| YouTube Channel

ब्रह्मीघृतं (brahmIghRtaM)

 
शब्दकल्पद्रुमः
Sanskrit
ब्रह्मीघृतं,
क्ली,
(ब्रह्मीजातं घृतम् ।) औषध-विशेषः सारस्वतघृतमिति ख्यातम् यथा, --“समूलपत्रामुत्पाट्य ब्रह्मीं प्रक्षाल्य वारिणा ।उदूखले खोदयित्वा रसं वस्त्रेण गालयेत्
रसे चतुर्गुणे तस्मिन् धृतप्रस्थं विपाचयेत् ।हरिद्रा मालती कुष्ठं बृहती सहरीतकी ।एतेषां पलिकैर्भागैः शेषास्तु कार्षिकाः स्मृताः
पिप्पल्योऽथ विडङ्गानि सैन्धवे शर्करा वचा ।सर्व्वमेतत् समालोड्य शनैर्मृद्वग्निना पचेत्
एतत्प्राशितमात्रेण वाग्विशुद्धिः प्रजायते ।सप्तरात्रप्रयोगेण किन्नरैः सह गीयते
अर्द्धरात्रप्रयोगेण स्वरो भवति कौकिलः ।मासमेकं प्रयोगेण भवेत् श्रुतिधरो नरः
पञ्च गुल्मान् प्रमेहांश्च कासं पञ्चविधं जयेत् ।बन्ध्यानाञ्चैव नारीणां नराणामल्परेतसाम् ।घृतं सारस्वतं नाम बलवर्णवपुःप्रदम्
”इति जयनारायणकृतचिकित्सारत्नसंग्रहः
(अपरञ्च ।“ब्रह्मीरसे वचाकुष्ठशङ्खपुष्पीभिरेवच ।पुराणं मेध्यमुन्मादग्रहापस्मारनाशनम्
”इति वैद्यकचक्रपाणिसंग्रहेऽपस्माराधिकारे
)