| YouTube Channel

ब्रह्माण्डं (brahmANDaM)

 
शब्दकल्पद्रुमः
Sanskrit
ब्रह्माण्डं,
क्ली,
(ब्रह्मणो जगत्स्रष्टुरण्डम् चतुर्द्दश-भुवनगोलकः यद्वा, ब्रह्मणा विश्वसृजा कृत-मण्डम् ।) भुवनकोषः विश्वगोलकः यथा, --“ब्रह्माण्डरचनाख्यानं श्रूयतां सावधानतः ।ब्रह्माण्डरचनार्थञ्च भक्ता जानन्ति यत्नतः
मुनयश्च सुराः सन्तः किञ्चिज्जानन्ति दुःखतः ।जानामि विश्वसर्व्वार्थं ब्रह्मानन्तो महेश्वरः
धर्म्मः सनत्कुमारश्च नरनारायणावृषी ।कपिलश्च गणेशश्च दुर्गा लक्ष्मीः सरस्वती
वेदाश्च वेदमाता सर्व्वज्ञा राधिका स्वयम् ।एते जानन्ति विश्वार्थं नान्यो जानाति कश्चन
वैषम्यार्थञ्च सुधियः सर्व्वे विज्ञातुमक्षमाः ।नित्याकाशो यथात्मा तथा नित्या दिशोदश
यथा नित्या प्रकृतिस्तथैव विश्वगोलकः ।गोलोकश्च यथा नित्यस्तथा वैकुण्ठ एव
एकदा मयि गोलोके रासे नृत्यं प्रकुर्व्वति ।आविर्भूता वामाङ्गाद् बाला षोडश-वार्षिकी
श्वेतचम्पकवर्णाभा शरच्चन्द्रसमप्रभा ।अतीवसुन्दरी रम्या रमणीनां परात्परा
ईषद्धास्या प्रसन्नास्या कोमलाङ्गी मनोहरा ।वह्रिशुद्धांशुकाधाना रत्नाभरणभूषिता
यथा जलदपङ्क्तिश्च बलाकाभिर्विभूषिता ।सिन्दूरबिन्दुना चारुचन्द्रचन्दनबिन्दुभिः
कस्तूरीबिन्दुभिः सार्द्धं सीमन्ताधःस्थलोज्ज्वला ।अमूल्यरत्ननिर्म्माणसुस्निग्धकिरणोज्ज्वला
रत्नकुण्डलयुग्मेन गण्डस्थलसमुज्ज्वला ।कुङ्कुमालक्तकस्तूरीचारुचन्दनपत्रकैः
विचित्रैश्च सुचित्रैश्च सुकपोलस्थलोज्ज्वला ।खगेन्द्रचञ्चुविजितनासा चार्व्वी सुशोभिता
गजेन्द्रगण्डनिर्मुक्तमुक्ताभूषणभूषिता ।सूक्र्या विमुक्तमुक्ताभदन्तपङ्क्तिमनोहरा
वलिता ललितातीव पक्त्रविम्बाधरा वरा ।शश्वत्पूर्णेन्दुनिन्दास्या पद्मनिन्दितलोचना
कृष्णसारनिभोद्भिन्नसुचारुकज्जलोज्ज्वला ।अमूल्यरत्ननिर्म्माणकेयूरकङ्कणोज्ज्वला
मणीन्द्रराजराजीभिः शङ्खयुग्मकरोज्ज्वला ।रत्नाङ्गुरीयकैरेभिरमृताङ्गुलिभूषिता
रत्नेन्द्रराजराजेन क्वणन्मञ्जीररञ्जिता ।रत्नपायकराजीभिः पादाङ्गुलिविराजिता ।सुन्दरालक्तरागेण चरणाधःस्थलोज्ज्वला
गजेन्द्रगामिनी रामा कामिनी वामलोचना ।मां ददर्श कटाक्षेण रमणी रमणोत्सुका
रासे संभूय रामा सा दधाव पुरतो मम ।तेन राधा समाख्याता पुराविद्भिः प्रपूजिता
प्रकृष्टप्रकृतिश्चास्यास्तेन प्रकृतिरीश्वरी ।शक्ता स्यात् सर्व्वकार्य्येषु तेन शक्तिः प्रकी-र्त्तिता
सर्व्वाधारा सर्व्वरूपा मङ्गलार्च्चा सर्व्वतः ।सर्व्वमङ्गलदक्षा सा तेन स्यात् सर्व्वमङ्गला
वैकुण्ठे सा महालक्ष्मीर्मूर्त्तिभेदे सरस्वती ।प्रसूय वेदान् विदिता वेदमाता सा सदा
सावित्री सा गायत्त्री धात्री त्रिजगतामपि ।पुरा संहृत्य दुर्गञ्च सा दुर्गा प्रकीर्त्तिता
