| YouTube Channel

ब्राह्मणः (brAhmaNaH)

 
Hindi
Hindi
) Masc.Nom.S) ब्राह्मण
Apte Hindi
Hindi
ब्राह्मणः
पुं*
- -
हिंदू धर्म के माने हुए चार वर्णों में सर्वप्रथम वर्ण का
ब्राह्मणः
पुं*
- -
"पुरोहित, ब्रह्मज्ञानी या धर्मशास्त्री"
ब्राह्मणः
पुं*
- -
अग्नि का विशेषण
ब्राह्मणः
पुं*
- -
"वेद का वह भाग जो विविध यज्ञों के विषय में मन्त्रों के विनियोग तथा विवरणात्मक व्याख्या को तत्संबधी निदर्शनों के साथ जो उपाख्यानों के रूप में विद्यमान हैं, प्रस्तुत करता है
वेद के मन्त्रभाग से यह बिल्कुल पृथक् है"
ब्राह्मणः
पुं*
- -
वैदिक रचनाओं का समूह जिसमें ब्राह्मण भाग सम्मिलित है
ब्राह्मणः
पुं*
- ब्रह्मा+अण्
चारों वर्णो में से पहले वर्णों से संबद्ध
ब्राह्मणः
पुं*
- ब्रह्मा+अण्
ब्राह्मण
ब्राह्मणः
पुं*
- ब्रह्मा+अण्
पुरोहित
ब्राह्मणः
पुं*
- ब्रह्मा+अण्
अग्नि का विशेषण
ब्राह्मणः
पुं*
- ब्रह्मा+अण्
अट्ठाइसवाँ नक्षत्र
Wordnet
Sanskrit
Synonyms:
ब्राह्मणः, विप्रः, द्विजातिः, द्विजः, भूदेवः, अग्रजन्मा, सूत्रकण्ठः, वक्त्रजः, बाडवः, वेदवासः, गुरूः, मैत्रः
noun
यः ब्रह्मम् जानाति।
"कर्मणा ब्राह्नणो जातः करोति ब्रह्मभावनाम्।"[श.क.]"
Synonyms:
ब्राह्मणः, द्विजः, विप्रः, द्विजोत्तमः, द्विजातिः, द्विजन्मा, अग्रजन्मा, भूदेवः, अग्रजातकः, सूत्रकण्ठः, ज्येष्ठवर्णः, वक्त्रजः, मैत्रः, वेदवासः, नयः, षट्कर्मा, गुरूः, ब्रह्मा
noun
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमो वर्णः यस्य शास्त्रनिरूपितधर्माः अध्ययनं यजनं दानञ्च सन्ति।
"ब्राह्मण्यां ब्राह्मणात् जातो ब्राह्मणः संशयः। क्षत्रियायां तथैव वैश्यायाम् अपि चैव हि।"
Synonyms:
ब्राह्मणः, द्विजः, विप्रः, द्विजोत्तमः, द्विजातिः, द्विजन्मा, अग्रजन्मा, भूदेवः, अग्रजातकः, सूत्रकण्ठः, ज्येष्ठवर्णः, वक्त्रजः, मैत्रः, वेदवासः, नयः, षट्कर्मा, गुरूः, ब्रह्मा
noun
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमस्य ब्राह्मणवर्णस्य कोऽपि पुमान् यस्य शास्त्रे निरूपिताः धर्माः अध्ययनं यजनं दानञ्च सन्ति।
"न क्रुध्येत् प्रहृष्येत् मानितोऽमानितश्च यः। सर्वभूतेषु अभयदस्तं देवा ब्राह्मणं विदुः॥ "
Synonyms:
ब्राह्मणः
noun
एकं नक्षत्रम्
"ब्राह्मणः इति चान्द्रनक्षत्रेषु 28 नक्षत्रं वर्तते"
Tamil
Tamil
ப்3ராஹ்மண: : அந்தணன்.
अमरकोशः
Sanskrit
Word: ब्राह्मणः
Root: ब्राह्मण
Gender: पुं
Number: all
Meaning(s):
Brahman
Brahmanical
brahmin man
Brahman in the second stage
one who has divine knowledge
befitting or becoming a Brahman
relating to or given by a Brahman
man belonging to the 1st of the 3 twice-born classes and of the 4 original divisions of the Hindu body
Shloka(s):
2|7|4|1 आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः। (ब्रह्मवर्गः)
2|7|4|2 विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः॥ (ब्रह्मवर्गः)
3|3|30|1 केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः। (नानार्थवर्गः)
3|3|114|2 वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः॥ (नानार्थवर्गः)
Synonym(s):
2|7|4|1 द्विजातिः (द्विजाति) (पुं)
2|7|4|1 अग्रजन्मा (अग्रजन्मन्) (पुं) brahmA, brahman, brAhmaNa, first-born, elder brother, member of one of the three highest castes
2|7|4|1 भूदेवः (भूदेव) (पुं)
2|7|4|1 वाडवः (वाडव) (पुं)
2|7|4|2 विप्रः (विप्र) (पुं) wise, sage, seer, priest, Brahman, learned, excited, brAhmaNa, inspired, thrilled, the moon, wise man, theologist, singer. poet, enthusiastic, domestic priest, month bhAdrapada, class of demi-gods, learned theologian, stirred or excited, flea tree [Albizia lebbeck - Bot.], holy fig tree [Ficus Religiosa - Bot.], consisting of a metrical foot of four short syllables
2|7|4|2 ब्राह्मणः (ब्राह्मण) (पुं) Brahman, Brahmanical, brahmin man, Brahman in the second stage, one who has divine knowledge, befitting or becoming a Brahman, relating to or given by a Brahman, man belonging to the 1st of the 3 twice-born classes and of the 4 original divisions of the Hindu body
3|3|30|1 द्विजः (द्विज) (पुं) bird, tooth, Brahman, brAhmaNa, any Aryan, twice-born, oviparous animal, animal born of an egg, bird or any oviparous animal, member of the upper three castes, man of any one of the first 3 classes, coriander seed [ Xantboxylum Alatum - Bot. ], bleeding-heart plant [Clerodendrum indicum - Bot.]
