| YouTube Channel

भक्तं (bhaktaM)

 
शब्दकल्पद्रुमः
Sanskrit
भक्तं,
क्ली,
(भज्यते स्मेति भजसेवायां + कर्म्मणिक्तः ।) अन्नम् इत्यमरः ४८
अथ भक्तस्य नामानि साधनं गुणाश्च ।“भक्तमन्नं तथान्धश्च क्वचित् कूरञ्च कीर्त्तितम् ।ओदनोऽस्त्री स्त्रियां भिस्सा दीदिविः पुंसिभाषितः
”सुधौतांस्तण्डुलान् स्फीतांस्तोये पञ्चगुणे पचेत् ।तद्भक्तं प्रसृतञ्चोष्णं विशदं गुणवन्मतम्
भक्तं वह्निकरं पथ्यं तर्पणं रोचनं लघु ।अधौतमसृतं शीतं गुर्व्वरुच्यं कफप्रदम्
”इति भावप्रकाशः
हरये निवेदितान्नस्य नित्यं भक्षणे फलं यथा, “ये विप्रा हरये दत्त्वा नित्यमन्नञ्च भुञ्जते ।उच्छिष्टभोजनात्तेषां हरेर्दास्यं लभेन्नरः
”हरये अदत्त्वा तद्भक्षणे दोषो यथा, --“न दत्त्वा हरये भक्त्या भुञ्जते चेद्भ्रमादपि ।पुरीषसदृशं वस्तु जलं मूत्रसमं भवेत्
*
शूद्रश्चेद्धरिभक्तश्च नैवेद्यभोजनोत्सुकः ।आमान्नं हरये दत्त्वा पाकं कृत्वा खादति
”अन्नदानफलं यथा, --“अन्नञ्च सर्व्वजीविभ्यः पुण्यार्थं दातुमर्हति ।दत्त्वा विशिष्टजीविभ्यो विशिष्टं फलमाप्नुयात्
अतो दत्त्वा मानुषेभ्यो लभतेऽष्टगुणं फलम् ।ततो विशिष्टशूद्रेभ्यो दत्त्वा तद्द्विगुणं फलम्
दत्त्वान्नं घैश्यजातिभ्यस्ततश्चाष्टगुणं फलम् ।दत्त्वान्नं क्षत्त्रियेभ्योऽपि वैश्यानां द्विगुणं भवेत्
क्षत्त्रियाणां शतगुणं विप्रेभ्योऽन्नं प्रदाय ।घिप्राणाञ्च शतगुण शास्त्रज्ञे ब्राह्मणे फलम्
शास्त्रज्ञानां शतगुणं भक्ते विप्रे लभेद्ध्रुवम् ।स चान्नं हरये दत्त्वा भुङ्क्ते भक्त्या चसादरम्
विष्णवे भक्तविप्राथ दत्त्वा दातुश्च यत् फलम् ।तत् फलं लभते नूनं भक्तब्राह्मणभोजने
भक्त तुष्टे हरिस्तुष्टो हरौ तुष्टे देवताः ।भवन्ति सिक्ताः शाखाश्च यथा मूलनिषे-चनात्
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २१ अध्यायः ।तस्य एकादश्यां पापाश्रयत्वं भक्षणे दोषश्चयथा, --“एकादश्यामागतायां पावयन्त्यां जगत्त्रयम् ।स्थातव्यमन्नमाश्रित्य भवता पापपूरुष !