तेजःसु सर्व्वदेवानामाविर्भूता पुरा सती ।तेनाद्यप्रकृतिर्ज्ञेया सर्व्वासुरविमर्द्दिनी
सर्व्वानन्दा सानन्दा दुःखदारिद्र्यनाशिनी ।शत्रूणां भयदात्री भक्तानां भयहारिणी
दक्षकन्या सती सा शैलजा तेन पार्व्वती ।सर्व्वाधारस्वरूपा सा कलया सा वसुन्धरा
कलया तुलसी गङ्गा कलया सर्व्वयोषितः ।सृष्टिं करोमि यया तया शक्त्या पुनःपुनः
दृष्ट्वातां रासमध्यस्थां मम क्रीडा तया सह ।बभूव सुचिरं तात ! यावद्वै ब्रह्मणः शतम्
अत्यद्भुतं कौतुकञ्च महाशृङ्गारमीप्सितम् ।तयोर्द्वयोर्घर्म्मराशिः सुस्राव रासमण्डले
तस्मान्मनोहरं जज्ञे नाम्ना कामसरोवरम् ।पपात घर्म्मधाराधो वेगेन विश्वगोलके
बभूव जलपूर्णञ्च ब्रह्माण्डानाञ्च गोलकम् ।जलपूर्णं पुरा सर्व्वं सृष्टिशून्यं व्रजेश्वर !
शृङ्गारान्ते तस्याञ्च वीर्य्याधानं मया कृतम् ।दधार गर्भं सा राधा यावद्बै ब्रह्मणः शतम्
सुसाव सा तदन्ते डिम्बं तत् परमाद्भुतम् ।चुकोप देवी तं दृष्ट्वा रुरोद विषसाद सा
पादेन प्रेरयामास तमधो विश्वगोलके ।स पपात जले तात ! सर्व्वाधारो महान् विराट्
दृष्ट्वापत्यं जलस्थञ्च मया शप्ता सा पुरा ।अनपत्या सा राधा मत्शापेन पुरा विभो !
तेन प्रसूता क्रमतो दुर्गा लक्ष्मीः सरस्वती ।चतस्रः परिपूर्णा सा प्रसूताश्च सुनिश्चितम्
देव्योऽन्याश्चापि कामिन्यो प्रसूता व्रजेश्वर ! ।कलया प्रभवो यासां कलांशांशेन वा व्रज
जज्ञे महान् विराट् तेन डिम्बेन कलयाश्रयः ।अमृताङ्गुष्ठपीयूषं मया दत्तं पपौ सः
जले स्थावररूपश्च शेते निजकर्म्मणः ।उपाधानं जलं तल्पं तस्य योगबलेन ।तस्य लोम्नाञ्च कूपानि जलपूर्णानि सन्ततम् ।प्रत्येकं क्रमतस्तेषु शेते क्षुद्रविराट् पुनः
सहस्रपत्त्रं कमलं जज्ञे क्षुद्रस्य नाभितः ।तत्र जज्ञे स्वयं ब्रह्मा तेनायं कमलोद्भवः
तत्राविर्भूय विधिश्चिन्ताग्रस्तो बभूव ।कस्माद्देहः क्व माता मे पिता वा क्व चबान्धवः
दिव्यं त्रिलक्षवर्षञ्च बभ्राम कमलान्तरे ।ततो दण्डे पञ्चलक्षं सस्मार तपसा माम्
तदा मया दत्तमन्त्रं जजाप कमलान्तरे ।दिव्यं सप्तवर्षलक्षं नियतं संयतः शुचिः
तदा मत्तो वरं लब्धा स्रष्टा सृष्टिञ्चकार सः ।मायया प्रतिब्रह्माण्डे ब्रह्मविष्णुशिवात्मकाः
दिक्पाला द्वादशादित्या रुद्राश्चैकादशापि वा ।नव ग्रहाष्टौ वसवो देवाः कोटित्रयस्तथा
ब्राह्मणक्षत्त्रविट्शूद्रा यक्षगन्धर्व्वकिन्नराः ।भूतादयो राक्षसाश्चाप्येवं सर्व्वं चराचरम्
विश्वे विश्वे विनिर्म्माणं स्वर्गाः सप्त क्रमेण वै ।सप्तसागरसंयुक्ता सप्तद्वीपा वसुन्धरा
काञ्चनीभूमिसंयुक्ता तमोयुक्तस्थलं ततः ।पातालाश्च तथा सप्त ब्रह्माण्डमेभिरेव
विश्बे विश्वे चन्द्रसूर्य्यौ पुण्यक्षेत्रञ्च भारतम् ।तीर्थान्येतानि सर्व्वत्र गङ्गादीनि व्रजेश्वर !