3|3|114|2 ब्रह्म (ब्रह्मन्) (नपुं) prayer, devotion, holy life, absolute of the universe, substrate of the universe
Related word(s):
अवयव_अवयवीसंबन्धः ब्राह्मणानां_समूहः
परा_अपरासंबन्धः यागे_यजमानः
जातिः मनुष्यः
शब्दकल्पद्रुमः
Sanskrit
ब्राह्मणः,
पुं,
ब्राह्मणो विप्रस्य प्रजापतेर्वा अपत्यम् ।ब्रह्म वेदस्तमधीते वा सः इति भरतः
(ब्रह्मन्+ अण् “ब्राह्मोऽजातौ ।” १७१ ।इति नटिलोपः ।) तत्पर्य्यायः द्विजातिः २अग्रजन्मा भूदेवः बाडवः विप्रः ।इत्यमरः
द्बिजः सूत्र-कण्ठः ज्येष्ठवर्णः अग्रजातकः १०द्विजन्मा ११ वक्त्रजः १२ मैत्रः १३ वेदवासः १४नयः १५ गुरुः १६ इति शब्दरत्नाबली
ब्रह्मा १७ षट्कर्म्मा १८ द्विजोत्तमः १९ इतिराजनिर्घण्टः
*
अयं सर्व्ववर्णश्रेष्ठः ब्रह्मणोमुखाज्जातः प्लक्षद्वीपे तस्य संज्ञा हंसः ।शाल्मलद्वीपे श्रुतिधरः कुशद्वीपे कुशलः ।क्रौञ्चद्वीपे गुरुः शाकद्वीपे ऋतव्रतः पुष्कर-द्वीपे सर्व्वे एकवर्णाः अस्य शास्त्रनिरूपित-धर्म्मास्त्रयः अध्ययनं यजनं दानञ्च जीविका-स्तिस्रः अध्यापनं याजनं प्रतिग्रहश्च अयमा-श्रमचतुष्टयवान् भवति यथा ब्रह्मचारीगृहस्थः वानप्रस्थः सन्न्यासी क्षत्त्रियवैश्य-योस्तु क्रमश एकैकपादहीनत्वमिति बोध्यम् ।इति श्रीभागवतम्
*
ब्राह्मणीक्षत्त्रिया-वैश्यासु ब्राह्मणाज्जातो ब्राह्मणः यथा, --“ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः ।क्षत्त्रियायां तथैव स्याद्वैश्यायामपि चैव हि
”इति महाभारते अनुशासने ४७ २८
तस्य लक्षणं यथा, --“जात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन ।एभिर्युक्तो हि यस्तिष्ठेन्नित्यं द्बिज उच्यते
”इति वह्रिपुराणम्
अपि ।“न क्रुध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः ।सर्व्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः
अहेरिव गणाद्भीतः लौहित्यान्नरकादिव ।कुणपादिव स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः
येन केनचिदाच्छन्नो येन केनचिदाशितः ।यत्र क्वचन शायी तं देवा ब्राह्मणं विदुः
विमुक्तं सर्व्वसङ्गेभ्यो मुनिमाकाशवत् स्थितम् ।अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः
जीवितं यस्य धर्म्मार्थं धर्म्मो रत्यर्थमेव ।अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् ।अक्षीणं ज्ञीणकर्म्माणं तं देवा ब्राह्मणं विदुः
”इति महाभारते मोक्षधर्म्मः
*
अपि विशाखयूप उवाच ।“विप्रस्य लक्षणं ब्रूहि त्वद्भक्तिः का तत्कृता ।यतस्तवानुग्रहेण वाग्वाणाः ब्राह्मणाः कृताः
कल्किरुवाच ।वेदा मामीश्वरं प्राहुरव्यक्तं व्यक्तिमत् परम् ।ते वेदा ब्राह्मणमुखे नाना धर्म्माः प्रकाशिताः
यो धर्म्मो ब्राह्मणानां हि सा भक्तिर्मम पुष्कला ।तयाहं तोषितः श्रीशः संभवामि युगे युगे
ऊर्द्धन्तु त्रिवृतं सूत्रं सधवानिर्म्मितं शनैः ।तन्तुत्रयमधोवृत्तं यज्ञसूत्रं विदुर्बुधाः
त्रिगुणं तद्ग्रन्थियुक्तं वेदप्रवरसस्मितम् ।शिरोधरान्नाभिमध्यात् पृष्ठार्द्धपरिमाणकम्
यजुर्विदां नाभिमितं सामगानामयं विधिः ।वामस्कन्धेन विधृतं यज्ञसूत्रं बलप्रदम्
मृद्भस्मचन्दनाद्यैस्तु धारयेत्तिलकं द्विजः ।भाले त्रिपुण्ड्रं कर्म्माङ्गं केशपर्य्यन्तमुज्ज्वलम्
पुण्ड्रमङ्गुलिमानन्तु त्रिपुण्ड्रं तत्त्रिधाकृतम् ।ब्रह्मविष्णुशिवावासं दर्शनात् पापनाशनम्
ब्राह्मणानां करे स्वर्गा वाचो वेदाः करे हरिः ।गात्रे तीर्थानि यागाश्च नाडीषु प्रकृतिस्त्रिवृत्
सावित्री कण्ठकुहरा हृदयं ब्रह्मसङ्गतम् ।तेषां स्तनान्तरे धर्म्मः पृष्ठेऽधर्म्मः प्रकीर्त्तितः
भूदेवा ब्राह्मणा राजन् ! पूज्या वन्द्याः सदु-क्तिभिः ।चातुराश्रम्यकुशला मम धर्म्मप्रवर्त्तकाः
बालाश्चापि ज्ञानवृद्धास्तपोवृद्धा मम प्रियाः ।तेषां वचः पालयितुमवताराः कृता मया
महाभाग्यं ब्राह्मणानां सर्व्वपापप्रणाशनम् ।कलिदोषहरं श्रुत्वा मुच्यते सर्व्वतो भयात्
”इति कल्किपुराणे अध्यायः
*
अपि ।“कर्म्मणा ब्राह्मणो जातः करोति ब्रह्मभावनाम् ।स्वधर्म्मनिरतः शुद्धस्तस्माद्ब्राह्मण उच्यते
”इति ब्रह्मवैवर्त्ते गणेशखण्डे ३५ अध्यायः
*
