ब्रह्माण्ड
brahmANDa
ब्रह्माण्ड
m.
(-ण्डः)
1.
The
globe,
the
world.
2.
One
of
the
Purānas.
E.
ब्रह्म
BRAHMĀ
and
अण्ड
an
egg,
to
which
it
is
compared;
in
creation
there
are
said
to
have
been
innumerable
Brahmāndas.
ब्रह्माण्ड
n.
Brahman's
egg,
i.e.
the
Universe.
ब्रह्मा_ण्ड
(ण्डः)
1.
m.
The
globe;
a
Puran.
ब्रह्माण्ड
m.
(-ण्डः)
1
The
globe,
the
world.
2
One
of
the
Purāṇas.
E.
ब्रह्म
BRAHMĀ,
and
अण्ड
an
egg,
to
which
it
is
compared;
in
creation
there
are
said
to
have
been
innumerable
Brahmāṇḍas.
N.
of
a
Purāṇa
and
an
Upapurāṇa
brahmARqa
n.
‘Brahmā's
egg’,
the
universe,
world
(also
pl.),
Hariv.;
Sūryas.;
Pur.
(also
-कटाह
m.,
Āryabh.
Sch.)
ब्रह्माण्ड
brahmANDa
n.
world
ब्रह्माण्ड
brahmANDa
n.
cosmos
ब्रह्माण्ड
brahmANDa
n.
brahmA's
egg
ब्रह्माण्ड
brahmANDa
n.
universe
ब्रह्माण्ड-
brahmANDa-
adj.
cosmic
ब्रह्माण्ड-रश्मि
brahmANDa-razmi
m.
cosmic
ray
ब्रह्माण्ड
brahma_aṇḍa,
n.
egg
of
Brahman,
universe,
world
(sts.
pl.):
-kapāla,
m.
hemisphere
of
the
world
=
inhabited
earth;
-ādya,
1.
fp.
eatable
for
Brāhmans;
2.
a.
beginning
with
Brahman;
-adhigamika,
a.
relating
to
Vedic
study;
-ānanda,
m.
rapturous
joy
in
Brahman;
-apeta,
(pp.)
m.
N.
of
a
Rākṣasa;
-abhyāsa,
m.
Vedic
study.
जहान
div.pe_tera{
font-family:Verdana,
"Lucida
Sans
Unicode",
sans-serif;
margin:
0
auto
0
auto;
line-height:1.5em;
color:black;
}
div.pe_patra{
margin:0
auto
0
auto;
padding:
1em;
max-width:55.8em;
font-size:
1em;
}
div.pe_vibhaaga_1{
margin-top:0.5em;
}
p.pe_vibhaaga_2{
margin-left:1em;
}
div.pe_shiram{
font-stle:bold;
min-width:7em;
padding:0.3em;
font-size:1.5em;
border:1px
solid
black;
min-width:7em;
}
span.pe_pradhaanapada{
font-style:italic;
font-weight:bold
text-decoration:underline;
color:black;
}
span.pe_vibhaaganaama_1{
font-style:italic;
font-weight:bold;
color:#133b5a;
}
span.pe_vibhaagasaMkhya_1{
font-style:italic;
font-weight:bold;
color:#133b5a;
}
a.pe_a_pglink{
text-decoration:none;
color:blue;
}
a.pe_a_pada:link,a.pe_a_pada:visited,a.pe_a_pada{
text-decoration:none;
color:#1A163A;
}
a.pe_a_pada_v:link,a.pe_a_pada_v:visited{
text-decoration:none;
color:inherit;
}
a.pe_a_pada:hover{
text-decoration:
underline;
color:#1A163A;
}
a.pe_a_pada_v:hover{
text-decoration:
underline;
}
div.pe_shir_shira{
max-width:15em;
text-align:left;
float:left;
margin:0;
}
div.pe_shiraputa{
max-width:15em;
text-align:right;
float:right;
}
div.pe_vivarana{
text-align:justify;
}
blockquote.pe_padyam{
font-style:italic;
font-weight:bold;
font-size:1.7em;
}
table.pe_cnpaTTika{
margin-left:2em;
}
ब्रह्माण्ड«word8»↶P158R↷BRAHMĀṆḌA
.
The
word
brahmāṇḍa
means
the
aṇḍa
of
brahmā
(aṇḍa-egg),
the
Supreme
Being
which
is
the
root
of
the
origin
of
the
universe.
At
a
time
long
ago,
which
is
beyond
reckoning,
there
was
nothing
but
an
egg.
This
egg
was
split
into
two
and
from
it
a
male
child
with
the
radiance
of
innumerable
suns
came
out.
This
wonderful
child
was
helpless.
After
his
birth
he
cried
for
a
while,
because
of
hunger
and
thirst.
He
got
no
help.
There
was
nobody
to
feed
it.
So
this
wonderful
child
looked
up
and
lay
there.
This
helpless
child
was
called
‘Virāṭpuruṣa’
(the
next
emanation
from
brahmā)
by
those
versed
in
the
Purāṇas.
The
boy
was
so
called
because
he
was
the
most
material
of
materiality.
But
he
was
an
atom
of
atoms
and
the
first
figuration
of
God.
From
each
pore
of
the
skin
of
the
great
virāṭ,
who
was
the
base
of
all
the
worlds
a
universe
came
into
being.
Thus
all
the
countless
universes
were
born.
Each
universe
has
its
own
trinity
of
brahmā,
viṣṇu,
śiva
and
devas
(the
bright
ones),
the
protectors
of
the
eight
zones.
One
universe
comprises
fourteen
worlds
or
realms,
from
pātāla
to
the
Brahmaloka
(from
the
nether
world
to
the
upper
world
or
the
realm
of
brahmā).
Countless
such
universes
exist.
Over
and
above
all
these
universes
there
is
vaikuṇṭha,
and
above
vaikuṇṭha
there
is
another
world
with
an
area
of
fifty
crore
yojanas
(leagues),
called
‘Goloka’
(the
world
of
cow).
Only
the
two
worlds
vaikuṇṭha
and
the
goloka
are
eternal.
Bhūloka
(the
earth)
consists
of
seven
islands
and
sixty-four
peninsulas.
There
are
seven
worlds
above
and
seven
worlds
below.
The
seven
upper
worlds
are
Bhūloka,
Bhuvarloka,
Svarloka,
janaloka,
tapoloka.
satyaloka
and
Brahmaloka.
Thus
a
universe
consists
of
fourteen
worlds.
This
is
the
idea
given
by
the
Purāṇas
about
brahmāṇḍa.
(devī
bhāgavata,
Skandhas
9).Mention
is
made,
in
the
viṣṇu
purāṇa,
aṁśa
2,
Chapter
7,
about
the
construction
of
brahmāṇḍa.This
brahmāṇḍa,
like
the
seed
of
the
Kapittha
tree
(Vitar--the
wood-apple),
is
covered
under,
above
and
all
around
by
aṇḍakaṭāha
(egg-shell).
The
aṇḍa
(egg)
is
covered
by
water
ten
times
the
egg
in
volume.
This
water-shell
is
covered
by
a
shell
of
fire.
Around
the
shell
of
fire
there
is
the
shell
of
air
and
the
air-shell
is
covered
with
ether.
Around
the
shell
of
ether
there
is
the
shell
of
Egoism
of
darkness.
Over
the
shell
of
Egoism
there
is
the
shell
of
glory
and
the
shell
of
glory
is
covered
by
prakṛti,
the
Divine
Nature.
It
is
immeasurable.
prakṛti
contains
numberless
Brahmāṇḍas.
As
oil
exists
in
sesame,
God
pervades
the
whole
universe.
This
is
the
connection
between
prakṛti
and
puruṣa.
(The
Nature
and
the
Supreme
Spirit).