यावन्ति लोमकूपानि महाविष्णोः क्रमेण ।विश्वान्येव हि तावन्ति ह्यसंख्यानि पितर्ध्रुवम्
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८४ ५२-१०१
अपि ।“देवीगुणत्रयाविष्टमण्डञ्च कोटिविस्तरम् ।ब्रह्मादिस्तम्बपर्य्यन्तमुत्पन्नं सचराचरम्
अण्डे हिरण्यगर्भस्य यदूर्द्ध्वं गर्भसंश्रितम् ।तत्रोत्पन्नमिदं व्योमरूपाणि र्द्यौर्मही भवेत्
अधोर्द्ध्वं काञ्चनमयश्चतुरस्रोच्छ्रितो महान् ।उत्पन्नः चतुःशृङ्गो मेरुर्दैवतसंश्रयः
पृथिवी पद्मदिक् क्षेत्रं मेरुस्तस्य तु कर्णिका ।युगाक्षकोटिविस्तीर्णं तत्र कृत्वा रथं रविः ।देवीवशवृतो देवैर्याति तस्य प्रदक्षिणम्
”इति देवीपुराणम्
अथ ब्रह्माण्डगोलमाह ।“भूभूधरत्रिदशदानवमानवाद्याये याश्च धिष्ण्यगगनेचरचक्रकक्षाः ।लोकव्यवस्थितिरुपर्य्युपरिप्रदिष्टाब्रह्माण्डभाण्डजठरे तदिदं समस्तम्
”अथान्योदितं ब्रह्माण्डमानं पूर्व्वोक्तमपि प्रस-ङ्गादनुवदतिस्म ।कोटिघ्नैर्नखनन्दषट्कनखभूभूभृद्भुजङ्गेन्दुभि-र्ज्योतिःशास्त्रविदो वदन्ति नभसः कक्षामिमांयोजनैः ।तद्ब्रह्माण्डकटाहसम्पुटतटे केचिज्जगुर्वेष्टनंकेचित् प्रोचुरदृश्यदृश्यकगिरिं पौराणिकाःसूरयः
करतलकलितामलकवदमलंसकलं विदन्ति ये गोलम् ।दिनकरकरनिकरनिहततमसोनभसः परिधिरुदितस्तैः
ब्रह्माण्डमेतन्मितमस्तु नो वाकल्पे ग्रहः क्रामति योजनानि ।यावन्ति पूर्व्वैरिह तत्प्रमाणंप्रोक्तं खकक्षाख्यमिदं मतं नः
”इति सिद्धान्तशिरोमणौ गोलाध्याये भुवनकोषः
महादानविशेषः यथा, --मत्स्य उवाच ।“अथातः संप्रवक्ष्यामि ब्रह्माण्डविधिमुत्तमम् ।यच्छ्रेष्ठं सर्व्वदानानां महापातकनाशनम्
पुण्यं दिनमथासाद्य तुलापुरुषदानवत् ।ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम्
लोकेशावाहनं तद्बदधिवासनकं यथा ।कुर्य्याद्विंशपलादूर्द्ध्वमासहस्राच्च शक्तितः
कलसद्बयसंयुक्तं ब्रह्माण्डं काञ्चनं बुधः ।दिग्गजाष्टकसंयुक्तं षड्वेदाङ्गसमन्वितम्
लोकपालाष्टकोपेतं मध्यस्थितचतुर्म्मुखम् ।शिवाच्यतार्कशिखरमुमालक्ष्मीसमन्वितम्
वस्वादित्यमरुद्गर्भं महारत्नसमन्वितम् ।वितस्तेरङ्गुलशतं यावदायामविस्तरम्
कौशेयवस्त्रसम्बीतं तिलद्रोणोपरि न्यसेत् ।तथाष्टादश धान्यानि समन्तात् परिकल्प-येत्
पूर्व्वेणानन्तशयनं प्रद्युम्नं पूर्व्वदक्षिणे ।प्रकृतिं दक्षिणे देशे सङ्कर्षणमतः परम्