अपि ।“जातकर्म्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः ।वेदाध्ययनसम्पन्नः षट्सु कर्म्मस्ववस्थितः
शौचाचारपरो नित्यं विघसाशी गुरुप्रियः ।नित्यव्रती सत्यरतः वै ब्राह्मण उच्यते
सत्यं दानमथोऽद्रोह आनृशंस्यं कृपा घृणा ।तपश्च दृश्यते यत्र ब्राह्मण इति स्मृतः
*
तस्य धर्म्मो यथा, --ब्राह्मणस्य तु यो धर्म्मस्तं ते वक्ष्यामि केवलम् ।दममेव महाराज ! धर्म्ममाहुः पुरातनम्
स्वाध्यायाभ्यसनञ्चैव तत्र कर्म्म समाप्यते ।तञ्चेद्वित्तमुपागच्छेद्वर्त्तमानं स्वकर्म्मणि
अकुर्व्वाणं विकर्म्माणि श्रान्तं प्रज्ञानतर्पितम् ।कुर्व्वीतोपेत्य सन्तानमथ दद्याद्यजेत
संविभज्यापि भोक्तव्यं धनं सद्भिरितीष्यते ।परिनिष्ठितकार्य्यस्तु स्वाध्यायेनैव ब्राह्मणः
कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो ब्राह्मण उच्यते ।”इति पाद्मे स्वर्गखण्डे २६ अध्यायः
*
तस्य माहात्म्यादि यथा, --“सर्व्वेषामेव वर्णानां ब्राह्मणः परमो गुरुः ।तस्मै दानानि देयानि भक्तिश्रद्धासमन्वितैः
सर्व्वदेवाग्रजो विप्रः प्रत्यक्षत्रिदशो भुवि ।स तारयति दातारं दुस्तरे विश्वसागरे
हरिशर्म्मोवाच ।सर्व्ववर्णगुरुर्विप्रस्त्वया प्रोक्तः सुरोत्तम ! ।तेषां मध्ये कः श्रेष्ठः कस्मै दानं प्रदीयते
ब्रह्मोवाच ।सर्व्वेऽपि ब्राह्मणाः श्रेष्ठाः पूजनीयाः सदैव हि ।अविद्या वा सविद्या वा नात्र कार्य्या विचारणा
स्तेयादिदोषलिप्ता ये ब्राह्मणा ब्राह्मणोत्तम ! ।आत्मभ्यो द्वेषिणस्तेऽपि परेभ्यो कदाचन
अनाचारा द्विजाः पूज्या शूद्रा जिते-न्द्रियाः ।अभक्ष्यभक्षका गावः कोलाः सुमतयो
माहात्म्यं भूमिदेवानां विशेषादुच्यते मया ।तव स्नेहाद्द्विजश्रेष्ठ ! निशामय समाहितः
क्षत्त्रियाणाञ्च वैश्यानां शूद्राणां गुरवो द्विजाः ।अन्योन्यं गुरवो ज्ञेयाः पूजनीयाश्च भूसुर !
ब्राह्मणं प्रणमेद्यस्तु विष्णुबुद्ध्या नरोत्तमः ।आयुः पुत्त्राश्च कीर्त्तिश्च सम्पत्तिस्तस्य वर्द्धते
नौति द्विजं यस्तु मूढधीर्मानवो भुवि ।सुदर्शनेन तच्छीर्षं हन्तुमिच्छति केशवः
”पुष्पादिहस्तब्राह्मणस्य प्रणामनिषेधो यथा, --“पुष्पहस्तं पयोहस्तं देवहस्तञ्च भूसुर ! ।न नमेद्ब्राह्मणं प्राज्ञस्तैलाभ्यङ्गितविग्रहम्
जलस्थं देववेश्मस्थं ध्यानमज्जितचेतसम् ।देवपूजाञ्च कुर्व्वन्तं नमेद्ब्राह्मणं बुधः
बहिष्क्रियां प्रकुर्व्वन्तं भुञ्जानञ्च द्विजोत्तम ! ।तथा सामानि गायन्तं नमेद्ब्राह्मणं बुधः
ब्राह्मणा यत्र तिष्ठन्ति बहवो द्विजसत्तम ! ।प्रत्येकन्तु नमस्कारस्तत्र कार्य्यो धीमता
कृताभिवादनं विप्रं भक्त्या यो नाभिवादयेत् ।स चाण्डालसमो ज्ञेयो नाभिवाद्यः कदापि
कृतप्रणामं तनयं नमेतां पितरौ ।कृतप्रणामाः सर्व्वेऽपि नमस्कार्य्या द्विजैर्द्विजाः
कृतदोषान् द्बिजान् गाश्च द्बिषन्ति विच-क्षणाः ।द्विषन्ति वापि मीहेन तेषां रुष्टः सदा हरिः
याचकान् ब्राह्मणान् यस्तु कोपदृष्ट्या प्रपश्यति ।सूचीप्रक्षेपणं तस्य नेत्रयोः कुरुते यमः
विप्रनिर्भर्त्सनं मूढा येन वक्त्रेण कुर्व्वते ।तस्मिन् वक्त्रे यमस्तप्तं लौहपिण्डं ददाति वै
ब्राह्मणो यद्गृहे भुङ्क्ते तद्गृहे केशवः स्वयम् ।देवताः सकला एव पितरश्च मुरर्षयः
”तस्य पादोदकादिमाहात्मम् यथा, --विप्रपादोदकं यस्तु कणमात्रं वहेद्बुधः ।देहस्थं पातकं तस्य सर्व्वमेवाशु नश्यति
कोटिब्रह्माण्डमध्येषु सन्ति तीर्थानि यानि वै ।तीर्थानि तानि सर्व्वाणि वसन्ति द्विजपादयोः
विप्रपादोदकैर्नित्यं सिक्तं स्याद्यस्य मस्तकम् ।स स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञेषु दीक्षितः
सर्व्वपापानि घोराणि ब्रह्महत्यादिकानि ।सद्य एव विनश्यन्ति विप्रपादाम्बुधारणात्
क्षयाद्या व्याधयः सर्व्वे परमक्लेशदायकाः ।गच्छन्ति विलयं सद्यो विप्रपादाम्बुभक्षणात्
पित्रर्थं यानि तोयानि दीयन्ते विप्रपादयोः ।तैस्तृप्ताः पितरः स्वर्गे तिष्ठन्त्याचन्द्रतारकम्
प्रक्षाल्य विप्रचरणौ दूर्व्वाभिर्योऽर्च्चयेद्बुधः ।तेनार्च्चितो जगत्स्वामी विष्णुः सर्व्वसुरोत्तमः
विप्राणां पादनिर्म्माल्यं यो मर्त्यः शिरसा वहेत् ।सत्यं सत्यमहं वच्मि तस्य मुक्तिर्हि शाश्वती
