| YouTube Channel

ब्रह्मार्पणं (brahmArpaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
ब्रह्मार्पणं,
क्ली,
(ब्रह्मैवार्पणमितिविग्रहे यदर्पणंतद्ब्रह्मैव यथा, गीतायाम् २४
“ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणाहुतम्
”“ब्रह्मार्पणं येन करणेन प्रकारेण ब्रह्मविद्भि-रग्नावर्पयति तद्ब्रह्मैवेति पश्यति तस्यात्म-व्यतिरेकेणाभावं पश्यति यथा शुक्तिकायांरजताभावं पश्यति तद्बदुव्यते ब्रह्मैवार्पणमितियथा यद्रजतं तच्छुक्तिकैवेति ब्रह्म अर्पण-मित्यसमस्ते पदे यदर्पणबुद्ध्या गृह्यते लोकेतदस्य ब्रह्मविदो ब्रह्मैवेत्यर्थः इति शाङ्कर-भाष्यम्
) ब्रह्मणि समर्पणम् तत्प्रकारा यथा, “ब्रह्मणा दीयते देयं ब्रह्मणे संप्रदीयते ।ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम्
नाहं कर्त्ता सर्व्वमेतद्ब्रह्मैव कुरुते तथा ।एतद् ब्रह्मार्पणं प्रोक्तं ऋषिभिस्तत्त्वदर्शिभिः
प्रीणातु भगवानीशः कर्म्मणानेन शाश्वतः ।करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम्
यद्वा फलानां संन्यासं प्रकुर्य्यात् परमेश्वरे ।कर्म्मणामेतदप्याहुर्ब्रह्मार्पणमनुत्तमम्
”इति कूर्म्मपुराणे अध्यायः