| YouTube Channel

ब्रूञ् (brUJ)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ब्रू
मूलधातुः:
ब्रूञ्
धात्वर्थः:
व्यक्तायां वाचि
गणः:
अदादिः
कर्मकत्वं:
द्विकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
ब्रवीति, आह, ब्रूते
धातुप्रदीपः
Sanskrit
ब्रूञ् व्यक्तायां_वाचि
- ब्रवीति ब्रूते आह ब्रूतः ब्रुवाते आहतुः ब्रुवन्ति ब्रुवते आहुः ब्रवीषि ब्रूषे आत्थ ब्रुथः। ब्रुवाथे ।आहथुः उच्यते उवाच ऊचे ऊचतुः ऊचाते ऊचुः ऊचिरे अवोचत् अवोचत अवाचि ब्रूते कथा स्वयमेव ''स्वयमवोचत कथा स्वतः (13) '' उक्तः उक्त्वा उक्तिः ।। 35 ।।
क्षीरतरङ्गिणी
Sanskrit
ब्रूञ् व्यक्तायां_वाचि
- ब्रुव ईट् (7393) ब्रवीति णिश्रन्थिग्रन्थिब्रूञात्मनेपदाकर्मकाणामुपसंख्यानम् (3189 वा0) इति कर्मकर्तरि यक्चिणौ स्तः-ब्रूते कथा स्वयमेव, अवोचत ब्रुवः पञ्चानामादित आहो ब्रुवः (3484) आह, आहुः आहिभुवोरीट् प्रतिषेधः (1156 वा0) आहस्थः (8235) आत्थ ब्रुवो वचिः (2453) वक्ता भव्यगेय (3468) इति कर्तरिप्रवचनीयश्चैत्रोऽनुवाकस्य चेलड्ब्रुव (6343) इति लिङ्गात् कः ब्राह्मणब्रुवः क्वसौ (द्र0 32107) ऊचिवान् उपेयिवाननाश्वाननूचानश्च (32109) वचिना ग्रहणात् 32
धातुवृत्तिः
Sanskrit
ब्रूञ् (अर्थः) व्यक्तायां_वाचि
अनुदात्त उभयातोभाषः ( ब्रूते ब्रूवाते ब्रुवते, ब्रूषे, ब्रुवे, ब्रुवाते ऊचे ऊचाते, ऊचिषे, ऊचिध्वे ऊचे ऊचिवहे ) "ब्रुवो वचिः'' इत्यार्द्धंधातुकविषये वच्यादेशः "वचिस्वपि'' इति सम्प्रसारणे द्विर्ववचनम् ( वक्ता वक्तासे वक्ताहे वख्यते) "पचिं वचिम्' इति व्याघ्रभूतवचनादनिट्त्वं, ( ब्रूतां, ब्रुवातां, ब्रूध्वं, ब्रुवै ब्रुवावहै अब्रूत, अब्रूथाः, अब्रुवि ब्रुवीत ब्रुवीयातां, ब्रुवीथाः ब्रुवीय, ब्रुवीवहि) आशिषि ( वक्षीष्ट वक्षीष्टाः, वक्षीय ) आर्द्धधातुकत्वाद्वच्यादेशः ( अवोचत अवोचेताम् अवोचन्त अवोचथाः अवोचे अवोचावहि ) "अस्यतिवक्ति'' इतिच्लेरङ् कर्त्तरि "वच उम्'' इत्युमागमो मित्त्वादन्त्यादचः परः, "आद्गुणः'' ( अवक्ष्यत ) सर्वेष्वेषु वचिग्रहणेष्वादेशस्यापि ग्रहणमुक्तं वृत्त्यादौ ( ब्रवीति ब्रूतः ब्रुवन्ति ब्रवीषि ब्रूथः ब्रूथ ब्रवीमि ब्रूवः, ) "ब्रुव इट्'' इति हलादौ पितीडागमः ( आह आहतुः आहुः आत्थ आहथुः ) "ब्रुवः पञ्चानामादित आहो ब्रुव'' इति ब्रुवो लटः परस्मैपदानामादितः पञ्च णलादयो हि यथासंख्यं वा भवन्ति धातोश्चाहादेशः अकार उच्चारणार्थः थल्याः "हस्थ' इति हकारस्य थकारे "खरि च'' इति