तस्य प्रदक्षिणफलम् ।“विप्रं प्रदक्षिणीकृत्य वन्दते यो नरोत्तमः ।प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा
”तस्य पादसेचनफलम् ।यो दद्यात् फलताम्बूलं विप्राणां पादसेचने ।इह लोके सुखं तस्य परलोके ततोऽधिकम्
पुत्त्रार्थी लभते पुत्त्रं धनार्थी लभते घनम् ।मोक्षार्थी लभते मोक्षं विप्रपादस्य सेचनात्
रोगी रोगात् प्रमुच्येत पापी मुच्येत पातकात् ।मुच्येत बन्धनाद्वद्धो विप्राणां पादसेचनात्
अनपत्याश्च या नार्य्यो मृतापत्याश्च याः स्त्रियः ।बह्वपत्या जीववत्साः स्युर्विप्रपादसेचनात्
”इति पाद्मे क्रियायोगसारे २० अध्यायः
तस्य सन्ध्याया अकरणे दोषो यथा, --“नोपतिष्टति यः पूर्व्वां नोपास्ते यस्तु पश्चिमाम् ।स शूद्रवद्वहिः कार्य्यः सर्व्वस्माद्द्विजकर्म्मणः
”तस्य सन्ध्याकरणफलं यथा, --“यावज्जीवनपर्य्यन्तं यस्त्रिसन्ध्यं करोति ।स सूर्य्यसमो विप्रस्तेजसा तपसा सदा
तत्पादपद्मरजसा सद्यः पूता वसुन्धरा ।जीवन्मुक्तः तेजस्वी सन्ध्यापूतो हि यो द्बिजः
तीर्थानि पवित्राणि तस्य संस्पर्शमात्रतः ।ततः पापानि यान्त्येव वैनतेयादिवोरगाः
सन्ध्याया अकरणे दोषो यथा, --“न गृह्णन्ति मुरास्तेषां पितरः पिण्डतर्पणम् ।स्वेच्छया त्त द्विजातेश्च त्रिसन्ध्यरहितस्य
”तस्य निन्दितकर्म्माणि यथा, --“विष्णुमन्त्रविहीनश्च त्रिसन्ध्यरहितो द्विजः ।एकादशीविहीनश्च विषहीनो यथोरगः
हरेर्नैवेद्यभोजी धावको वृषवाहकः ।शूद्रान्नभोजी विप्रश्च विषहीनो यथोरगः
शवदाही शूद्राणां यो विप्रो वृषलीपतिः ।शूद्राणां सूपकारी शूद्रयाजी यो द्विजः ।असिजीवी मसीजीवी विषहीनो यथोरगः
यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः ।भगजीवी वार्द्धुषिको विषहीनो यथोरगः ।यः कन्याविक्रयी विप्रो यो हरेर्नामविक्रयी ।यो विद्याविक्रयी विप्रो विषहीनो यथोरगः
सूर्ष्योदये द्विर्भोजी मत्स्यभोजी योद्बिजः ।शिलापूजादिरहितो विषहीनो यथोरगः
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २१ अध्यायः
*
अपि ।“यदि शूद्रां ब्रजेद्विप्रो वृषलीपतिरेव सः ।स भ्रष्टो विप्रजातेश्च चाण्डालात् सोऽधमःस्मृतः
विष्ठासमश्च तत्पिण्डो मूत्रं तस्य तर्पणम् ।तत्पितॄणां सुराणाञ्च पूजने तत्समं सति
कोटिजन्मार्जितं पुण्यं सन्ध्यार्च्चातपसार्जितम् ।द्बिजस्य वृषलीभोगान्नश्यत्येव संशयः
ब्राह्यणश्च मुरापीती विड्भोजी वृषलीपतिः ।हरिवासरभोजी कुम्भीपाकं व्रजेद्ध्रुवम्
”अपि ।“करोत्यशुद्धां सन्ध्याञ्च सन्ध्यां वा करोति यः ।त्रिसन्ध्यं वर्जयेद्यो वा सन्ध्याहीनश्च द्विजः
नारायणक्षेत्रादितीर्थे तस्य प्रतिग्रहदोषो यथा, “तत्र नारायणक्षेत्रे कुरुक्षेत्रे हरेः पदे ।वाराणस्यां वदर्य्याञ्च गङ्गासागरसङ्गमे
पुष्करे भास्करक्षेत्रे प्रभासे रासमण्डले ।हरिद्बारे केदारे सोमे वदरपाचने
सरस्वतीनदीतीरे पुण्ये वृन्दावने वने ।गोदावर्य्याञ्च कौशिक्यां त्रिवेण्याञ्च हिमालये
एतेष्वन्येषु यो दानं प्रतिगृह्णाति कामतः ।स तीर्थप्रतिग्राही कुम्भीपाकं प्रयाति
”पारिभाषिकमहापातकिब्राह्मणा यथा, --“शूद्रसप्तोद्रिक्तयाजी ग्रामयाजीति कीर्त्तितः ।देवोपजीवजीवी देवलश्च प्रकीर्त्तितः
शूद्रपाकोपजीवी यः सूपकारः प्रकीर्त्तितः ।सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः
एते महापातकिनः कुम्भीपाकं प्रयान्ति ते
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः
*
विप्राणामाशीर्वचनं पूर्णस्वस्त्ययनं यथा, --“आशिषं कर्त्तुमर्हन्ति प्रसन्नमनसा शिशुम् ।पूर्णस्वस्त्ययनं सद्यो विप्राशीर्वचनं ध्रुवम्
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३ अध्यायः
ब्राह्मणस्य स्वधर्म्मो यथा, --“ब्राह्मणस्य स्वधर्म्मश्च त्रिसन्ध्यमर्च्चनं हरेः ।तत्पादोदकनैवेद्यभक्षणञ्च सुधाधिकम्
अन्नं विष्ठा जलं मूत्रमनिवेद्यं हरेर्नृप ! ।भवन्ति शूकराः सर्व्वे ब्राह्मणा यदि भुञ्जते
आजीवं भुञ्जते विप्रा एकादश्यां भुञ्जते ।कृष्णजन्मदिने चैव शिवरात्रौ सुनिश्चितम्
तथा रामनवम्याञ्च यत्नतः पुण्यवासरे ।ब्राह्मणानां स्वधर्म्मश्च कथितो ब्रह्मणा नृप !