पश्चिमे चतुरो वेदाननिरुद्धमतः परम् ।अग्निमुत्तरतो हैमं वासुदेवमतःपरम्
समन्ताद्गुडपीठस्थानर्च्चयेत् काञ्चनान् बुधः ।स्थापयेद्बस्त्रसंयुक्तान् पूर्णकुम्भान् दशैव तु
दशैव घेनवो देयाः सहेमाम्बरदोहनाः ।पादुकोपानहच्छत्रचामरासनदर्पणैः
भक्ष्यभोज्यान्नदीपेक्षुफलमाल्यानुलेपनैः ।होमाधिवासनान्ते तु स्थापितो वेदपुङ्गवैः ।इममुच्चारयेन्मन्त्रं त्रिः कृत्वाथ प्रदक्षिणम्
नमोऽस्तु विश्वेश्वर ! विश्वधामजगत्सवित्रे भगवन्नमस्ते ।सप्तर्षिलोकामरभूतलेश !गर्भेण सार्द्धं वितरामि रक्षाम्
ये दुःखितास्ते सुखिनो भवन्तुप्रयान्तु पापानि चराचराणाम् ।त्वद्दानशस्त्राहतपातकानांब्रह्माण्डदोषाः प्रलयं व्रजन्तु
एवं प्रणम्यामरविश्वगर्भंदद्याद्द्विजेभ्यो दशघा विभज्य ।भागद्वयं तत्र गुरोः प्रकल्प्यसमं भजेच्छेषमतः क्रमेण
स्वल्पे तु होमे गुरुरेक एवकुर्य्यादथैकाग्निविधानयुक्त्या ।स एव संपूज्यतमोऽल्पवित्तै-र्यथोक्तवस्त्राभरणादिकेन
इत्थं एतदखिलं पुरुषोऽत्र कुर्य्याद्ब्रह्माण्डदानमघिगम्य महद्विमानम् ।निर्द्धूतकल्मषविशुद्धतनुर्मुरारे-रानन्दकृत्पदमुपैति सहाप्सरोभिः
सन्तारयेत् पितृपितामहपुत्त्रपौत्त्रान्बन्धुप्रियातिथिकलत्रशताधिकः सः ।ब्रह्माण्डदानशकलीकृतपापकौघ-मानन्दयेच्च जननीकुलमप्यशेषम्
इति पठति शृणोति वा एतत्सुरभवनेषु गृहेषु धार्म्मिकाणाम् ।मतिमपि ददाति मोदतेऽसा-वमरपतेर्भवने सहाप्सरोभिः
”इति मत्स्यपुराणे महादानानुकीर्त्तने ब्रह्माण्ड-दानको नाम २५० अध्यायः
*
अपि ।“इदानीं कार्त्तिकी चेयं वर्त्ततेऽद्य नराधिप ! ।ब्रह्माण्डं सर्व्वसम्पन्नं भूतरत्नौषधीयुतम्
देवदानवयक्षैश्च युक्तमेतत् सदा विभो ! ।एतद्धेममयं कृत्वा सर्व्वबीजरसान्वितम्
सरत्नं पुरुषं कृत्वा कार्त्तिक्यां द्बादशीदिने ।अथवा पञ्चदश्यां वै कार्त्तिक्याञ्चैव नान्यतः
पुरोहिताय गुरवे दापयेद्भक्तिमान्नरः ।ब्रह्माण्डोदरवर्त्तीनि यानि भूतानि पार्थिव ! ।तानि दत्तानि तेन स्युः समासात् कथितं तव
यो यज्ञैर्यजते राजन् ! सहस्रवरदक्षिणैः ।सैकोद्देशो यजेत्तस्य ब्रह्माण्डस्य विशेषतः
यः पुनः सकलञ्चेदं ब्रह्माण्डं दातुमिच्छति ।तेन यष्टं कृतं दत्तं पठितं कीर्त्तितं भवेत्
”वराह उवाच ।“एतत् कृत्वा ततो राजा हेमकुम्भे प्रकल्पनम् ।ब्रह्माण्डमृषये प्रादात् सपिधानञ्च तत्क्षणात्
सर्व्वकामैः सुसम्बीतो ययौ स्वर्गं नराधिपः
”इति वराहपुराणम्