चर्त्त्वम् आत्थेत्यत्र स्थानिवद्भावेन ब्रुव ईड् भवति [ आहिभुवोरिट्नप्रतिषेध ] इति प्रतिषेधात् ( उवाचऊचतुः ऊचुः, उवचिथ उवक्थ ऊच, उवाच उवच ऊचिव, ) पिति "लिट्यभ्यासस्य'' इत्यभ्यासस्यसम्प्रसारणम्, अन्यत्र तु "वचिस्वपि'' इति सम्प्रसारणं, तच्च परत्वाद् द्विर्वचनात्पूर्वमेव भवति वलादौ क्रादिनियमादिट्, थलि "उपदेशेत्वत'' इतीण्निषेधो भवति तत्रोपदेशग्रहणस्य धातूपदेशेऽत्वत इति व्याख्यानात्, अयं चादेशोत्तरकालं धातुर्नोपदेशे ( वक्ता वक्ष्यति ब्रवीतु ब्रूतात् ब्रूतां, ब्रूहि ब्रूतं, ब्रवाणि, ) हि तातङोर्ङित्त्वात् ङिच्च पिन्नभवतीपित्त्वादीण् भवति ( अब्रवीत् अब्रूताम् अब्रवीः अब्रवम् अब्रूव ब्रूयात् ब्रूयातां, ब्रूयां, ब्रूयाव) पिद्वचनेषु यासुटि ङित्त्वात्पित्त्वाभावादीडागमाभावः आशिषि ( उच्यात् उच्यास्ताम् ) इत्यादि "किदाशिषि'' इति कित्त्वात्संप्रसारणम् ( अवोचत् अवोचताम् अवोचः अवोचम्) अङ्युमागमो "वच उम्'' इति कर्मण्युच्यते (अवाचि) इत्यादि कमकर्त्तरि यक्चिणोः प्रतिषेधे णिश्रन्थिग्रन्थिब्रूञिति यक्चिणोः प्रतिषेधाच्छब्लुकौ भवतः ब्रूते कथा स्वयमेव अवोचत कथा स्वयमेवेति, ( विवक्षति विवक्षते वावच्यते ) यङ्लुक्ययं वच्यादेशः यङार्द्धधातुकस्य लुका विषयत्वापहारात् अस्य चोपपादनं चष्टौ कृतम् ( अनूचानः ) "उपेयिवाननाश्वाननूचानश्च'' इति भूते लिटः कर्त्तरि कानचि निपात्यते अनेनैव निपातनेन भूते वा लिडनुमीयते तस्य नित्यं कानजिति तिङः श्रवणप्रसङ्गः विकल्पेनानुमानच्चेणादिधातुविशेषविषयेणानेन लिटा सामान्यविषयस्य लुङो बाधः "अनद्यतने लङ्'' "परोक्षे लिट्" इत्यात्राप्यस्य योगस्यानुवर्त्तनादिणादौ भूतसामान्ये सावकाशस्यास्य लिटो भूतविशेषविषयाभ्याम् पराभ्यामपि लङ्लिङ्भ्यां बाध इति भाष्यादौ स्थितम् ( प्रवचनीयो ) ब्राह्मणः ( प्रवचनीयो ) अनुवाकः, "भव्यगेय'' इत्यादिना कर्तृकर्मणेरनीयर् गुणमुक्तवान् (गुणवचनः) "कृत्यल्युटो बहुलम्'' इति ल्युट् कर्तरि (वाच्यम् ) आर्द्धधातुक इति विषयसप्तमीत्वात्प्रागेव प्रत्ययोत्पत्तेर्वच्यादेशे हलन्तलक्षणो ण्यद् भवति "चजोः कुघिण्ण्यतोः'' इति कुत्वस्य "वचोऽशब्दसंज्ञायाम्''इति निषेधः शब्दसंज्ञायां तु कुत्वमेव (वाक्यम्) इति प्रकर्षेणोच्यतइति (प्रवाच्यो ) नाम पाठविशेषोपलक्षितो ग्रन्थविशेषः तत्र शब्दसंज्ञात्वेऽपि "यजयाचरुचप्रवचर्चश्च'' इति कुत्वं निषिध्यते, तत्र प्रवचिग्रहणं शब्दसंज्ञार्थमपरे पुनराहुः प्रपूर्वो वचिरशब्दसंज्ञायामेव वर्त्तते प्रवाच्य इति, ग्रन्थविशेषप्रतीतिस्तु