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ५९ अध्यायः
गृहस्थब्राह्मणनियमा यथा, --“वेदं वेदौ तथा वेदानधीत्य तु समाहितः ।तदर्थमभिगम्याथ तत्र स्नायाद्द्विजोत्तमः
गुरवे तु धनं दत्त्वा स्नायीत तदनुज्ञया ।चीर्णव्रतोऽथ मुक्तात्मा ह्यशक्तः स्नातुमर्हति
वैणवीन्धारयेद्यष्टिमन्तर्व्वासमथोत्तरम् ।यज्ञोपवीतद्बितयं सोदकञ्च कमण्डलुम्
छत्रञ्चोष्णीषममलं पादुके चाप्युपानहौ ।रौक्मे कुण्डले धार्य्ये कृत्तकेशनखः शुचिः
स्वाध्याये नित्ययुक्तः स्याद्बहिर्माल्यं धारयेत् ।अन्थत्र काञ्चनाद्विप्रो रक्तां बिभृयात् स्रजम्
शुक्लाम्बरधरो नित्यं स्रग्गन्धः प्रियदर्शनः ।न जीर्णमलवद्वासा भवेच्च विभवे सति
रक्तमुल्वणञ्चास्य घृतं वासो कुण्डिकाम् ।नोपानहौ स्रजं वाथ पादुके प्रयोजयेत्
उपवीतमलङ्कारं कुम्भान् कृष्णाजिनानि ।नापसव्यं परीदध्याद्वासो विकृतं वसेत्
आहरेद्विधिवद्धीमान् सदृशामात्मनः शुभाम् ।रूपलक्षणसंयुक्तां योनिदोषविवर्ज्जिताम्
अमातृगोत्रप्रभवामसमानार्षगोत्रजाम् ।आहरेद्ब्राह्मणो भार्य्यां शीलशौचसमन्विताम्
ऋतुकालाभिगामी स्याद्यावत् पुत्त्रोऽभिजायते ।वजयेत् प्रतिषिद्धानि प्रयत्नेन दिनानि तु
षष्ठ्यष्टमी पञ्चदशी द्वादशी चतुद्दशी ।ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि
आदधीतावसथ्याग्निं जुहुयाज्जातवेदसम् ।व्रतानि स्नातको नित्यं पावनानि पालयेत्
वेदोदितं स्वकं कर्म्म नित्यं कुर्य्यादतन्द्रितः ।अकुर्व्वाणः पतत्याशु नरकानतिभीषणान्
अभ्यसेत् प्रयतो नित्यं वेदं यज्ञान्न हापयेत् ।कुर्य्याद्गृह्याणि कर्म्माणि सन्ध्योपासनमेव
सख्यं समाधिकैः कुर्य्यादुपेयादीश्वरं सदा ।दैवतान्यपि गच्छेत्तु कुर्य्याद्भार्य्याभिपोषणम्
धर्म्मं ख्यापयेद्विद्बान् पापं गूहयेदपि ।कुर्व्वीतात्महितं नित्यं सर्व्वभूतानुकम्पकः
वयसः कर्म्मणोऽर्थस्य श्रुतस्याभिजनस्य ।देशवाग्बुद्धिसारूप्यमाचरन् विचरेत् सदा
श्रुतिस्मृत्युदितं सम्यक् साधुभिर्यश्च सेवितः ।तमातरन्निषेवेत नेहेतान्यत्र कर्हिचित्
येनास्य पितरो याता येन याताः पितामहाः ।येन याति सतां मार्गं तेन गच्छंस्तरिष्यति
नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतिमान् ।सत्यवादी जितक्रोधो ब्रह्मभूयाय कल्प्यते
सन्ध्यास्नानरतो नित्यं ब्रह्मयज्ञपरायणः ।अनसूयुर्मृदुर्दान्तो गृहस्थः प्रत्यवर्द्धत
वीतरागभयक्रोधो लोभमोहविवर्ज्जितः ।सावित्रीजापनिरतः श्रद्धावान् मुच्यते गृही
मातापित्रोर्हिते युक्तो गोब्राह्मणहिते रतः ।दाता यज्ञी देवभक्तो ब्रह्मलोके महीयते
त्रिवर्गसेवी सततं देवतानाञ्च पूजनम् ।कुर्य्यादहरहर्न्नित्यं नमस्येत् प्रयतः सुरान्
विभागशीलः सततं क्षमायुक्तो दयात्मकः ।गृहस्थस्तु समायुक्तो गृहे गृही भवेत्
क्षमा दया विज्ञानं सत्यञ्चैव दमः शमः ।अध्यात्मं नित्यता ज्ञानमेतद्ब्राह्मणलक्षणम्
एतस्मान्न प्रमाद्येत विशेषेण द्बिजोत्तमः ।यथाशक्ति चरन् कर्म्म निन्दितानि विवर्जयेत्
विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम् ।गृहस्थो मुच्यते बन्धान्नात्र कार्य्या विचारणाविगर्हातिक्रमक्षेपहिंसाबन्धवधात्मनाम् ।अन्यमन्युसमुत्थानां दोषाणां वर्जनं क्षमा