ब्रह्माण्डं
,
क्ली,
(ब्रह्मणो
जगत्स्रष्टुरण्डम्
।
चतुर्द्दश-
भुवनगोलकः
।
यद्वा,
ब्रह्मणा
विश्वसृजा
कृत-
मण्डम्
।)
भुवनकोषः
।
विश्वगोलकः
।
यथा,
—
“ब्रह्माण्डरचनाख्यानं
श्रूयतां
सावधानतः
।
ब्रह्माण्डरचनार्थञ्च
भक्ता
जानन्ति
यत्नतः
॥
मुनयश्च
सुराः
सन्तः
किञ्चिज्जानन्ति
दुःखतः
।
जानामि
विश्वसर्व्वार्थं
ब्रह्मानन्तो
महेश्वरः
॥
धर्म्मः
सनत्कुमारश्च
नरनारायणावृषी
।
कपिलश्च
गणेशश्च
दुर्गा
लक्ष्मीः
सरस्वती
॥
वेदाश्च
वेदमाता
च
सर्व्वज्ञा
राधिका
स्वयम्
।
एते
जानन्ति
विश्वार्थं
नान्यो
जानाति
कश्चन
॥
वैषम्यार्थञ्च
सुधियः
सर्व्वे
विज्ञातुमक्षमाः
।
नित्याकाशो
यथात्मा
च
तथा
नित्या
दिशो
दश
॥
यथा
नित्या
च
प्रकृतिस्तथैव
विश्वगोलकः
।
गोलोकश्च
यथा
नित्यस्तथा
वैकुण्ठ
एव
च
॥
एकदा
मयि
गोलोके
रासे
नृत्यं
प्रकुर्व्वति
।
आविर्भूता
च
वामाङ्गाद्
बाला
षोडश-
वार्षिकी
॥
श्वेतचम्पकवर्णाभा
शरच्चन्द्रसमप्रभा
।
अतीवसुन्दरी
रम्या
रमणीनां
परात्परा
॥
ईषद्धास्या
प्रसन्नास्या
कोमलाङ्गी
मनोहरा
।
वह्रिशुद्धांशुकाधाना
रत्नाभरणभूषिता
॥
यथा
जलदपङ्क्तिश्च
बलाकाभिर्विभूषिता
।
सिन्दूरबिन्दुना
चारुचन्द्रचन्दनबिन्दुभिः
॥
कस्तूरीबिन्दुभिः
सार्द्धं
सीमन्ताधःस्थलोज्ज्वला
।
अमूल्यरत्ननिर्म्माणसुस्निग्धकिरणोज्ज्वला
॥
रत्नकुण्डलयुग्मेन
गण्डस्थलसमुज्ज्वला
।
कुङ्कुमालक्तकस्तूरीचारुचन्दनपत्रकैः
॥
विचित्रैश्च
सुचित्रैश्च
सुकपोलस्थलोज्ज्वला
।
खगेन्द्रचञ्चुविजितनासा
चार्व्वी
सुशोभिता
॥
गजेन्द्रगण्डनिर्मुक्तमुक्ताभूषणभूषिता
।
सूक्र्या
विमुक्तमुक्ताभदन्तपङ्क्तिमनोहरा
॥
वलिता
ललितातीव
पक्त्रविम्बाधरा
वरा
।
शश्वत्पूर्णेन्दुनिन्दास्या
पद्मनिन्दितलोचना
॥
कृष्णसारनिभोद्भिन्नसुचारुकज्जलोज्ज्वला
।
अमूल्यरत्ननिर्म्माणकेयूरकङ्कणोज्ज्वला
॥
मणीन्द्रराजराजीभिः
शङ्खयुग्मकरोज्ज्वला
।
रत्नाङ्गुरीयकैरेभिरमृताङ्गुलिभूषिता
॥
रत्नेन्द्रराजराजेन
क्वणन्मञ्जीररञ्जिता
।
रत्नपायकराजीभिः
पादाङ्गुलिविराजिता
।
सुन्दरालक्तरागेण
चरणाधःस्थलोज्ज्वला
॥
गजेन्द्रगामिनी
रामा
कामिनी
वामलोचना
।
मां
ददर्श
कटाक्षेण
रमणी
रमणोत्सुका
॥
रासे
संभूय
रामा
सा
दधाव
पुरतो
मम
।
तेन
राधा
समाख्याता
पुराविद्भिः
प्रपूजिता
॥
प्रकृष्टप्रकृतिश्चास्यास्तेन
प्रकृतिरीश्वरी
।
शक्ता
स्यात्
सर्व्वकार्य्येषु
तेन
शक्तिः
प्रकी-
र्त्तिता
॥
सर्व्वाधारा
सर्व्वरूपा
मङ्गलार्च्चा
च
सर्व्वतः
।
सर्व्वमङ्गलदक्षा
सा
तेन
स्यात्
सर्व्वमङ्गला
॥
वैकुण्ठे
सा
महालक्ष्मीर्मूर्त्तिभेदे
सरस्वती
।
प्रसूय
वेदान्
विदिता
वेदमाता
च
सा
सदा
॥
सावित्री
सा
च
गायत्त्री
धात्री
त्रिजगतामपि
।
पुरा
संहृत्य
दुर्गञ्च
सा
दुर्गा
च
प्रकीर्त्तिता
॥
तेजःसु
सर्व्वदेवानामाविर्भूता
पुरा
सती
।
तेनाद्यप्रकृतिर्ज्ञेया
सर्व्वासुरविमर्द्दिनी
॥
सर्व्वानन्दा
च
सानन्दा
दुःखदारिद्र्यनाशिनी
।
शत्रूणां
भयदात्री
च
भक्तानां
भयहारिणी
॥
दक्षकन्या
सती
सा
च
शैलजा
तेन
पार्व्वती
।
सर्व्वाधारस्वरूपा
सा
कलया
सा
वसुन्धरा
॥
कलया
तुलसी
गङ्गा
कलया
सर्व्वयोषितः
।
सृष्टिं
करोमि
च
यया
तया
शक्त्या
पुनःपुनः
॥
दृष्ट्वातां
रासमध्यस्थां
मम
क्रीडा
तया
सह
।
बभूव
सुचिरं
तात
!
यावद्वै
ब्रह्मणः
शतम्
॥
अत्यद्भुतं
कौतुकञ्च
महाशृङ्गारमीप्सितम्
।
तयोर्द्वयोर्घर्म्मराशिः
सुस्राव
रासमण्डले
॥
तस्मान्मनोहरं
जज्ञे
नाम्ना
कामसरोवरम्
।
पपात
घर्म्मधाराधो
वेगेन
विश्वगोलके
॥
बभूव
जलपूर्णञ्च
ब्रह्माण्डानाञ्च
गोलकम्
।
जलपूर्णं
पुरा
सर्व्वं
सृष्टिशून्यं
व्रजेश्वर
!
॥
शृङ्गारान्ते
च
तस्याञ्च
वीर्य्याधानं
मया
कृतम्
।
दधार
गर्भं
सा
राधा
यावद्बै
ब्रह्मणः
शतम्
॥
सुसाव
सा
तदन्ते
च
डिम्बं
तत्
परमाद्भुतम्
।
चुकोप
देवी
तं
दृष्ट्वा
रुरोद
विषसाद
सा
॥
पादेन
प्रेरयामास
तमधो
विश्वगोलके
।
स
पपात
जले
तात
!
सर्व्वाधारो
महान्
विराट्
॥
दृष्ट्वापत्यं
जलस्थञ्च
मया
शप्ता
च
सा
पुरा
।
अनपत्या
च
सा
राधा
मत्शापेन
पुरा
विभो
!
॥
तेन
प्रसूता
क्रमतो
दुर्गा
लक्ष्मीः
सरस्वती
।
चतस्रः
परिपूर्णा
सा
प्रसूताश्च
सुनिश्चितम्
॥
देव्योऽन्याश्चापि
कामिन्यो
न
प्रसूता
व्रजेश्वर
!
।
कलया
प्रभवो
यासां
कलांशांशेन
वा
व्रज
॥
जज्ञे
महान्
विराट्
तेन
डिम्बेन
कलयाश्रयः
।
अमृताङ्गुष्ठपीयूषं
मया
दत्तं
पपौ
च
सः
॥
जले
स्थावररूपश्च
स
शेते
निजकर्म्मणः
।
उपाधानं
जलं
तल्पं
तस्य
योगबलेन
च
।
तस्य
लोम्नाञ्च
कूपानि
जलपूर्णानि
सन्ततम्
।
प्रत्येकं
क्रमतस्तेषु
शेते
क्षुद्रविराट्
पुनः
॥
सहस्रपत्त्रं
कमलं
जज्ञे
क्षुद्रस्य
नाभितः
।
तत्र
जज्ञे
स्वयं
ब्रह्मा
तेनायं
कमलोद्भवः
॥
तत्राविर्भूय
स
विधिश्चिन्ताग्रस्तो
बभूव
च
।
कस्माद्देहः
क्व
माता
मे
पिता
वा
क्व
च
बान्धवः
॥
दिव्यं
त्रिलक्षवर्षञ्च
बभ्राम
कमलान्तरे
।
ततो
दण्डे
पञ्चलक्षं
सस्मार
तपसा
च
माम्
॥
तदा
मया
दत्तमन्त्रं
जजाप
कमलान्तरे
।
दिव्यं
सप्तवर्षलक्षं
नियतं
संयतः
शुचिः
॥
तदा
मत्तो
वरं
लब्धा
स्रष्टा
सृष्टिञ्चकार
सः
।
मायया
प्रतिब्रह्माण्डे
ब्रह्मविष्णुशिवात्मकाः
॥
दिक्पाला
द्वादशादित्या
रुद्राश्चैकादशापि
वा
।
नव
ग्रहाष्टौ
वसवो
देवाः
कोटित्रयस्तथा
॥
ब्राह्मणक्षत्त्रविट्शूद्रा
यक्षगन्धर्व्वकिन्नराः
।
भूतादयो
राक्षसाश्चाप्येवं
सर्व्वं
चराचरम्
॥
विश्वे
विश्वे
विनिर्म्माणं
स्वर्गाः
सप्त
क्रमेण
वै
।
सप्तसागरसंयुक्ता
सप्तद्वीपा
वसुन्धरा
॥
काञ्चनीभूमिसंयुक्ता
तमोयुक्तस्थलं
ततः
।
पातालाश्च
तथा
सप्त
ब्रह्माण्डमेभिरेव
च
॥
विश्बे
विश्वे
चन्द्रसूर्य्यौ
पुण्यक्षेत्रञ्च
भारतम्
।
तीर्थान्येतानि
सर्व्वत्र
गङ्गादीनि
व्रजेश्वर
!