प्रकरणादिनेत्यत्राप्यशब्दसंज्ञायामित्येव कुत्वनिषेधस्य सिद्धत्वात्प्रवचिग्रहणं नियमार्थम्, अशब्दसंज्ञायामिति निषेधः सोपसर्गत्वे प्रपूर्वस्यैवेति, उपसर्गान्तरयोगेऽपि वाक्यमिति कुत्वं भवतीति, एतच्च भाष्ये दूषितं, यत इदं कुत्त्वमहर्विशेष एवेष्यते, अन्यत्र त्वविवाच्यमित्येव भवितव्यमिति, अहर्विशेषश्च द्वादशाहे अभितो रात्रे मध्ये दशरात्रस्तस्य दशममहः तथा चाश्वलायनेनास्मिन्नहनि केन चित्कस्य चिद्विवाच्यमविवाक्यमित्याचक्षतइति अहर्विशेषे कुत्वं तु पृषोदरादित्वात्, न्यङ्क्वादित्वाद्वा द्रष्टव्यं, ( वाक् ) "क्विब्वचिप्रच्छि'' इत्यादिना क्वावसम्प्रसारणं दीर्घत्वं ( वाचा ) "आपं चैव हलन्तानाम्'इति टाप् वागस्यास्तीति ( वाग्मी, ) इति "वाचो ग्मिनिः'' इति ग्मिनिः पदत्वात्कुत्वे जश्त्वं, कुत्सिता वागस्यास्तीति ( वाचालो, वाचाटः ) "आलजाटचौ बहुभाषिणि'' इत्यालजाटचौ, बहुभाषिग्रहणं कुत्सितोपलक्षणार्थम् सन्दिश्यमानासन्दिश्यमानस्य वाक् वा (वाचिकम्) "वाचो व्याहूतार्थायाम्'' इति व्याहूतार्थत्वोपाधिकाद्वाचः स्वार्थे ठक्, वाचिकञ्च पूर्वमेव दूतम्प्रति स्वामिनोक्तार्थमिति व्याहूतार्थं भवति, अपर आह, लेख्यादिना ऽवधारितेऽर्थे प्रवर्त्तमाना वाग्वाचिकमिति तथा माघे "निद्धांरितेऽर्थे लेख्येन खलूक्त्वा खलु वाचिकम्' इति [स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्त ] इति वाचिकशब्दस्य नपुंसकत्वम् (वाचोयुक्तिः) "वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु'' इतिषष्ठ्या अलुक् ( ब्राह्मणिब्रूवा ) "कुत्सितानि कुत्सनैः'' इति कर्मधारयः चेलादयो वृत्तिविषये कुत्सनवचना इति प्रागेवोक्तं "घरूप'' इति ह्रस्वः अत्रैव सूत्रे ब्रुवेतिनिर्देशात्पचाद्यचि, ( विदुषिब्रुवा, विदुषीब्रुवा, श्रेयसिब्रुवा, श्रेयसीब्रुवा )"उगितश्च'' इति ह्रस्वविकल्पः अनयोः पुंवद्भावोऽपीष्यते (विद्वद्ब्रुवा श्रेयोब्रुवा) इति (उक्तवा उक्तम् पौनरुक्तम् नैरुक्तम्) "अणृगयनादिभ्यः'' इति भवव्याख्यानयोरण् पौनरुक्तमघीते वेद वा ( पौनरुक्तिकः ) "क्रतूक्थादिसूत्रान्ताठ्ठक्'' इति ठक् अयं द्विकर्मकस्तत्र प्रधाने लादय उक्ताः अप्राधान्यं विवक्षाधीनमिति माणवको धर्ममुच्यते धर्मो माणकमुच्यतइत्युभयोरपि कर्मणोः पर्यायेण लादयो भवन्ति, कृद्योगलक्षणा तु षष्ठी द्वितीयावद्युगपदुभयत्रापि भवति माणवकस्य धर्मस्य वक्तेति तत्र यस्याप्राधान्यविवक्षा तत्र पक्षे द्वितीयापीष्यते इह वक्तव्यो माणवको धर्मं देवदत्तेनेत्यादि, चैकस्मिन्कर्मणि कृत्येनाभिहिते ऽन्यस्मिन्कर्मणि कर्त्तरि "कर्तृकर्मणोः कृति'' इति षष्ठी भवति [उभयप्राप्तौ कृत्ये षष्ठ्याः प्रतिषेध] इत्यस्य नाथत्यादौ प्रागेवोपपादितत्वात् 33