स्वदुःखेष्विव कारुण्यं परदुःखेषु सौहृदात् ।दया यन्मुनयः प्राहुः साक्षाद्धर्म्मस्य साधनम्
चतुर्द्दशानां विद्यानां धारणं हि यथार्थतः ।विज्ञानमितरं विद्याद्येन धर्म्मो विवर्द्धते
अधीत्य विधिवद्विद्यामर्थञ्चैवोपलभ्य तु ।धर्म्मकार्य्यान्निवृत्तश्चेन्न तद्विज्ञानमिष्यते
सत्येन लोकं जयति सत्यन्तत् परमं पदम् ।यथा भूतप्रसादस्तु सत्यमाहुर्मनीषिणः
दमः शरीरावनतिः शमः प्रज्ञा प्रसादजः ।अध्यात्ममक्षरं विद्याद्यत्र गत्वा शोचति
यया देवो भगवान् विद्यते यत्र विद्यते ।साक्षादेव महादेव ! तज्ज्ञानमिति कीर्त्तितम्
तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः ।महायज्ञपरो विप्रो लभते तदनुत्तमम्
धर्म्मस्यायतनं यत्नाच्छरीरं परिपालयेत् ।न हि देहं विना रुद्र ! पुरुषैर्विद्यते परः
नित्यं धर्म्मार्थकामेषु युञ्जीत नियतो द्बिजः ।न धर्म्मवर्जितं काममर्थं वा मनसा स्मरेत्
सीदन्नपि स्वधर्म्मेण नत्वधर्म्मं समाचरेत् ।धर्म्मो हि भगवान्देवो गतिः सर्व्वेषु जन्तुषु ।भूतानां प्रियकारी स्यान्न परद्रोहकर्म्मधीः
वेददेवतानिन्दां कुर्य्यात्तैश्च सम्बदेत् ।यस्त्विमं नियतो विप्रो धर्म्माध्यायं पठेत् शुचिः ।अध्यापयेच्छ्रावयेद्वा ब्रह्मलोके महीयते
”इति कौर्म्मे उपविभागे १४ अध्यायः
अपि सूत उवाच ।“आनृशंस्यं क्षमा सत्यमहिंसा दममार्द्दवम् ।ध्यानं प्रसादो माधुर्य्यमार्ज्जवं शौचमेव
इज्या दानं तपः सत्यं स्वाध्यायो ह्यात्मनिग्रहः ।व्रतोपवासौ मौनञ्च स्नानं पैशुन्यवर्जनम्
एभिर्युक्तो मुनिश्रेष्ठा यः सदा वर्त्तते द्विजः ।हुत्वा तु पावकं सर्व्वं परं ब्रह्माधिगच्छति
अविद्यो वा सविद्यो वा निरग्निः साग्निकोऽपिवा ।यो विप्रस्तपसा युक्तः परं स्वर्गमाप्नुयात्
सर्व्वेषामुत्तमं श्रेष्ठं विमुक्तिफलदायकम्
ब्राह्मणस्य तपो वक्ष्ये तन्मे निगदतः शृणु ।सायं प्रातश्च यः सन्ध्यामुपास्ते स्कन्नमानसः
जपन् हि पावनीं देवीं गायत्त्रीं वेदमातरम् ।तपसा भावितो देव्या ब्राह्मणः पूतकिल्विषः
सीदेत् प्रतिगृह्णन् त्वयि पृथ्वीं ससागराम् ।द्वे सन्ध्ये ह्युपतिष्ठेत गायत्त्रीं प्रयतः शुचिः
यस्तस्य दुष्कृतं नास्ति पूर्व्वतः परतोऽपि वा ।यज्ञदानरतो विद्वान् साङ्गवेदस्य पाठकः
गायत्त्रीध्यानपूतस्य कलां नार्हन्ति षोडशीम् ।एवं किल्विषयुक्तस्तु विनिर्दहति पातकम्
उभे सन्ध्ये ह्युपासीत तस्मान्नित्यं द्विजोत्तमः
तस्य देहापवित्रत्वं यथा, --“यथा देहापवित्रत्वं विप्रादीनां यतो भवेत् ।देवर्षे ! शृणु तत्सर्व्वं नराणामानुपूर्व्विकम्
जातके मृतकेऽस्नाते जलौकाभिः क्षते तथा ।अपवित्रो द्विजातीनां देहः सन्ध्यादिकर्म्मसु
अपूततनुरुत्सर्गे नरो मूत्रपुरीषयोः ।अस्पृश्यस्पर्शने चैव ब्रह्मयज्ञजपादिषु
रक्तपाते नखशृङ्गदन्तखड्गादिभिः क्षते ।विप्रादेरशुचिः कायः शस्त्रास्त्रैः कण्टकादिभिः
भुक्तहस्ताननोच्छिष्टेऽपवित्रः कृतमैथुने ।शयने ब्राह्मणादीनां शरीरं क्षुरकर्म्मणि
ज्वरादिभिश्चतुःषष्टिरोगैर्युक्ते द्विजन्मनाम् ।वपुरप्रयतं पूजादानहोमजपादिषु
धूमोद्गारे वमौ श्राद्धपतितान्नादिभोजनैः ।तथा रेतःस्खलने मर्त्यदेहापवित्रता
अपवित्रं द्विजातीनां वपुः स्याद्राहुदर्शने ।गर्हितदानग्रहणे पतिते पातकादिभिः
अशौचान्तेन शुद्धिः स्याज्जातके मृतके द्विज !