॥
यावन्ति
लोमकूपानि
महाविष्णोः
क्रमेण
च
।
विश्वान्येव
हि
तावन्ति
ह्यसंख्यानि
पितर्ध्रुवम्
॥”
इति
ब्रह्मवैवर्त्ते
श्रीकृष्णजन्मखण्डे
।
८४
।
५२-१०१
॥
अपि
च
।
“देवीगुणत्रयाविष्टमण्डञ्च
कोटिविस्तरम्
।
ब्रह्मादिस्तम्बपर्य्यन्तमुत्पन्नं
सचराचरम्
॥
अण्डे
हिरण्यगर्भस्य
यदूर्द्ध्वं
गर्भसंश्रितम्
।
तत्रोत्पन्नमिदं
व्योमरूपाणि
र्द्यौर्मही
भवेत्
॥
अधोर्द्ध्वं
काञ्चनमयश्चतुरस्रोच्छ्रितो
महान्
।
उत्पन्नः
स
चतुःशृङ्गो
मेरुर्दैवतसंश्रयः
॥
पृथिवी
पद्मदिक्
क्षेत्रं
मेरुस्तस्य
तु
कर्णिका
।
युगाक्षकोटिविस्तीर्णं
तत्र
कृत्वा
रथं
रविः
।
देवीवशवृतो
देवैर्याति
तस्य
प्रदक्षिणम्
॥”
इति
देवीपुराणम्
॥
अथ
ब्रह्माण्डगोलमाह
।
“भूभूधरत्रिदशदानवमानवाद्या
ये
याश्च
धिष्ण्यगगनेचरचक्रकक्षाः
।
लोकव्यवस्थितिरुपर्य्युपरिप्रदिष्टा
ब्रह्माण्डभाण्डजठरे
तदिदं
समस्तम्
॥”
अथान्योदितं
ब्रह्माण्डमानं
पूर्व्वोक्तमपि
प्रस-
ङ्गादनुवदतिस्म
।
कोटिघ्नैर्नखनन्दषट्कनखभूभूभृद्भुजङ्गेन्दुभि-
र्ज्योतिःशास्त्रविदो
वदन्ति
नभसः
कक्षामिमां
योजनैः
।
तद्ब्रह्माण्डकटाहसम्पुटतटे
केचिज्जगुर्वेष्टनं
केचित्
प्रोचुरदृश्यदृश्यकगिरिं
पौराणिकाः
सूरयः
॥
करतलकलितामलकवदमलं
सकलं
विदन्ति
ये
गोलम्
।
दिनकरकरनिकरनिहततमसो
नभसः
परिधिरुदितस्तैः
॥
ब्रह्माण्डमेतन्मितमस्तु
नो
वा
कल्पे
ग्रहः
क्रामति
योजनानि
।
यावन्ति
पूर्ब्बैरिह
तत्प्रमाणं
प्रोक्तं
खकक्षाख्यमिदं
मतं
नः
॥”
इति
सिद्धान्तशिरोमणौ
गोलाध्याये
भुवनकोषः
॥
महादानविशेषः
।
यथा,
—
मत्स्य
उवाच
।
“अथातः
संप्रवक्ष्यामि
ब्रह्माण्डविधिमुत्तमम्
।
यच्छ्रेष्ठं
सर्व्वदानानां
महापातकनाशनम्
॥
पुण्यं
दिनमथासाद्य
तुलापुरुषदानवत्
।
ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम्
॥
लोकेशावाहनं
तद्बदधिवासनकं
यथा
।
कुर्य्याद्विंशपलादूर्द्ध्वमासहस्राच्च
शक्तितः
॥
कलसद्बयसंयुक्तं
ब्रह्माण्डं
काञ्चनं
बुधः
।
दिग्गजाष्टकसंयुक्तं
षड्वेदाङ्गसमन्वितम्
॥
लोकपालाष्टकोपेतं
मध्यस्थितचतुर्म्मुखम्
।
शिवाच्यतार्कशिखरमुमालक्ष्मीसमन्वितम्
॥
वस्वादित्यमरुद्गर्भं
महारत्नसमन्वितम्
।
वितस्तेरङ्गुलशतं
यावदायामविस्तरम्
॥
कौशेयवस्त्रसम्बीतं
तिलद्रोणोपरि
न्यसेत्
।
तथाष्टादश
धान्यानि
समन्तात्
परिकल्प-
येत्
॥
पूर्ब्बेणानन्तशयनं
प्रद्युम्नं
पूर्ब्बदक्षिणे
।
प्रकृतिं
दक्षिणे
देशे
सङ्कर्षणमतः
परम्
॥
पश्चिमे
चतुरो
वेदाननिरुद्धमतः
परम्
।
अग्निमुत्तरतो
हैमं
वासुदेवमतःपरम्
॥
समन्ताद्गुडपीठस्थानर्च्चयेत्
काञ्चनान्
बुधः
।
स्थापयेद्बस्त्रसंयुक्तान्
पूर्णकुम्भान्
दशैव
तु
॥
दशैव
घेनवो
देयाः
सहेमाम्बरदोहनाः
।
पादुकोपानहच्छत्रचामरासनदर्पणैः
॥
भक्ष्यभोज्यान्नदीपेक्षुफलमाल्यानुलेपनैः
।
होमाधिवासनान्ते
तु
स्थापितो
वेदपुङ्गवैः
।
इममुच्चारयेन्मन्त्रं
त्रिः
कृत्वाथ
प्रदक्षिणम्
॥
नमोऽस्तु
विश्वेश्वर
!
विश्वधाम
जगत्सवित्रे
भगवन्नमस्ते
।
सप्तर्षिलोकामरभूतलेश
!
गर्भेण
सार्द्धं
वितरामि
रक्षाम्
॥
ये
दुःखितास्ते
सुखिनो
भवन्तु
प्रयान्तु
पापानि
चराचराणाम्
।
त्वद्दानशस्त्राहतपातकानां
ब्रह्माण्डदोषाः
प्रलयं
व्रजन्तु
॥
एवं
प्रणम्यामरविश्वगर्भं
दद्याद्द्विजेभ्यो
दशघा
विभज्य
।
भागद्वयं
तत्र
गुरोः
प्रकल्प्य
समं
भजेच्छेषमतः
क्रमेण
॥
स्वल्पे
तु
होमे
गुरुरेक
एव
कुर्य्यादथैकाग्निविधानयुक्त्या
।
स
एव
संपूज्यतमोऽल्पवित्तै-
र्यथोक्तवस्त्राभरणादिकेन
॥
इत्थं
य
एतदखिलं
पुरुषोऽत्र
कुर्य्याद्
ब्रह्माण्डदानमघिगम्य
महद्विमानम्
।
निर्द्धूतकल्मषविशुद्धतनुर्मुरारे-
रानन्दकृत्पदमुपैति
सहाप्सरोभिः
॥
सन्तारयेत्
पितृपितामहपुत्त्रपौत्त्रान्
बन्धुप्रियातिथिकलत्रशताधिकः
सः
।
ब्रह्माण्डदानशकलीकृतपापकौघ-
मानन्दयेच्च
जननीकुलमप्यशेषम्
॥
इति
पठति
शृणोति
वा
य
एतत्
सुरभवनेषु
गृहेषु
धार्म्मिकाणाम्
।
मतिमपि
च
ददाति
मोदतेऽसा-
वमरपतेर्भवने
सहाप्सरोभिः
॥”
इति
मत्स्यपुराणे
महादानानुकीर्त्तने
ब्रह्माण्ड-
दानको
नाम
२५०
अध्यायः
॥
*
॥
अपि
च
।
“इदानीं
कार्त्तिकी
चेयं
वर्त्ततेऽद्य
नराधिप
!
।
ब्रह्माण्डं
सर्व्वसम्पन्नं
भूतरत्नौषधीयुतम्
॥
देवदानवयक्षैश्च
युक्तमेतत्
सदा
विभो
!