कृदन्तरूपमाला
Sanskrit
1 {@“ब्रूञ् व्यक्तायां वाचि”@} 2 3 वाचकः-चिका, वाचकः-चिका, 4 विवक्षकः-क्षिका, वावचकः-चिका
वक्ता-वक्त्री, वाचयिता-त्री, विवक्षिता-त्री, वावचिता-त्री
5 ब्रुवन्-ती, वाचयन्-न्ती, विवक्षन्-न्ती
-- वक्ष्यन्-न्ती-ती, वाचयिष्यन्-न्ती-ती, विवक्षिष्यन्-न्ती-ती
-- ब्रुवाणः, वाचयमानः, विवक्षमाणः, वावच्यमानः
वक्ष्यमाणः, वाचयिष्यमाणः, विवक्षिष्यमाणः, वावचिष्यमाणः
6 सुवाक्-सुवाग्-सुवाचौ-सुवाचः
-- -- 7 उक्तम्-उक्तः-उक्तवान्, वाचितम्-तः, विवक्षितः, वावचितः-तवान्
8 9 ब्रुवः, ब्राह्मणिब्रुवा, 10 विदुषिब्रुवा-विदुषीब्रुवा, श्रेयसिब्रुवा-श्रेयसीब्रुवा, 11 विद्वद्ब्रुवा, श्रेयोब्रुवा, वाक्- 12 वाचा, 13 अनूचानः, 14 15 वाग्ग्मी, वाचालः-वाचाटः, 16 प्रवचनीयः 17, 18 गुणवचनः, वाचः विव क्षुः, वावचः
वक्तव्यम्, वाचयितव्यम्, विवक्षितव्यम्, वावचितव्यम्
प्रवचनीयम्, वाचनीयम्, विवक्षणीयम्, वावचनीयम्
19 20 वाच्यम्-वाक्यम्, 21 प्रवाच्यम्, अविवाक्यम्, वाच्यम्, वाकोवाक्यम्, विवक्ष्यम्, वावच्यम्
ईषद्वचः-दुर्वचः-सुवचः
-- -- उच्यमानः, वाच्यमानः, विवक्ष्यमाणः, वावच्यमानः
वाचः, 22 अनुवाकः-प्राड्विवाकः, वाचः, विवक्षः, वावचः
वक्तुम्, वाचयितुम्, विवक्षितुम्, वावचितुम्
उक्तिः, 23 निरुक्तम्-पुनरुक्तिः, वाचना, विवक्षा, वावचा
वचनम्, वाचनम्, विवक्षणम्, वावचनम्
उक्त्वा, वाचयित्वा, विवक्षित्वा, वावचित्वा
प्रोच्य, संवाच्य, प्रविवक्ष्य, प्रवावच्य
वाचम् २, उक्त्वा २, वाचम् २, वाचयित्वा २, विवक्षम् २, विवक्षित्वा २, वावचम्
वावचित्वा
24 25 इति ञुण्प्रत्यये ककारस्यान्तादेशे रूप- मेवम्।
कृकेण = गलेन ब्रवीतीति कृकवाकुः = कुक्कुटः।]] कृकवाकुः 26, 27 उक्थम्, 28 वक्त्रम्, 29 वचः, 30 वचक्नुः।
प्रासङ्गिक्यः
01
=>
(११३२)
02
=>
(२-अदादिः-१०४४। अक। [अनि।] सेट्। उभ।)
03
=>
[[१। आर्धधातुके विवक्षिते ‘ब्रुवो वचिः’ (२-४-५३) इति वच्यादेशे रूपमेवम्। एवमेव तृजादिषु सर्वत्र शुद्धे, ण्वुलादिषु ण्यन्ते वच्यादेशे रूपं ज्ञेयम्।]]
04
=>
[[२। सन्नन्ताण्ण्वुलि वच्यादेशे रूपम्। तत्र वच्यादेशस्य ‘पचिं वचिं--’ इत्यानिट्कारिकासु (भाष्ये-७-२-१०) वचनादनिट्त्वम्। कुत्वषत्वयोः रूपमेवम्। एवमेव सन्तन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
