| YouTube Channel

ब्रह्मात्मभूः (brahmAtmabhUH)

 
Apte Hindi
Hindi
ब्रह्मात्मभूः
पुं*
ब्रह्मन्-आत्मभूः -
घोड़ा
शब्दकल्पद्रुमः
Sanskrit
ब्रह्मात्मभूः,
पुं,
(ब्रह्मण आत्मनः शरीरात् भव-तीति ब्रह्मात्मन् + भू + क्विप् ।) अश्वः इतिशब्दमाला
(अस्य ब्रह्मशरीरजातत्वमुक्तंबृहदारण्यकौपनिषदि ६-७ तद् यथा, --“प्राणा वै यशोवीर्य्यं तत्प्राणेषूत्क्रान्तेषु शरीरंश्वयितुमध्रियत तस्य शरीर एव मन आसीत् ।सोऽकामयत मेध्यं इदं स्यादात्मन्व्यनेन स्या-मिति ततोऽश्वः समभवद्यदश्वत्तन्मेध्यम-भूदिति तदेवाश्वमेधस्याश्वमेधत्वम् ।” अत्रशाङ्करभाष्यं यथा, --“प्राणाश्चक्षुरादयः वै यशो यशोहेतुत्त्वात्तेषुहि सत्सुख्यातिर्भवति तथा वीर्य्यं बलमस्मिन्शरीरे नह्युत्क्रान्तप्राणो यशस्वी बलवान्भवति तस्मात् प्राणा एव यशो वीर्य्यं चास्मिन्शरीरे तदेवं प्राणलक्षणं यशोवीर्य्यमुदक्रामत्उत्क्रान्तवत् तदेवं यशोवीर्य्यभूतेषु प्राणेषुत्-क्रान्तेषु शरिरान्निष्क्रान्तेषु तच्छरीरं प्रजापतेःश्वयितुमुच्छूनभावङ्गन्तुमध्रियतामेध्यञ्चाभवत् ।तस्य प्रजापतेः शरीरान्निर्गतस्यापि तस्मिन्नेवशरीरे मन आसीत् यथा कस्यचित् प्रियेविषये दूरङ्गतस्यापि मनो भवति तद्बत् सतस्मिन्नेव शरीरे गतमनाः सन् किमकरोदिति
उच्यते सोऽकामयत कथं मेध्यं मेधार्हं यज्ञियंमे ममेदं शरीरं स्यात् किञ्चात्मन्वी आत्मवां-श्चानेन शरीरेण शरीरवान् स्यामिति प्रविवेश ।यस्मात्तच्छरीरं मद्वियोगाद्गतयशोवीर्य्यं सदश्व-दश्वयत्ततस्तस्मादश्वः समभवत् ततोऽश्वनामाप्रजापतिरेव साक्षादत्र स्तूयते यस्माच्च पुन-स्तत्प्रवेशात् गतयशोवीर्य्यत्वादमेध्यं सन्मेध्यम-भूत् तदेव तस्मादेवाश्वमेधस्याश्वमेधनाम्नः क्रतो-रश्वमेधत्वमश्वमेधनाम लाभः
”)