| YouTube Channel

ब्राह्मणब्रुवः (brAhmaNabruvaH)

 
Apte Hindi
Hindi
ब्राह्मणब्रुवः
पुं*
ब्राह्मणः-ब्रुवः -
"जो ब्राह्मण होने का बहाना करता है, नाम मात्र का ब्राह्मण जो ब्राह्मण जाति के विहित कर्तव्यों का पालन नहीं करता है"
शब्दकल्पद्रुमः
Sanskrit
ब्राह्मणब्रुवः,
पुं,
(ब्राह्मणवंशोत्पन्नतया वेदोक्त-कर्म्माकुर्व्वन्नपि आत्मानं ब्राह्मणं ब्रवीतीति ।ब्राह्मण + ब्रू + + बाहुलकात् वच्यादेशः ।)ब्राह्मणजातिमात्रोपजीवी यथा, --“विप्रः संस्कारयुक्तो नित्यं सन्ध्यादि कर्म्म यः ।नैमित्तिकन्तु नो कुर्य्यात् ब्राह्मणब्रुव उच्यते
युक्तः स्यात् सर्व्वसंस्कारैर्द्विजस्तु नियमव्रतैः ।कर्म्म किञ्चिन्न कुरुते वेदोक्तं ब्राह्मणब्रुवः
गर्भाधानादिभिर्युक्तस्तथोपनयनेन ।न कर्म्मकृन्न चाधीते ज्ञेयो ब्राह्मणब्रुवः
अध्यापयति नो शिष्यान्नाधीते वेदमुत्तमम् ।गर्भाधानादिसंस्कारैर्युतः स्याद्ब्राह्मणब्रुवः
”इति पाद्मोत्तरखण्डे १०९ अध्यायः
तस्मै दाने फलविशेषो यथा, --“सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।अधीते शतसाहस्रमनन्तं वेदपारगे
”इति मानवे ८५