरणाः सन्तस्त्वां यथादर्शितं विश्व-रूपम्पर्य्युपासते ध्यायन्ति ये चाप्यक्षरमिति येचापि त्यक्तसर्वैषणाः सन्न्यस्तसर्वकर्माणो यथाविशै-षितं ब्रह्माक्षरं निरस्तसर्वोपाधित्वादव्यक्तमकरणगो-चरं यद्धि लोके करणगोचरन्तद्व्यक्तमुच्यते अञ्जेर्धा-तोस्तत्कर्मकत्वादिदं त्वक्षरं तद्विपरीतं शिष्टैश्चीच्य-मानैर्विशेषणैर्विशिष्टं तद्ये चापि पर्य्युपासते तेषा-मुभयेषां मध्ये के योगवित्तमाः मे अतिशयेन योगविदइत्यर्थः” भा० ।“श्रीभगवानुवाच मय्यावेश्य मनो ये मां नित्ययुक्ताउपासते श्रद्धया परयोपेतास्ते मे युक्ततसामताः” मू० “ये त्वक्षरोपासकाः सम्यग्दर्शिनोनिवृत्तैषणास्ते तावत्तिष्ठन्तु तान् प्रति यद्वक्तव्य तदु-परिष्टाद्वक्ष्यामः ये त्वितरे मयीति मयि विश्वरूपे पर-मेश्वरे आवेश्य समाधाय मनः, ये भक्ताः सन्तो मांसर्वयोगेश्वराणामधीश्वरं सर्वज्ञं विसुक्तरागादिक्लेशति-मिरदृष्टिं नित्ययुक्ता अतीतानन्तराध्यायान्तोक्तश्लोकार्थ-न्यायेन सततयुक्ताः सन्त उपासते श्रद्धया परया प्रकृ-ष्टया उपेताः मे भम मताः अभिप्रेता युक्ततमाइति नैरन्तर्य्येण हि ते मच्चित्ततयाहोरात्रमतिवाह-यन्ति अतो युक्तं तान् प्रति युक्ततमा इति वक्तुम्” भा० ।“ये त्वक्षरमनिर्देश्यमव्यक्तं पर्य्युपासते सर्वत्रगमचि-न्त्यञ्च कूटस्थमचलं ध्रुवम्” “किमितरे युक्ततमा नभवन्ति न, किन्तु तान् पति यद्वक्तव्यन्तत् शृणु ये तुअक्षरमनिर्देश्यमव्यक्तमव्यक्तत्वादशब्दगोचरमिति नि-र्देष्टुं शक्यते अतोऽनिर्देश्यमव्यक्तं केनापि प्रमा-णेन व्यज्यत इत्यव्यक्तं पर्य्युपासते परिसमन्तादुपा-सते उपासनं नाम यथाशास्त्रमुपास्यस्य विषयीकर-णेन सामीप्यमुपगम्य तैलधारावत् समानप्रत्ययप्रवाहेणदीर्घकालं यदासनन्तदुपासनमाचक्षते अक्षरस्य विशे-षणमाह सर्वत्रगं व्योमवद्व्यापि अचिन्त्यं चाव्यक्तत्वाद-चिन्त्यं यद्धि करणगोचरं तन्मनसापि चिन्त्यं तद्वि-परीतत्वादचिन्त्यमक्षरं कूटस्थं दृश्यमानगुणमन्तर्दोषंवस्तु कूटरूपं कूटसाक्ष्यमित्यादौ कूटशब्दः प्रसिद्धोलोके तथा चाविद्यानेकसंसारवीजमन्तर्दोषं मायाप-कृत्यादिशब्दवाच्यतया “मायान्तु प्रकृतिं विद्यान्मायिनन्तुमहेश्वरम्” “मम माया दुरत्यया” इत्यादौ प्रसिद्धं यत्तत्कूटं तस्मिन् कूटे स्थितं तदध्यक्षतया अथ वा राशि-रिव स्थितं कूटस्थमत एवाचलं यस्मादचलं तस्मात् ध्रुवंनित्यसित्यर्थः” भा० ।“संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ते प्राप्न वन्तिमामेव सर्वभूतहिते रताः” भू० “संनियम्येति संनि-यम्य सम्यक् नियम्य संहृत्य इन्द्रियग्रामं इन्द्रियसमुदायंसर्वत्र सर्वस्मिन् काले समबुद्धयः समा तुल्या बुद्धि-र्येषामिष्टानिष्टप्राप्तौ ते समबुद्धयः ते समबुद्धयः ते येएवंविधाः ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताःन तेषां वक्तव्यं किञ्चित् मां ते प्राप्नुवन्ति इति ज्ञा-नित्वादात्मैव मे मतमित्युक्तत्वात् हि भगवत्स्वरूपाणांसतां युक्ततमत्वमयुक्ततमत्वं वा वाच्यम्” भा० ।