।
एतद्धेममयं
कृत्वा
सर्व्वबीजरसान्वितम्
॥
सरत्नं
पुरुषं
कृत्वा
कार्त्तिक्यां
द्बादशीदिने
।
अथवा
पञ्चदश्यां
वै
कार्त्तिक्याञ्चैव
नान्यतः
॥
पुरोहिताय
गुरवे
दापयेद्भक्तिमान्नरः
।
ब्रह्माण्डोदरवर्त्तीनि
यानि
भूतानि
पार्थिव
!
।
तानि
दत्तानि
तेन
स्युः
समासात्
कथितं
तव
॥
यो
यज्ञैर्यजते
राजन्
!
सहस्रवरदक्षिणैः
।
सैकोद्देशो
यजेत्तस्य
ब्रह्माण्डस्य
विशेषतः
॥
यः
पुनः
सकलञ्चेदं
ब्रह्माण्डं
दातुमिच्छति
।
तेन
यष्टं
कृतं
दत्तं
पठितं
कीर्त्तितं
भवेत्
॥”
वराह
उवाच
।
“एतत्
कृत्वा
ततो
राजा
हेमकुम्भे
प्रकल्पनम्
।
ब्रह्माण्डमृषये
प्रादात्
सपिधानञ्च
तत्क्षणात्
॥
सर्व्वकामैः
सुसम्बीतो
ययौ
स्वर्गं
नराधिपः
॥”
इति
वराहपुराणम्
॥
ब्र(व्र)ह्माण्ड
न०
६
त०
।
“तदण्डमभवद्धैमं
सहस्रांशुसम-
प्रमम्
।
तस्मिन्
जज्ञे
स्वयं
ब्रह्मा
सर्वलोकपितामहः”
इति
मनूक्ते
ब्रह्मण
उत्पादके
अण्डाकारे
१
भुवनकोषे
“ब्रह्माण्डभाण्डीदरभ्राम्यत्पिण्डितचण्डिमेति”
वीरचरि-
तम्
।
ब्रह्माण्डसंस्था
सू०
सि०
दर्शिता
यथा
“वासुदेवः
परं
ब्रह्म
तन्मूर्त्तिः
पुरुषः
परः
।
अव्यक्तो
निर्गुणः
शान्तः
पञ्चविंशात्
परोऽव्ययः
।
प्रकृत्यन्तर्गतो
देवो
बहिरन्तश्च
सर्वगः
।
सङ्कर्षणोऽपः
सृष्ट्वादौ
तास
वीजमवासृजत्
।
तदण्डमभवद्धैमं
सर्वत्र
तमसा-
वृतम्
।
तत्रानिरुद्धः
प्रथमं
व्यक्तीभूतः
सनातनः
।
हिरण्यगर्भो
भगवानेष
छन्दसि
पठ्यते
।
आदित्यो
ह्यादिभूतत्वात्
प्रसूत्या
सूर्य
उच्यते
।
परं
ज्योतिस्तमः-
पारे
सूर्योऽयं
सवितेति
च
।
पर्येति
भुवनान्येष
भाव-
यन्
भूतभावनः”
इत्युपक्रमे
“गुणकर्मविभागेन
सृष्ट्वा
प्राग्वदनुक्रमात्
।
विभागं
कल्पयामास
यथास्वं
वेददर्श-
नात्
।
ग्रहनक्षत्रताराणां
भूमेर्विश्वस्य
वा
विभुः
।
देवा-
सुरमनुष्याणां
सिद्धानां
च
यथाक्रमम्
।
ब्रह्माण्डमेतत्
सु-
षिरं
तत्रेदं
भूर्भुवादिकम्
।
कटाहद्वितयस्यैव
सम्पुटं
गोलकाकृति
(१)
।
ब्रह्माण्डमध्ये
परिधिर्व्योमकक्षाऽभिधी-
यते
।
तन्मध्ये
भ्रमणं
भानामधोऽधः
क्रमशस्तपा
।
मन्दामरेज्यभ्रपुत्रसूर्यशुक्रेन्दुजेन्दवः
।
परिभ्रमन्त्यधो-
ऽधस्था
।
सिद्धविद्याधरा
घनाः
।
उपरिष्टात्
स्थितास्तस्य
सेन्द्रा
देवा
महर्षयः
।
अधस्तादसुरास्तद्वत्द्विषन्तोऽन्यो-
न्यमाश्रिताः
।
ततः
समन्तात्
परिधिः
क्रमेणायं
महा-
णवः
।
मेखलेव
स्थितो
धात्र्या
देवासुरविभागकृत्
।
समन्तान्मेरुमध्यात्
तु
तुल्यभागेषु
तोयधेः
।
द्वीपेषु
दिक्षु
पूर्वादिनगर्य्यो
देवनिर्मिताः
।
भूवृत्तपादे
पूर्वस्यां
यमकोटीति
विश्रुता
।
भद्राश्ववर्षे
नगरी
स्वर्णप्राकार-
तोरणा
।
याम्यायां
भारते
वर्षे
लङ्का
तद्वतन्महापुरी
।
पश्चिमे
केतुमालाख्ये
रोमकाख्या
प्रकीर्त्तिता
।
उदक्
सिद्धपुरी
नाम
कुरुवर्षे
प्रकीर्त्तिता
।
तस्यां
सिद्धा
म-
हात्मानो
निवसन्ति
गतव्यथाः”
सू०
सि०
।
(१)
“एतत्
प्रागुक्तं
ब्रह्मणाघिष्ठितं
सुवर्णाण्डं
सुषिरमवका-
शात्मकं
तत्रावकाशे
इदं
जगत्
भूर्भुवादिकं
भूर्भुवःस्व-
र्गात्मकमवस्थितं
न
बहिः
।
नन्वण्डस्य
गोलाकारत्वेना-
न्तरवकाशात्मकत्वमसम्भवर्तात्यत
आह
कटाहद्वितय-
स्येति
।
कटाहोऽर्द्धगोलाकारं
सावकाशं
पात्रं
तस्य
द्वितयं
द्वयं
समं
तस्य
।
एवकारो
न्यूनाधिकव्यवच्छेद-
कार्थः
।
सम्पुटमाभिमुख्येन
मिलितं
गोलकाकृतिर्मोला-
कारः
स्यात्
।
तथाच
न
क्षतिः”
रङ्गना०
।
“भूभूधरत्रिदशदानवमानवाद्या
येऽयाश्च
धिष्ण्यगगने-
चरचक्रकक्षाः
।
लोकव्यवस्थितिरुपर्युपरि
प्रदिष्टा
ब्र-
ह्माण्डभाण्डजठरे
तदिदं
समस्तम्”
सि०
शि०
।
इदानी-
मन्योदितं
ब्रह्माण्डमानं
पूर्वं
कथितमपि
प्रसङ्गादनुव-
दति
स्म”
प्रमिता०
।
“कोटिघ्नैर्नखनन्दषट्कनखभूभूमृद्भु-
जङ्गेन्दुभि
१८७१२०६९२००००००००
र्ज्योतिः
शास्त्रविदो
वदन्ति
नभसः
कक्षामिमां
योजनैः
।
तद्ब्रह्माण्डकटाहसंपु-
टतटे
केचिज्जगुर्वेष्ठनं
केचित्
प्रोचुरदृश्यदृश्यकगिरिं
पौरा-
णिकाः
सूरयः
।
करतलकलितामलकवदमलं
सकलं
विदन्ति
ये
गोलम्
दिनकरकरनिकरनिहततमसो
नभसः
स
परिधिरुदितस्तैः
।
ब्रह्माण्डमेतन्मितमस्तु
नो
वा
कल्पे
ग्रहः
क्रामति
योजनानि
।
यावन्ति
पूर्वैरिह
तत्प्रमाणं
प्रोक्तं
खकक्षाख्यमिदम्
मतं
नः”
।
प्रमाणशून्यत्वात्
प्रयो-
जनाभावाच्चास्माभिर्ब्रह्माण्डमानं
न
कथितमित्यर्थः”
प्रमि०
।
दानार्थकल्पिते
महादानान्तर्गते
ब्रह्माण्डात्मकस्वर्णादि-
घटिते
२
पदार्थे
तत्स्वरूपादि
हेमा०
दा०
ख०
मत्स्यपु०
उक्तं
यथा
“अथातः
संप्रबक्ष्यामि
ब्रह्माण्डं
विधिपूर्वकम्
।
यच्छ्रेष्टं
सर्वभूतानां
महापातकनाशनम्
।
पुण्यं
दिनमथासाद्य
तुलापुरुषदानवत्
।
ऋत्विग्मण्ड-
पसम्भारभूषणाच्छादनादिकम्
।
लोकेशावाहनं
तद्वदधि-
वासनकं
तथा”
तुलापुरुदानवदिति,
कालदेशवृद्धि-
श्राद्धशिवादिपूजाब्राह्मणवाचनगुरुऋत्विग्वरणमधुपर्कदा-
नकुण्डमण्डपवेदिकासम्भारलोकेशावहनाधिवासनादि
सर्व
मत्स्यपुराणोक्ततुलापुरुषदानविहितं
वेदितव्यमित्यर्थः
।
“कुर्य्याद्विंशत्पलादूर्द्ध्वनासहस्राच्च
शक्तितः
।
शकल-
द्वयसंयुक्तं
ब्रह्माण्डं
काञ्चनं
बुधः”
।
शकलद्वयं,
खण्डद्व-
यम्
।
तल्लक्षणन्तु
ब्रह्माण्डपुराणे
“कुम्भच्छाया
भवेद्-
यादृक्
प्रतीच्यां
दिशि
चन्द्रमाः
।
उदितः
शुक्लपक्षादौ
वपुरण्डस्य
तादृशमिति”