अन्नमाश्रित्य तिष्ठन्तं भवन्तं पापपूरुषम् ।न हनिष्यति मन्मूर्त्तिरियमेकादशी तिथिः
तस्मादन्नं भोक्तव्यं कदाचिदपि सत्तमैः ।आत्मनो हितमिच्छद्भिः संप्राप्ते हरिवासरे
संसारे यानि पापानि तान्येवैकादशीदिने ।अन्नमाश्रित्य तिष्ठन्ति पुण्डरीकेक्षणाज्ञया
कुर्व्वतां सर्व्वपापानि नरकान्निष्कृतिर्भवेत् ।न निष्कृतिर्भवेन्नणां भुञ्जतां हरिवासरे
मर्त्या भक्तानि यावन्ति भुञ्जते हरिवासरे ।प्रतिभक्ते ब्रह्महत्याकोटिजं पातकं लभेत्
सर्व्वपापाश्रयं भक्तं त्यक्तव्यं हरिवासरे ।मोहाद्ये भुञ्जते वापि ते ज्ञेयाः पापिनांवराः
”इति पाद्मे क्रियायोगसारे २१ अध्यायः
वर्जनीयान्नं यथा, --“नाद्यात् शूद्रस्य विप्रोऽन्नं मोहाद्बा यदि-वान्यतः ।स शूद्रयोनिं व्रजति यस्तु भुङ्क्ते ह्यनापदि
षण्मासान् यो द्बिजो भुङ्क्ते शूद्रस्यान्नं विग-र्हितम् ।जीवन्नेव भवेत् शूद्रो मृतः श्वा चाभिजायते
ब्राह्मणक्षत्त्रियविशां शूद्रस्य मुनीश्वराः ।यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात्
राजान्नं नर्त्तकान्नञ्च तक्षणोऽन्नञ्चक्रकारिणः ।गणान्नं गणिकान्नञ्च षण्डान्नञ्चैव वर्जयेत्
चक्रोपजीविरजकतस्करध्वजिनां तथा ।गान्धर्व्वलोहकारान्नं सूतकान्नं विवर्जयेत्
कुलालचित्रकर्म्मान्नं वार्द्धुषेः पतितस्य ।पौनर्भवच्छात्रिकयोरभिशस्तस्य चैव हि
सुवर्णकारशैलूषव्याधितस्यातुरस्य ।चिकित्सकस्य चैवान्नं पुंश्चल्या दाण्डिकस्य
स्तेननास्तिकयोरन्नं देवतानिन्दकस्य ।सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः
भार्य्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे ।उत्सृष्टस्य कदर्य्यस्य तथैवोच्छिष्टभोजनः
अपङ्क्त्यन्नञ्च संघान्नं शस्त्राजीवस्य चैव हि ।क्लीवस्यान्त्यासिनश्चान्नं मत्तोन्मत्तस्य चैव हि
भीतस्य रुदितस्यान्नं अवक्रुष्टं परिक्षतम् ।ब्रह्मद्विषः पापरुचेः श्राद्धान्नं सूतकस्य
वृथापाकस्य चैवान्नं शावान्नं श्वशुरस्य ।अप्रजानान्तु नारीणां कृतघ्नस्य तथैव हि
कन्दुकान्नं विशेषेण शस्त्रविक्रायणस्तथा ।शौण्डान्नं नालिकान्नञ्च भिषजामन्नमेव ।विद्धप्रजननस्यान्नं परिवित्त्यन्नमेव
पुनर्भुवो विशेषेण तथैव दिधिषूपतेः ।अवज्ञातञ्चावधूतं सरोषं विस्मयान्वितम् ।गुरावपि भोक्तव्यमन्नं सत्कारवर्जितम्
दुग्कुतं हि मनुष्यस्य सर्व्वमन्नेष्वनुष्ठितम् ।यो यस्यान्नेन जीवेत तस्याश्नाति किल्विषम्
”“आभीरः कुलमित्रञ्च गोपालो दासनापितौ ।एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत्
कुशीलवः कुम्भकारः क्षेत्रकर्म्मक एव ।एते शूद्रेषु भोज्यान्ना दत्त्वा स्वल्पं पणं बुधैः
”इति कौर्म्मे उपविभागे १६ अध्यायः
तस्य मुख्यत्वं पारिभाषिकत्वञ्च यथा, --“तण्डुलोऽम्ब्वग्निसंयोगाल्लवणयोगेन पिष्टकम् ।फलं त्रितयसंयोगादन्नं भवति तत्क्षणात्
”इति रामार्च्चनचन्द्रिकाधृतवचनमिति केचित्
(धनम् यथा, मनौ ११ ।“यस्य त्रैवार्षिकं भक्तं पर्य्याप्तं भृत्यवृत्तये ।अधिकं वापि विद्येत सोमं पातुमर्हति
”“भक्तं धनम् ।” इति तद्भाष्ये मेधातिथिः ।)