05
=>
[[३। शतरि, अदादित्वात् शपो लुकि, शतुः सार्वधातुकत्वेन ङित्त्वात्, ‘अचि श्नुधातु--’ (६-४-७७) इत्यादिनोवङि रूपमेवम्।]]
06
=>
[[४। ताच्छीलिके क्विपि, ‘क्विब् वचिप्रच्छि--’ (वा। ३-२-१७८) इति दीर्घोऽसंप्रसारणं भवति।]]
07
=>
[[५। निष्ठायाम्, ‘वचिस्वपियजादीनां किति’ (६-१-१५) इति वकारस्य संप्रसारणे, ‘सम्प्रसारणाच्च’ (६-१-१०८) इति पूर्वरूपे रूपमेवम्। एवमेव क्तिनि, क्त्वायां रूपनिष्पत्तिर्बोध्या।]]
08
=>
[पृष्ठम्०९३३+ २८]
09
=>
[[१। ब्रवीति इति ब्रुवः। कर्तरि पचाद्यचि रूपम्। ‘घरूपकल्पचेलट्ब्रुव--’ (६-३-४३) इति सूत्रे ‘ब्रुव’ इति निपातनात् गुणाभावे, वच्यादेशाभावे रूपम्। अनेनैव सूत्रेण भाषितपुंस्कात् परस्य ङीप्प्रत्ययान्तस्यानेकाचो ह्रस्वः। काशिकायामेव (८-१-२७) सूत्रे ‘ब्रुव इति ब्रुवः कन्, निपातनात् वच्यादेशाभावश्च।’ इत्युक्त- मप्यत्रानुसन्धेयम्।]]
10
=>
[[२। ‘उगितश्च’ (६-३-४५) इति ब्रुवशब्दे परे ह्रस्वविकल्पः।]]
11
=>
[[३। ‘पुंवद्भावोऽप्यत्र पक्षे वक्तव्यः’ (काशिका। ६-३-४५) इति वृत्तिकार- वचनादत्र पुंवद्भावे विद्वद्ब्रुवा, श्रेयोब्रुवा इति रूपे भवतः। परंतु भाष्ये नैतादृशं वचनं दृश्यते।]]
12
=>
[[४। क्विबन्तात् स्त्रियां टापि रूपमेवम्। ‘आपं चैव हलन्तानां यथा वाचा निशा दिशा।’ इति भागुरिवचनात् टाप् इति सि। कौमुदी। भाष्ये तु नैतादृशं वचनं दृश्यते।]]
13
=>
[[५। ‘उपेयिवाननाश्वाननूचानश्च’ (३-२-१०९) इत्यनेन, ‘अनु’ इत्युपसर्गपूर्वकादस्मात् लिटः कर्तरि कानचि, सम्प्रसारणे पूर्वरूपे द्वित्वे सवर्णदीर्घे ‘अनूचानः’ इति सिद्ध्यति। अनूचानः = साङ्गवेदाध्येता।]]
14
=>
[[आ। ‘इदमूचुरनूचानाः प्रीतिकण्टकितत्वचः।।’ कुमारसम्भवे ६-१५।]]
15
=>
[[६। वाक्छब्दात् ‘वाचो ग्मिनिः’ (५-२-१२४) इति मत्वर्थीये ग्मिनिप्रत्यये रूपमेवम्। प्रशस्तवाग्वति प्रत्ययोऽयम्। अत्रैव प्रकरणे ‘आलजाटचौ बहुभाषिणि’ (५-२-१२५) इति कुत्सितार्थे मत्वर्थीये आलच्-आटच्प्रत्यययोः वाचालः, वाचाटः इति रूपे इत्यपि ज्ञेयम्।]]
16
=>
[[७। ‘भव्यगेयप्रवचनीय--’ (३-४-६८) इत्यादिना कर्तरि अनीयर् प्रत्ययः। प्रवचनीयः = ब्राह्मणः। अत्र कर्मण्येव प्रत्ययो निपात्यते इति मते तु प्रवच- नीयः = अनुवाकः।]]
17
=>
(ब्राह्मणः, अनुवाको वा)
18
=>
[[८। गुणम् उक्तवान् इति गुणवचनः। ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति भूते कर्तरि ल्युट्प्रत्ययः। अत्र निदानम्, ‘गुणवचनब्राह्मणादिभ्यः--’ (५-१-१२४) इत्यत्र ‘गुणवचन--’ इति निर्देश एवेति ज्ञेयम्।]]