कुम्भच्छाया
इति,
कुम्भच्छाया
ग्रीवाहीनकुम्भादिजेत्यवधेयम्
।
“दिग्गजाष्टकसंयुक्तं
ष-
ड्वेदाङ्गसमन्वितम्
।
लोकपालाष्टकोपेतं
मध्यस्थितचतु-
र्मुखम्
।
शिवाच्युतार्कशिखरमुमालक्ष्मीसमन्वितम्
।
वस्वादित्यमरुद्गर्भं
महारत्नसमन्यितम्”
।
अथैतेषां
दिग्-
गजप्रभृतीनां
क्रमेण
लक्षणाण्युच्यन्ते
आदित्यपुराणे
“शुभ्राभश्च
चतुर्दंष्ट्रः
श्रीमानैरावती
गजः
।
पुष्पदन्तो
वृहत्सास्नः
षड्दन्तः
पुष्पदन्तवान्
।
सामान्यपजरूपेण
शेषा
दिक्वरिणः
स्मृताः”
।
तन्नामानि
शास्त्रान्तरे
“ऐरावतः
पुण्डरीको
वामनः
कुमुदोऽञ्जनः
।
पुष्पदन्तः
सार्वभौमः
सुप्रतीकश्च
दिग्गजाः”
।
वेदाङ्गानि
स्कन्द-
पुराणे
“शिक्षा
कल्पो
व्याकरणं
निरुक्तं
ज्योतिषा-
ञ्चिति
।
छन्दश्चेति
षडेतानि
वेदाङ्गानि
प्रचक्षते
।
मूर्त्तानि
ब्रह्मणो
लोके
साक्षसूत्राणि
तानि
तु
।
द्विजालिभिः
शुभास्यानि
वामे
दधति
कुण्डिकाम्”
।
तानि
च
पश्चिमदिशि
वेदसन्निधौ
निवेशनीयानि
दिग्वि-
शेषानाम्नानात्
प्रधानं
नीयमानं
हि
तत्राङ्गान्यपकर्ष-
तीतिन्यायात्,
वक्ष्यते
च,
“पश्चिमे
चतुरोवेदानिति”
।
लोकपालरूपाण्याह
विश्वकर्मा
“चतुर्दन्तो
गजारूढो
वज्रपाणिः
पुरन्द्ररुः
।
प्राचीपतिः
प्रकर्त्तव्यो
नाना-
भरणभूषितः
।
पिङ्गभ्रूश्मश्रुकेशाक्षः
पीनाङ्गजठरो-
ऽरुणः
।
छागस्थः
साक्षसूत्रश्च
सप्तार्चिः
शक्तिधारकः
।
ईषत्पीनो
यमः
कार्य्यो
दण्डहस्तो
विजानता
।
रक्त-
दृक्
पाशधृक्
क्रुद्धो
निरृतिर्विकृताननः
।
पुंस्थिता
घड्गहस्तश्च
भूतवान्
राक्षसावृतः
।
वरुणः
पाशभृत्
सौम्यः
प्रतीच्यां
मकराश्रयः
।
धावद्धरिणपृष्टस्थो
ध्वजधारी
समीरणः
।
दशाश्वरथगः
सोमो
गदापा-
णिर्वरप्रदः”
।
“शशकवाहनः”
इत्यागमान्तरम्
।
“पूर्वोत्तरे
त्रिनेत्रश्च
वृषभस्थस्त्रिशूलभृत्
।
कपालपाणिश्चन्द्रार्द्ध-
भूषणः
परमेश्वरः”
।
चतुर्मुखरूपन्तु
विष्णुधर्मोत्तरात्
“पद्मपत्रासनस्थश्च
ब्रह्मा
कार्य्यश्चतुर्मुखः
।
अक्षमाला-
स्रजं
बिभ्रत्
पुस्तकञ्च
कमण्डलुम्
।
वासः
कृष्णाजिनं
तस्य
पार्श्वे
हंसस्तथैव
च”
।
शिवलक्षणमुक्तं
वायुपुराणे
“पञ्चवक्त्रो
वृषारूढः
प्रतिवक्त्रं
त्रिलोचनः
।
कपाल-
शूलखट्वाङ्गी
चन्द्रमौलिः
सदाशिवः”
।
विष्णुलक्षण-
मुक्तं
तुलापुरुषदाने
।
सूर्य्यलक्षणमुक्तं
विष्णुधर्मोत्तरे
“रविः
कार्य्यः
शुभश्मश्रुः
सिन्दूरारुणसुप्रभः
।
पद्मा-
सनः
पद्मकरो
भूषितो
रशनाधरः”
।
उमालक्ष्मीसमन्वित-
मित्यत्र,
शिवाच्युतयोः
सन्निहिते
उमालक्ष्म्यौ
विधेयौ
।
उमालक्षणमुक्तं
देवीपुराणे
“गौरीं
शङ्खेन्दुवर्णाभां
सर्व-
रीशनिषेविताम्
।
वृत्तपद्मासनासीनां
साक्षमूत्रकमण्ड-
लुम्
।
वरदोद्यतरूपाद्यां
सर्वमाल्यफलप्रियाम्”
।
वर-
दोद्यतरूपाद्यां,
वरदाभयपाणिकामित्यर्थः
।
लक्ष्मी-
लक्षणमुक्तं
पञ्चरात्रे
“पद्मासनस्थां
कुर्वीत
श्रियं
त्रै-
लोक्यमातरम्
।
गौरवर्णां
सुरूपाञ्च
सर्वालङ्कारभूषि-
ताम्
।
रौक्मपद्मकरव्यग्रां
वरदां
दक्षिणेन
तु”
।
वस्वा-
दित्यरूपाणि,
नारदीये,
“प्रसन्नवदनाः
सौम्या
वरदाः
शक्तिपाणयः
।
पद्मासनस्था
द्विभुजाः
कर्त्तव्या
वसवः
सदा
।
पद्मासनस्था
द्विभुजाः
पद्मगर्भान्तकान्तयः
।
करादिस्कन्धपर्य्यन्तनालपङ्कजधारिणः
।
अधःसंस्थित-
मेषादिराशयः
प्रावृताङ्घ्रिकाः
।
इन्द्राद्या
द्वादशादि-
त्यास्तेजोमण्डलमध्यगाः”
तथा
।
वायुतुल्येन
रूपेण
मरुतो
नाम
देवताः”
।
कर्त्तव्या
इति
शेषः,
वस्वादि-
नामानि,
तुलापुरुषोक्तानि
वेदितव्यानि
।
महारत्न-
समन्वितमिति,
महारत्नानि
परिभाषायामुक्तानि,
अ-
नन्तमिथुनान्वितमिति
क्वचित्पाठः
।
“फणासप्तान्वितो-
ऽनन्तः
पृथ्वी
स्त्रीरूपधारिणीत्यनन्तमिथुनम्
।
अथ
प्रकृतमुच्यते”
वितस्तेरङ्गुलशतं
यावदायामविस्तरम्
।
कौशे-
यवस्त्रसंवीतं
तिलद्रीणोपरि
न्यसेत्
।
तथाष्टादश
धा-
न्यानि
समन्तात्परिकल्पयेत्”
।
वितस्तेरङ्गुलशतमिति,
द्वादशाङ्गुलमारभ्याङ्गुलशतंयावच्छक्त्यनुसारेण
कार्य्य-
मित्यर्थः
।
द्रोणमानमष्टादश
धान्यानि
च
परिभाषायां
द्रष्टव्यानि
।
स
च
तिलद्रोणो
वेदिकायां
लिखितचक्र-
स्योषरि
स्थापनीयः
।
“पूर्वेणानन्तशयनं
प्रद्युम्नं
पूर्व-
दक्षिणे
।
प्रकृतिर्दक्षिणे
देशे
संकर्षणमतः
परम्
।
पश्चिमे
चतुरोवेदाननिरुद्धमतः
परम्
।
अग्निमुत्तरतो
हैमं
वासुदेवमतः
परम्
।
समन्ताद्गुणपीठस्थानर्चगेत्
काञ्च-
नान्
बुधः
।
स्थापयेद्वस्त्रसंवीतान्
पूर्णकुम्भान्
दशैव
तु”
।
पूर्वेणेत्यादि,
ब्रह्माण्डात्
पूर्वदेशे
अनन्तशयनं
शेषशायिनं
गुण
(सत्त्वादि)
पीठे
स्थापयेत्,
तन्मूर्त्तिलक्षणं
विष्णुधर्मोत्तरात्
“देवदेवश्च
कर्त्तव्यः
शेषसुप्तश्चतुर्भुजः
।
एकपादोऽस्य
कर्त्तव्यो
लक्ष्म्युत्सङ्गगतः
प्रभोः
।
तथाऽपरश्च
कर्त्तव्यः
शेषभोगाङ्कसंस्थितः
।
एकोभुजोऽस्य
कर्त्त-
व्यस्तत्र
जानौ
प्रसारितः
।
कर्त्तव्यो
नाभिदेशस्थ-
स्तथा
तस्यापरः
करः
।
तथैवान्यः
करः
कार्य्यो
देवस्य
तु
शिरोधरः
।
सन्तानमञ्जरीधारो
तथाचास्य
करः
परः
।
नाभिसम्भूतकमले
सुखासीनः
पितामहः
।
नाललग्नौ
तु
कर्त्तव्यौ
पद्मस्थौ
मधुकैटभौ
।
शङ्खचक्रगदादीनि
मूर्त्तानि
परितो
न्यमेदिति”
।
प्रद्युम्नलक्षणं
पञ्चरात्रा-
दिषु
“दक्षिणोर्द्धकरे
पद्मं
दद्याच्छङ्खमधः
करे
।
च-
क्रमूर्द्धे
ततो
वामे
गदां
दद्यात्
तथा
द्विज!