सर्व्ववर्णाश्रमादीनां तनोः सन्ध्यादिकर्म्मसु
”इति पाद्मोत्तरखण्डे १०९ अध्यायः
अथ श्राद्धीयब्राह्मणनिर्णयः ।मान्धातोवाच ।“कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं महामुने ! ।द्बिजेभ्यः किंगुणिभ्यो वा तन्मे व्याख्यातुमर्हसि
नारद उवाच ।ब्राह्मणान्न परीक्षेरन्नान्यवर्णास्त्रयो नृप ! ।दैवे कर्म्मणि पित्रे न्याय्यमाहुः परीक्षणम्
देवताः पूजयन्तीह दैवेनैव हि तेजसा ।उपेये तस्माद्भावेभ्यः सर्व्वेभ्यो दापयेन्नरः
श्राद्धे त्वथ महाराज ! परीक्षेद्ब्राह्मणं बुधः ।कुलशीलवयोरूपैर्विद्ययाभिजनेन
तेषामन्ये पङ्क्तिदूषास्तथान्ये पङ्क्तिपावनाः ।अपाङ्क्तेयास्तु ये राजन् ! कीर्त्तयिष्यामि तान्शृणु
”अपाङ् क्तेया यथा, --कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः ।ग्रामप्रेष्यो वार्द्धुषिको गायनः सर्व्वविक्रयी
अगारदाही गरदः कुण्डाशी सोमविक्रयी ।सामुद्रिको राजदूतस्तैंलिकः कूटकारकः
पित्रा विवदमानश्च यस्य चोपपतिर्गृ हे ।अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति
पर्व्वकारश्च सूची मित्रध्रुक् पारदारिकः ।अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव
श्वभिश्च यः परिक्रामेद्यः शुना दष्ट एव ।परिवित्तिस्तु यश्च स्याद्दुश्चर्म्मा गुरुतल्पगः
कुशीलवो देवलको नक्षत्रैर्यश्च जीवति ।ईदृशा ब्राह्मणा ये अपाङ्क्तेयास्तु ते मताः
रक्षांसि गच्छते हव्यं यदेषान्तु प्रदीयते ।श्राद्धे मुक्त्वा महाराज ! दुश्चर्म्मा गुरुतल्पगः
श्राद्धं नाशयते तस्य पितरोऽपि भुञ्जते ।सोमविक्रयिणे दत्तं विष्ठातुल्यं भवेन्नृप !
भिषजे शोणितसमं नष्टं देवलके तथा ।अप्रतिष्ठं बार्द्धषिके निष्फलं परिकीर्त्तितम्
बहुबाणिजके दत्तं नेह नामुत्र तद्भवेत् ।भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे
ये तु धर्म्मव्यपेतेषु चरित्रापगतेषु ।हव्यं कव्यं प्रयच्छन्ति तेषां तत्प्राय नश्यति
ज्ञानपूर्व्वन्तु ये तेभ्यः प्रयच्छन्त्य ल्पबुद्धयः ।पुरीषं भुञ्जते तस्य पितरः प्रेत्य निश्चितम्
एतान् विद्धि महावाहो ! अपाङ्क्तेयान् द्विजा-धमान् ।शूद्राणामुपदेशन्तु ये कुर्व्वन्त्यल्पबुद्धयः
षष्टिं काणः शतं खञ्जः श्वित्री यावत् प्रपश्यति ।पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप !
यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः ।सोपानत्कश्च यद्भुङ्क्ते सर्व्वं विद्यात्तदासुरम्
असूयते यद्दत्तं यच्च श्रद्धादिवर्जितम् ।सर्व्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत्
श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन् कथञ्चन ।तस्मात् परिवृते दद्यात्तिलांश्चान्ने विकीरयेत्
तिलैर्विरहितं श्राद्धं कृतं क्रोधवशेन ।यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः
अपाङ्क्तेयो यतः पङ्क्त्यां भुञ्जानो ननु पश्यति ।तावत् फलाद्भ्रंशयति दातारं तस्य वालिशम्
”पङ्क्तिपावना यथा, --“इमे हि मनुजश्रेष्ठ ! विज्ञेयाः पङ्क्तिपावनाः ।विद्यावेदव्रतस्नाताः ब्राह्मणाः सर्व्व एव हि
सदाचारपराश्चैव विज्ञेयाः पङ्क्तिपावनाः ।मातापित्रोर्यश्च बश्यः श्रोत्रियो दशपूरुषः
ऋतुकालाभिगामी धर्म्मपत्नीषु यः सदा ।वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत
अथर्व्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः ।सत्रवादी धर्म्मशीलः स्वकर्म्मनिरतश्च यः
ये पुण्येषु तीर्थेषु अभिषेककृतश्रमाः ।मखेषु समस्तेषु भवन्त्ववभृतप्लुतः
अक्रोधना ह्यचपलाः क्षान्ता दान्ता जिते-न्द्रियाः ।सर्व्वभूतहिता ये श्राद्धेष्वेतान्निमन्त्रयेत्
एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः ।यतयो मोक्षधर्म्मज्ञा योगाः सुचरितव्रताः
ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान् ।ये भाष्यविदः केचिद् ये व्याकरणे रताः
अधीयते पुराणं ये धर्म्मशास्त्राणि चाप्युत ।अधीत्य यथान्यायं विधिवत्तस्य कारिणः
उपपन्नो गुरुकुले सत्यवादी सहस्रदः ।अग्र्याः सर्व्वेषु वेदेषु सर्व्वप्रवचनेषु