19
=>
[पृष्ठम्०९३४+ २८]
20
=>
[[१। ‘आर्धधातुके’ (२-४-३५) इत्यत्र विषयसप्तमीत्वाश्रयणात् प्रत्ययोत्पत्तेः प्रागेव वच्यादेशे हलन्तलक्षणे ण्यति ‘वचोऽशब्दसंज्ञायाम्’ (७-३-६७) इति कुत्व- निषेधे वाच्यम् इति रूपम्। शब्दसंज्ञायां तु कुत्वे वाक्यम् इत्येव। वाक्यम् = वार्तिकादिरूपः शाब्दिकसंज्ञासिद्धः ग्रन्थः।]]
21
=>
[[२। ‘यजयाचरुचप्रवचर्चश्च’ (७-३-६६) इत्यनेन कुत्वनिषेधे प्रवाच्यम् इति रूपम्। ‘प्रवाच्यम् = ग्रन्थविशेषः’ इति वृत्त्यादिषु प्रोक्तम्। परं तु भाष्ये (७-३-६६) प्रवचिग्रहणप्रत्याख्यानप्रकरणे ‘प्रपूर्वश्च वचिरशब्दसंज्ञायां वर्तते।’ इत्युक्तत्वात् ग्रन्थविशेषस्य प्रवाच्यमिति संज्ञेति पक्षः चिन्त्य इति उद्द्योते प्रकृतसूत्रे स्फुटम्। अविवाक्यम् इत्यत्र तु पृषोदरादित्वात् (६-३-१०९), न्यङ्क्वादित्वात् (७-३-५३) वा अहर्विशेषे कुत्वम्। द्वादशाहे दशरात्रस्य यज्ञ- विशेषस्य दशममहः अविवाक्यम्, यस्मिन्नहनि याज्ञिकाः विब्रुवते = नानावाक्यान्युच्चारयन्ति। अन्यत्र अविवाच्यम् इत्येव।]]
22
=>
[[३। शब्दसंज्ञात्वात् कुत्वमत्रेति ज्ञेयम्। अनुवाकः = श्रुतौ विभागविशेषः। पृच्छतीति प्राट्। विशेषेण सूक्ष्मेक्षिकया न्यायादिकं ब्रवीति-इति विवाकः। प्राट् चासौ विवाकश्च प्राड्विवाकः = नीतिस्थले न्यायवादी। अत्रापि ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञि कुत्वमिति ज्ञेयम्।]]
23
=>
[[४। पुनरुक्तिः, निरुक्तम् इत्यत्र ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इत्यनेन क्तिच् क्तश्च संज्ञायां भवतः। पुनरुक्तिरिति असकृदाम्नानस्य संज्ञा। एवं निरुक्त- मिति ग्रन्थविशेषस्य संज्ञा।]]
24
=>
[पृष्ठम्०९३५+ ३५]
25
=>
[[१। ‘कृके वचः कश्च’ [द। उ। १। ९१।]
26
=>
[[आ। ‘अनुनयमगृहीत्वा व्याजसुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य कल्ये।’ शि। व। ११। ९।]]
27
=>
[[२। औणादिके (द। उ। ६। ३२) थक्प्रत्यये सम्प्रसारणे रूपमेवम्। उक्थम् = सामविशेषः।]]
28
=>
[[३। ‘गुधृवीपचिवचि--’ (द। उ। ८। ८९) इत्यादिना कर्तरि त्रप्रत्यये रूपम्। ब्रवीत्य- यमिति वक्त्रम् = आस्यम्।]]
29
=>
[[४। ‘असुन्’ (द। उ। ९। ४९) इत्यनेनासुन्प्रत्यये वच्यादेशे रूपमेवम्।]]
30
=>
[[५। ‘सृ यु वचिभ्योऽन्यज् आकूज् अक्नुचः’ (द। उ। १०। ४) इत्यनेन यथासंख्य- मक्नुच्प्रत्यये रूपमेवम्। ब्रवीति इति वचक्नुः = वाग्ग्मी।]]