।
चापेषु-
धृम्वा
प्रद्युम्नो
रूपवान्
विश्वमीहनः”
इति
।
अत्र
यद्यपि
प्रकृतेरव्यक्तरूपतया
विधानमशक्यं
तथापि
ल-
क्ष्म्यादिशब्दव्यपदेश्यं
सुकरमस्ति
तद्रूपमित्यतस्तदन्यतम-
रूपनिर्माणमेव
न्याय्यम्
।
तदुक्तं
मार्कण्डेयपुराणे
“सर्वस्याद्या
महालक्ष्मीस्त्रिगुणा
परमेश्वरी
।
मातु-
लङ्गं
गदां
खेटं
पानपात्रञ्च
बिभ्रती
।
नागं
योनिञ्च
लिङ्गञ्च
विभ्रती
नृप!
मूर्द्धनीति”
।
संकर्षणरूपम्
विष्णुधर्मोत्तरे
“वासुदेवस्य
रूपेण
कार्य्यः
संकर्षणः
प्रभुः
।
स
तु
शुक्लवपुः
कार्य्यो
नीलवासा
यदूत्तम!
।
गदास्थाने
च
सुसलञ्चक्रस्थाने
च
लाङ्गलमिति”
।
वेदमूर्त्तयो
भूत-
घटे
वक्ष्यन्ते
।
अनिरुद्धरूपं
नारदीये
।
“कृष्णं
चतु-
र्भुजं
दक्षे
शरं
खड्गं
तदुत्तरे
।
धनुःखेटधरं
वीर-
मनिरुद्धं
प्रचक्षते”
।
अग्निलक्षणमुक्तम्
।
वासुदेवरूपमपि
नारदीये
“वासुदेवः
शिवः
शान्तः
सिताभश्च
चतुर्भुजः
।
योगमूर्द्धोर्द्धशङ्खश्च
हृद्देशार्पितहस्तकः
।
धारयेदुत्तरे
चक्रं
करे
वै
दक्षिणे
गदामिति”
।
एते
च
देवताविशेषा,
ब्रह्माण्डनिर्माणकॢप्तसुवर्णात्
पृथक्
सुवर्णेणैव
घट-
नीयाः
ब्रह्माण्डस्य
किल
विंशतिपलात्पभृति
पलमह-
स्राववधिरिह
नियमः,
पुराणेषु
दृश्यते
ततोऽवकृष्य-
माणकाञ्चने
तस्मिन्
न्यूनसंख्यत्वादयथावद्विहितत्वमा-
पद्यते
।
न
च
दिग्गजाष्टकसंयुक्तं
लोकपालोपेतमित्या-
दिना
एक
एव
तावद्भिरङ्गैरङ्गी
निष्पाद्यत
इति
ब्र-
ब्राण्डवत्कॢप्तसुवर्णेनैव
दिग्गजादिप्रतिमानिर्मितौ
न
कश्चिद्बाध
इति
वाच्यं,
“कृञ्चिनान्
कारयेदिति”
पुनः
काञ्चनोपदेशानार्थक्यापत्तेः
।
अश्रूयमाणपरिमाणानां
प्र-
तिमानामङ्गुष्ठपर्वप्रभृतिवितस्तिपर्य्यन्तं
यथाशक्ति
परिमाणं
कल्पनीयम्
।
“पूर्णकुम्भान्
स्थापयेदित्यत्र
समन्तादिति
योज्यम्
।
“दर्शव
घेनवो
देया
सहेमाम्बरदोहनाः
।
पा-
दुकीपानहच्छत्रचामरासनदर्पणैः
।
भक्ष्यभोज्यान्नदीपेक्षु-
फलमाल्यानुलेपनैः
।
होमाधिवासनान्ते
च
स्थाविती
वेदपुङ्गवैः
।
इत्थमुच्चारयेन्मन्त्रं
त्रिःकृत्वाथ
प्रदक्षिणम्”
।
सहेमाम्बरदोहना
इति,
हेमशृङ्ग्यः
ताम्रदोहनाः
स-
वस्त्राः
पार्श्वतो
दक्षिणार्थमुपकल्पनीयाः
।
तत्राचार्य्याय
द्वे,
ऋत्विग्भ्योऽष्टौ
संप्रदेया,
जापकादीनां
अन्यैव
यथाशक्ति
दक्षिणेति,
।
भविष्योत्तरे
तु
“ज्ञेयं
निष्कशतं
पार्थेत्यादिना
सुवर्णमेव
दक्षिणार्थमुपकल्पनीयमित्युक्तं,
श्राद्धाधिवासनदिनादन्येद्युरग्निकुण्डेषु
ऋत्विगुपवेशना-
दिकर्मशेषसमाप्तौ
तुलापुरुषदानवद्विहितायां,
पूर्ववदेव
स्रापितः
शुक्लमाल्याम्बरधरो
गृहीतकुसुमाञ्जलिर्यजमानो
ब्रह्माण्डं
त्रिःप्रदक्षिणीकृत्य
मन्त्रमुच्चारयेत्
।
मन्त्रः
।
“नभो-
ऽस्तु
विश्वेश्वर!
विश्वधामन्!
जगत्सवित्रे
भगवन्नमस्ते
।
सप्ताधिलोकामरभूतलेन
गर्भेण
सार्द्धं
वितराभिरक्षाम्
।
ये
दुःखितास्ते
सुखिनो
भवन्तु
प्रयान्तु
पापानि
चरा-
चराणाम्
।
त्वद्दानशस्त्राहतपातकानां
ब्रह्माण्डदोषाः
प्रलय
व्रजन्तु
।
एवं
प्रणम्यामरविश्वगर्भं
दद्याद्
द्विजेभ्यो
दशधा
विभज्य
।
भागद्वयं
तत्र
गुरोः
प्रकल्प्य
समम्भजे-
च्छेषमतः
क्रमेण”
।
दानवाक्यं
तुलापुरुषवद्बेदितव्यं
तच्च
दशधा
विभज्य
गुरोर्भागद्वयं
प्रकल्प्य
अवशिष्टाष्ट-
भागानामेकैकं
भागं
त्रिधा
विभज्य
चतुर्विंशतिसंख्येभ्य
ऋत्विगादिभ्यः
समं
दद्यात्,
तदनुज्ञयान्येभ्योऽपि
ब्राह्म
णेभ्यो
दद्यात्
।
“स्वल्पं
होमं
गुरुरेक
एव
कुर्य्यादथैकाग्नि-
विधानयुक्त्या
।
स
एव
संपूज्यतमोऽल्पवित्तैर्यथोक्तवस्त्रा-
भरणादिकेन”
।
वंशतिपलादारभ्य
पलसहस्रावधिद्रव्ये
ब्रह्माण्डे
सहस्रतदर्द्धादित्युत्तममध्यमादित्रैविध्यकल्प-
नायां
कनीयोभागस्याल्पत्वमवधेयं,
विंशतिपलनिर्मित-
स्यैवालपत्वमित्येके
उक्तविंशतिपलादर्वाक्
यथाशक्ति-
विधान
खल्पत्वमवगन्तव्यमिति
केचित्
।
एकाग्निविधानम्
एकस्मिन्नेव
कुण्डे
होमकरणम्
कुण्डमपि
वरुणदिग्-
भागस्थितं
वृत्ताकारञ्च
कार्य्यं
तदेतत्परिभाषायामुपपा-
दितम्
।
अथ
पुण्याहवाचने
कृते
देवतावेदीसमीपं
गत्वा
पूर्ववद्यजमानेन
देवतापूजायां
विहितायामाचार्य्यो
विस-
र्जनं
विदध्यात्
।
“इत्थं
य
एतदखिलं
पुरुषोऽत्र
कुर्य्या-
दब्रह्माण्डदानमधिगम्य
महद्विमानम्
।
निर्धूतकल्मष-
विशुद्धतनुर्मुरारेरानन्दकृत्
पदमुपैति
सहाप्सरोभिः
।
सन्तारयेत्
पितृपितामहपुत्रपौत्रबन्धुप्रियातिथिकलत्र-
शताष्टकं
सः
।
ब्रह्माण्डदानशकलीकृतपातकौघमानन्द-
येच्च
जननीकुलमप्यशेषम्
।
इति
पठति
शृणोति
वा
य
एतत्
सुरभवनेषु
गृहेषु
धार्मिकाणाम्
।
मतिमपि
च
ददाति
मोदते
सोऽमरपतिभवने
सहाप्सरोभिः”
।
“राजोवाच
विधिं
ब्रह्माण्डदानस्य
कृत्वा
यं
मोक्ष-
भाग्भवेत्
।
कालं
देशं
द्विजं
तीर्थं
सर्वमेत-
द्वदस्व
मे
।
कृतेन
येन
सर्वस्य
फलभागी
भवा-
म्यहम्
।
कुत्सितस्यास्य
भावस्य
मोक्षः
स्यादचिराच्च
मे
।
वशिष्ठ
उवाच
“एवं
श्रुत्वा
ततो
राजन्!
