| YouTube Channel

ब्रह्मावर्त्तः (brahmAvarttaH)

 
शब्दकल्पद्रुमः
Sanskrit
ब्रह्मावर्त्तः,
पुं,
(ब्रह्मणां ब्रह्मनिष्ठब्राह्मणानामा-वर्त्त इव बहुलब्राह्मणाश्रयत्वादस्य तथा-त्वम् ।) देशविशेषः तत्पर्य्यायः तपोवटः ।इति त्रिकाण्डशेषः
तत्परिमाणादि यथा, --“सरस्वतीदृशद्बत्योर्द्देवनद्योर्यदन्तरम् ।तद् देवनिर्म्मितं देशं ब्रह्मावर्त्तं प्रचक्षते
तस्मिन् देशे आचारः पारम्पर्य्यक्रमागतः ।वर्णानां सान्तरालानां सदाचार उच्यते
कुरुक्षेत्रञ्च मत्स्याश्च पञ्चालाः शूरसेनकाः ।एष ब्रह्मर्षिदेशो वै ब्रह्मावर्त्तादनन्तरः
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्व्वमानवाः
इति मानवे १७-२०
(तीर्थविशेषः यथा, महाभारते ८३ ५० ।“ततो गच्छेत धर्म्मज्ञ ! ब्रह्मावर्त्तं नराधिप ! ।ब्रह्मावर्त्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात्
”अपरञ्च तत्रैव ८४ ४० ।“ब्रह्मावर्त्तं ततो गच्छेत् ब्रह्मचारी समाहितः ।अश्वमेधमवाप्नोति सोमलोकञ्च गच्छति
”)