यावदेते प्रपश्यन्ति पङ्क्त्यां तावत् पुनन्ति ।ततो हि पावनात् पङ्क्त्या उच्यन्ते पङ्क्ति-पावनाः
अनृत्विगनुपाध्यायः चेदग्रासनं व्रजेत् ।ऋत्विग्भिरनमुज्ञातः पङ्क्त्या हरति दुष्कृतम्
अथ चेद्वेदवित् सर्व्वैः पङ्क्तिदोषैर्विवर्जितः ।न स्यात् पतितो राजन् ! पङ्क्तिपावनउच्यते
तस्मात् सर्व्वप्रयत्नेन परीक्ष्यामन्त्रयेद्द्विजान् ।स्वकर्म्मनिरतान् शान्तान् कुले जातान् बहु-श्रुतान्
यस्य मित्रप्रधानानि श्राद्धानि हवींषि ।न प्रीणाति पितॄन् देवान् स्वर्गञ्च गच्छतिब्राह्मणो ह्यनधीयानस्तृणादिरिव शाम्यति ।तस्मिन् श्राद्धं दातव्यं हि भस्मनि हूयते
ऋषीणां समये नित्यं ये चरन्ति महीपते ! ।निश्चिताः सर्व्वधर्म्मज्ञास्तान् देवा ब्राह्मणान्विदुः
स्वाध्यायनिष्ठानिरता ज्ञाननिष्ठास्तथैव ।तपोनिष्ठाश्च बोद्धव्याः कर्म्मनिष्ठाश्च पार्थिव ! ।कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भूमिप ! ।तत्र ये ब्राह्मणान् केचिन्न निन्दन्ति हि ते वराः
ये तु निन्दन्ति जल्पेषु तान् श्राद्धेषु योजयेत् ।ब्राह्मणा निन्दिता राजन् ! हन्युस्ते पुरुषं सदा
वैखानसानां वचनमृषीणां श्रूयते नृप ! ।दूरादेव निरीक्षेत ब्राह्मणान् वेदपारगान्
प्रियो वा यदि वा द्बेष्यस्तेषां श्राद्धमावपेत्
”इति पाद्मे स्वर्गखण्डे श्राद्धपात्रनिर्णयो नाम ३५अध्यायः
आततायिब्राह्मणवधे दोषाभावोयथा, --“आत्मानं हन्तुमायान्तमपि वेदान्तपारगम् ।न दोषो हनने तस्य तेन ब्रह्महा भवेत्
प्रायश्चित्तं हिंसकानां वेदेषु निरूपितम् ।वधे समुचिते तेषामित्याह कमलोद्भवः
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे २५ अध्यायः
(क्ली, मन्त्रेतरवेदभागः आशङ्कोपन्यास तन्निर-सनपूर्व्वकं तल्लक्षणमाह ऋग्वेदभाष्योपद्घात-प्रकरणे यथा “तत्र ब्राह्मणस्य लक्षणं नास्ति ।कुतः ? वेदभागानामियत्तानवधारणेन बाह्मण-भागेष्वन्यभागेषु लक्षणस्याव्याप्त्यतिव्याप्त्योःशोधयितुमशक्यत्वात् पूर्व्वोक्तमन्त्रभाग एकः ।भागान्तराणि कानिचित् पूर्व्वैरुदाहर्त्तुंसंगृहीतानि ।“हेतुर्निर्बचनं निन्दा प्रशंसा संशयो विधिः ।परक्रिया पुराकल्पो व्यवधारणकल्पना
इति ।तेन ह्यन्नं क्रियते इति हेतुः तद्दध्नोदधित्व-मिति निर्वचनम् अमेध्या वै माषाः इतिनिन्दा वायुर्वै क्षेपिष्ठादेवतेति प्रशंसा ।तद्व्यचिकित्स जुहवानीमा हौषामिति संशयः ।यजमानेन सम्मितौदुम्भरी भवतीति विधिः ।माषानेव मह्यं पचन्तीति परकृतिः पुराब्राह्मणा अभैषुरिति पुराकल्पः यावतो-ऽश्वान् प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपाला-न्निर्वपेदिति विशेषावधारणकल्पना एव-मन्यदपि उदाहार्य्यम्
हेत्वादीनामन्यतमंब्राह्मणमिति लक्षणम् मन्त्रेष्वपि हेत्वादि-सद्भावात् इन्दवोवामुशन्तिहीति हेतुः ।उदानिषुर्महीरिति तस्मादुदकसुच्यते इतिनिर्वचनम् मोघमन्नं विन्दते अप्रचेताः इतिनिन्दा अग्निर्मूर्द्धादिवः इति प्रशंसा अधःस्विदासीदुपरिस्विदासीति संशयः वसन्तायकपिञ्जलानालभत इति विधिः सहस्रमयुताद-द्दितिपरकृतिः यज्ञेन यज्ञमयजन्त देवा इतिपुराकल्पः इति करणबहुलं ब्राह्मणमितिचेत् इत्यददा इत्ययजथा इत्यपच इतिब्राह्मणो गायेदित्यस्मिन् ब्राह्मणेन गातव्येमन्त्रेऽतिव्याप्तेः इत्याहेत्यनेन वाक्येनोपनिबद्धंब्राह्मणमिति चेन्न राजाचिद्यं भगं भक्षीत्याहयो वा रक्षाः शुचिरस्मीत्याह इत्यनयोर्मन्त्रयो-रतिव्याप्तेः आख्यायिकारूपं ब्राह्मणमिति चेन्नयमयमीसंवादसूक्तादावतिव्याप्तेः तस्मान्नास्तिब्राह्मणस्य लक्षणमिति प्राप्ते ब्रूमः मन्त्रब्राह्मण-रूपौ द्वावेव वेदभागौ इत्यङ्गीकारात् मन्त्र-लक्षणस्य पूर्व्वमभिहितत्वादवशिष्टो वेदभागोब्राह्मणमित्येतल्लक्षणं भविष्यति तदेतल्लक्षण-द्वयं जैमिनिः सूत्रयामास तच्चोदकेषु मन्त्रा-ख्याशेषे ब्राह्मणशब्द इत्यादि
”विष्णुः यथा, महाभारते १३ १४९ ८४ ।“ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः
”शिवः यथा, तत्रैव १३ १७ १३३ ।गभस्तिब्रह्मकृद्ब्रह्मा ब्रह्मविद् ब्राह्मणो गतिः
”ब्रह्म जानातीति व्युत्पत्त्या परब्रह्मवेत्तरि, त्रि
)