पुरोधास्तस्य
तं
द्विजः
।
ब्रह्माण्डं
कारयामास
सौवर्णं
सर्वधातुभिः
।
पीठं
निष्कसहस्रेण
पद्मं
तत्र
प्रकल्पयेत्
।
तत्र
ब्रह्मा
तस्य
मध्ये
पद्मरागैरलङ्कृतः
।
सावित्र्या
चैव
गायत्र्या
ऋषिभिर्मुनिभिः
सह
।
नारदाद्यैः
सुतैः
सर्वैरिन्द्राद्यैश्च
सुरैस्तथा
।
सौवर्णविग्रहाः
सर्वे
ब्रह्मणस्तु
पुरःसराः
।
वाराहरूपो
भगवान्
लक्ष्म्या
सह
सनातनः
।
नीला-
न्मरकतांश्चैव
भूषायान्तस्य
कारयेत्
।
रजतस्य
विशुद्धस्य
देहं
रुद्रस्य
कारयेत्
।
गोमेदकैस्तस्य
शोभाङ्कारयेदत्र
बुद्धिमान्
।
मौक्तिकैश्चापि
सोमस्य
शोभां
वल्कैर्दिवा-
करैः”
।
सावित्रीगायत्र्यौ
तु,
व्रह्मणः
पार्श्वभागे
स्थाप-
नीयौ
।
तदाह
नारदः
“सावित्री
दक्षिणे
पार्श्वे
गायत्री
नाम
वामतः
।
विलोकयन्त्यौ
ब्रह्माणं
साक्षसूत्रकमण्ड-
लुम्”
।
ऋषयः
सप्त
गोतमाद्याः
तदुक्तमादित्यपुराणे
“गो-
तमश्च
भरद्वाजो
विश्वामित्रश्च
काश्यपः
।
जमदग्नि-
र्वशिष्ठोऽत्रिः
सप्त
वैवस्वतेऽन्तरे”
।
सप्तर्षिलक्षणमाह
यमः
“पप्तर्षयस्तु
जटिलाः
कमण्डल्वक्षसूत्रिणः
।
ध्यान-
निष्ठा
वशिष्ठस्तु
कार्य्यो
भार्य्यासमत्वितः”
।
मुनयो
वानप्रस्थाः,
नारदाद्यैरिति
तेषां
विशेषणम्”
।
तानाह
मनुः
“अहं
प्रजाः
सिसृक्षुस्तु
तपस्तप्त्वा
सदुस्तरम्
।
पतीन्
प्रजानामसृजं
महर्षीनादितो
दश
।
मरीचि-
मत्र्यङ्गिरसं
पुलस्त्यं
पुलहं
क्रतुम्
।
प्रचेतसं
वशिष्ठञ्च
भृगुन्नारदमेव
च”
।
तल्लक्षणमाह
विश्वकर्मा
“जटिलाः
श्मश्रुलाः
शान्ता
दशाऽऽधमनिसन्तताः
।
कुसुम्भाक्षधराः
कार्य्या
मुनयो
द्विभुजाः
सदा
।
तेषु
सव्यभुजामूलश्लिष्ट-
चीरस्तु
नारदः
।
कर्पूरगौरदेहश्च
साक्षसूत्रकमण्डलुः”
।
इत्यादिरूपाण्यपि
प्रागभिहितानि
।
वाराहरूपं
विष्णु-
धर्मोत्तरे
“वाराहरूपः
कार्यस्तु
शेषोपरिगतः
प्रभुः
।
शेषश्चतुर्भुजः
कार्य्यश्चारुरत्नफणान्वितः
।
कर्त्तव्यौ
सीर-
मुसलौ
करयोस्तस्य
यादव!
।
सर्परूपश्च
कर्त्तय्यस्तथैव
रचिताञ्जलिः
।
आलीटस्थानसंस्थानस्तत्पृष्ठे
भगवान्
भवेत्
।
वामारत्निगता
तस्य
योषिद्रूपा
वसुन्धरा
।
नमस्कारपरा
तस्य
कर्त्तव्या
द्विभुजा
शुभा
।
यस्मिन्
भुजे
धरा
देवी
तत्र
शङ्खः
करे
भवेत्
।
अन्ये
तस्य
कराः
कार्य्याः
पद्मचक्रगदाधराः
।
पद्मासनस्थां
कुर्वीत
श्रियं
त्रैलोक्यमातरम्
।
गौरवर्णां
सुरूपाञ्च
सर्वालङ्कारभूषिताम्
।
रौक्मपद्मकरव्यग्रां
वरदां
दक्षिणेन
तु”
।
रुद्ररूपं
प्रागभितं
ग्रहलक्षणानि
तद्वर्णाश्च
नवग्रह-
दाने
वक्ष्यन्ते
।
सर्ववर्णानि
ग्रहसमानवर्णानि,
रत्नानि
भूषणार्थं
दापयेदित्यर्थः
।
सर्वधातुभिः
ब्रह्माण्डं
कर्त्त-
व्यमित्युक्तं,
तत्र
सुवर्णस्य
पीठनिर्माणादिविनियोगमभि-
धायेदानीं
धात्वन्तरैः
कर्त्तव्यं
तदुच्यते
“पीठात्
सप्तगुणं
रौप्यं
रौप्यात्ताम्रं
तथाविधम्
।
ताम्रात्
सप्त
गुणं
कार्य्यं
कांस्यमत्र
नराधिव!
।
त्रपुणः
परतः
सीसं
तावल्लोहं
च
कारयेत्
।
सप्तद्वीपाः
समुद्राश्च
सप्तैव
कुल-
पर्वताः
।
अनया
संख्यया
ज्ञात्वा
निपुणैः
शिल्पिभिः
कृताः”
।
तथाविधं
सप्तगुणमित्यर्थः
सप्तद्वीपा
इत्यादि
एतेषामेकैकधातुना
एकैकं
द्वीपं
समुद्रं
कुलाचलञ्च
रचये-
दित्यर्थः
।
“यादसानि
च
भूतानि
राजतान्येव
कार-
येत्
।
आरण्यानि
च
सत्त्वानि
सौवर्णानि
च
कारयेत्
।
वृक्षान्
वनस्पतींश्चात्र
तृणवल्लीः
सवीरुधः”
।
याद-
सानि,
जलसम्भवानि,
पुष्पफलवन्तो
वृक्षाः
अपुष्पाः
फलिनोवनस्पतयः,
वीरुधोगुच्छगुल्मादयः
।
“सर्वं
प्र-
कल्प्य
विधिवत्तीर्थे
देयं
विचक्षणैः
।
कुरुक्षेत्रे
गयायां
च
प्रयागेऽमरकण्ठके
।
द्वारवत्यां
प्रभासे
च
गङ्गाद्वारे
च
पुष्करे
।
तीर्थेष्वेतेषु
वै
देयं
ग्रहणे
सोमसूर्य्ययोः
।
दिमच्छेदेषु
सर्वेषु
अयने
दक्षिणोत्तरे
।
व्यतीपाते
बहुगुणं
विषुवे
च
विशेषतः
।
दातव्यमेतद्राजेन्द्र!