“क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् अव्यक्ता हिगतिर्दुःखं देहवद्भिरवाप्यते” मू० “किन्तु क्लेशोऽधिकतरोयद्यपि मत्कर्मादिपराणां क्लेशोधिकस्तथापि अधिकतर-स्त्वक्षरात्मनाम् परमार्थदर्शिनां देहाभिमानपरित्यागनि-मित्तः अव्यक्तासक्तचेतसामव्यक्ते आसक्त चित्तं येषां तेअव्यक्तासक्तचेतसाम् अव्यक्ता हि यस्मादया गतिरक्षरा-त्मिका दुःखं देहवद्भिर्देहाभिमानवद्भिरवाप्यते अतःक्लेशोऽधिकतरः” भा० “ये तु सर्वाणि कर्माणि मयिसंन्यस्य मत्परः अनन्येनैव योगेन मां ध्यायन्तउपासते” म० “अक्षरोपासकानां यद्वर्त्तनं तदुपरि-ष्टाद् वक्ष्यामः ये त्विति ये तु सर्वाणि कर्माणिमयीश्वरे सन्न्यस्य मत्परा अहं परो येषां ते मत्पराःसन्तः अनन्येनैव अविद्यमानमन्यदालम्बनं विश्वरूपंदेवमात्मानं मुक्त्वा यस्य सोऽनन्यस्तेनानन्येनैव केवलेनयोगेन समाधिना मां ध्यायन्तश्चिन्तयन्त उपासते” भा० ।“तेषामहं समुद्धर्त्ता मृत्युसंसारसागरात् भवामि नचिरात् पार्थ! मय्यावेशितचेतसाम्” “तेषां किमि-त्याह तेषामिति तेषां मदुपासनैकपराणाम् अहमीश्वरःसमुद्वर्त्ता कुत इत्याह मृत्युसंसारसागरात् मृत्युयुक्तःमसारो मृत्युसंसारः एव सागरवत् सागरो दुरु-त्तरत्वात् तस्मान्मृत्युसंसारसागरादहं तेषां समुद्धर्त्ताभवामि चिरात् किं तंर्हि क्षिप्रमेव हे पार्थ! मय्या-वेशितचेतसां मयि विश्वरूपे आवेशितं समाहितं चेतोयेषां ते मय्यावेशितचेतसस्तेषाम्” भा० ।“मय्येव मन आधत्स्व मयि बुद्धिं निवेशय निवसि-ष्यसि मय्येव अत ऊर्द्ध्वं संशयः अथ चित्तंसमाधातुं शक्नोषि मयि स्थिरम् अभ्यासयोगेनततो मामिच्छ्वाप्तुं धनञ्जय! अभ्यासेऽप्यसमर्थोऽसिमत्कर्मपरमो भव मदर्थमपि कर्माणि कुर्वन् सिद्धि-मवाप्स्यसि अथैतदप्यशक्तीऽसि कर्त्तुं मद्योगमाश्रितः ।सर्वकर्मफलत्यागं ततः कुरु यतात्मबान् श्रेयो हिज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ध्यानात् कर्म-फलत्यागस्त्यागाच्छान्तिरनन्तरम् अद्वेष्टा सर्वभूतानांमैत्रः करुण एव निर्ममो निरहङ्कारः समदुःख-सुखः क्षमी सन्तुष्टः रुततं योगी यतात्मा दृढनिश्चयः ।मय्यर्पितमनोबुद्धिर्योमद्भक्तः समे प्रियः यस्मान्नोद्विजतेलोको लोकान्नोद्विजते यः हर्षामर्षभयोद्वेगैर्मुक्तोयः मे प्रियः अनपेक्षः शुचिर्दक्ष उदासीनोगत-व्यथः सर्वारम्भपरित्यागी यो भद्भक्तः मे प्रियः ।यो हृष्यति द्वेष्टि शोचति काङ्क्षति शुभा-शुभपरित्यागी भक्तिमान् यः मे प्रियः समः शत्रौच मित्रे तथा मानापमानयोः शीतोष्णसुखदुःखेषुसमः सङ्गविवर्जितः तुल्यनिन्दास्तुतिर्भौनी सन्तुष्टीयेन केनचित् अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियोनरः ये तु धर्मामृतमिदं यथोक्तं पर्युपासते श्रद्दधानामत्परमा भक्तास्तेऽतीव मे प्रियाः” मू० गीता०१२ अ०
Capeller
German
भक्तियोग
m.
Hingebung, Vertrauen.