वि-
चारं
नैव
कारयेत्
।
कालाग्निहीत्रिणं
विप्रं
सुरू-
पञ्च
गुणान्वितम्
।
सपत्नीकं
च
संपूज्य
भूषयित्वा
वि-
भूषणैः
।
पुरोहितं
मुख्यतमं
कृत्वान्यांश्च
तथर्त्विजः
।
चतुर्विंशद्
गुणोपेतान्
सपत्नीकान्निमन्त्रितान्
।
अहता-
म्बरसुच्छन्नान्
स्रग्विणः
सुविभूषितान्
।
अङ्गुलीयकर-
त्नानि
कर्णवेष्टांश्च
दापयेत्
।
एवंविधांश्च
संपूज्य
तेषामग्रे
स्वयं
स्थितः
।
अष्टाङ्गप्रणिपातेन
प्रणन्य
च
पुनः
पुनः
।
पुरोहिताय
पुरतः
कृत्वा
वैकरसंपुटम्
।
यूयं
वै
ब्रह्मणा
धात्रा,
मैत्रत्वेनानुगृह्यताम्
।
सौमुख्येनेह
भवताम्भवेत्
पूतोनरः
स्वयम्
।
भवतां
प्रोतियोगेन
स्वयं
प्रीतः
पिता-
महः
।
ब्रह्माण्डेन
तु
दत्तेन
तेषां
प्रीतो
जनार्दनः
।
पिना-
कपाणिर्भगवान्
शक्रश्च
त्रिदशेश्वरः
।
एते
वै
तोषमायान्ति
अनुध्याता
द्विजोत्तमैः
।
एव
स्तुत्वा
ततो
राजा
ब्राह्मणान्
वेदवारमान्
।
ब्रह्माण्डं
गुरवे
प्रादात्
स-
विधानं
पुनः
पुनः
।
सर्वकामैस्ततस्तप्तो
ययौ
स्वर्गं
नराधिपः
।
तेनापि
गुरुणा
तच्च
विभक्तं
ब्राह्मणैः
सह
।
दत्तस्तैरपि
चान्येभ्यो
ब्रह्माण्डांशो
नराधिप!
।
ब्रह्माण्डं
भूमिदानं
च
ग्राह्यं
नैकेन
तद्भवेत्
।
गृह्ण-
न्दीषमवाप्नोति
ब्रह्महत्यां
न
संशयः
।
सर्वेषाञ्चैव
प्रत्यक्षं
दातव्यं
तन्नराधिप!
।
दीयमानञ्च
पश्यन्ति
तेऽपि
पूता
भवन्ति
हि
।
दर्शनादेव
ते
पूता
भवेयुर्नात्र
संशयः”
।
पद्मपुराणोक्तस्तद्विधिर्यथा
“शृणु
वत्स!
प्रवक्ष्यामि
ब्रह्माण्डाख्यं
पुरातनम्
।
तच्च
द्वादशसाहस्रं
भाविकल्पकथायुतम्
।
प्रक्रियाख्यो
१
ऽनषङ्गाख्य
२
उपोद्घात
३
स्तृतीयकः
।
चतुर्थ
उपसंहारः
४
पादाश्चत्वार
एव
हि
।
पूर्वपादद्वयं
पूर्वो
भागोऽत्र
समु-
दाहृतः
।
तृतीयो
मध्यमो
भागश्चतुर्थस्तूत्तरो
मतः
।
तत्र
पूर्वभागे
प्रक्रियापादे
“आदौ
कृत्यसमुद्देशो
नैमिषा-
ख्यानकं
ततः
।
हिरण्यगर्भोत्पत्तिश्च
लोककल्पनमेव
च
।
एष
वै
प्रथमः
पादो
द्वितीयं
शृणु
मानद”
।
पूर्वभागे
अनुषङ्गपादे
“कल्पमन्वन्तराख्यानं
लोकज्ञानं
ततः
परम्
।
मानससृष्टिकथनं
रुद्रप्रसववर्णनम्
।
महादेवविभूतिश्च
ऋषिसर्गस्ततःपरम्
।
अग्नीनां
विचयश्चाथ
कालस-
द्भाववर्णनम्
।
प्रियव्रताचयोद्देशः
पृथिव्यायामवि-
स्तरः
।
वर्णनं
भारतस्यास्य
ततीऽन्येषां
निरूपणम्
।
जम्ब्वादिसप्तद्वीपाख्या
ततोऽधीलोकवर्णनम्
।
ऊर्द्ध्वलोका-
नुकथनं
ग्रहचारस्ततःपरम्
।
आदित्यव्यूहकथनं
देव-
ग्रहानुकीर्त्तनम्
।
नीलकण्ठाह्वयाख्यानं
महादेवस्य
वैम-
वम्
।
अमावास्यानुकथनं
युगतत्त्वनिरूपणम्
।
यज्ञप्रवर्त्तनं
चाथ
युगयोरन्त्ययोः
कृतिः
।
यगप्रजालक्षणञ्च
ऋषि-
प्रवरवर्णनम्
।
वेदानां
व्यसनाख्यानं
स्यायम्भुवनिरूपणम्
।
शेषमन्वन्तराख्यानं
पृथिवीदोहनन्ततः
।
चाक्षुषेऽद्यतने
सर्गो
द्वितीयोऽङ्घ्रिः
पुरोदले”
।
मध्यभागे
उपोद्घातिपादे
“अथोपोद्घातपादे
तु
सप्तर्षिपरिकीर्त्तनम्
।
प्राजा-
पत्यचयस्तस्माद्देवादीनां
समुद्भवः
।
ततो
जयाभिव्या-
हारौ
मरुदुत्पत्तिकीर्त्तनम्
।
काश्यपेयानुकथनम्
ऋषि-
वंशनिरूपणम्
।
पितृकल्पानुकथनं
श्राद्धकल्पस्ततः-
परम्
।
वैवस्वतसमुत्पत्तिः
सृष्टिस्तस्य
ततः
परम्
।
मनु-
पुत्राचयश्चातो
गान्धर्वस्य
निरूपणम्
।
इक्ष्वाकुवंशकथनं
वंशोऽत्रेः
सुमहात्मनः
।
अमावसोराचयश्च
रजेश्चरित-
मद्भुतम्
।
ययातिचरितञ्चाथ
यदुवंशनिरूपणम्
।
कार्त्त-
वीर्य्यस्य
चरितं
जामदग्न्यं
ततः
परम्
।
कृष्णिवंशानु-
कथनं
सगरस्याथ
सम्भवः
।
भार्गवस्यानुचरितं
तथा-
र्य्यकबधाश्रयम्
।
सगरस्याथ
चरितं
भार्गवस्य
कथा
पुनः
।
देवासुराहवकथा
कृष्णाविर्भाववर्णनम्
।
इनस्य
च
स्तवः
पुण्यः
शुक्रेण
परिकीर्त्तितः
।
विष्णुमाहात्म्य-
कथनं
बलिवंशनिरूपणम्
।
भविष्यराजचरितं
संप्राप्तेऽथ
कलौ
युगे
।
एवमुद्द्वातपादाऽयं
तृतोयो
मध्यमे
दले”
।
उत्तरभागे
उपसंहारपादे
“चतुर्थमुपसंहारं
वक्ष्ये
खण्डे
तथोत्तरे
।
वैवस्वतान्तराख्यानं
विस्तरेण
यथातथम्
।
पूर्वमेव
समुद्दिष्टं
संक्षेपादिह
कथ्यते
।
भविष्याणां
मनू-
नाञ्च
चरितं
हि
ततः
परम्
।
कल्पप्रलयनिर्देशः
काल-
मानं
ततः
परम्
।
लोकाश्चतुर्दश
ततः
कथिता
मान-
लक्षणैः
।
वर्णनं
नरकाणाञ्च
विकर्माचरणैस्ततः
।
मनीमयपुराख्यानं
लयः
प्राकृतिकस्ततः
।
शैवस्याथ
पुर-
स्यापि
वर्णनञ्च
ततः
परम्
।
त्रिविधाद्गुणसम्बन्धा-
ज्जन्तूनां
कीर्त्तिता
गतिः
।
अनिर्देश्याप्रतर्कस्य
ब्रह्मणः
परमात्मनः
।
अन्वयव्यतिरेकाभ्यां
वर्णनं
हि
ततः
परम्
।
इत्येष
उपसंहारः
पादो
वृत्तः
स
चोत्तरः
।
चतुष्पादं
पुराणं
ते
ब्रह्माण्डं
समुदाहृतम्
।
अष्टादशमनौपम्यं
सारात्
सारतरं
द्विज!
।
ब्रह्माण्डञ्च
चतुर्लक्षं
पुराण-
त्वेन
पठ्यते
।
तदेव
व्यस्य
गदितमत्राष्टादशधा
पृथक्
।
पाराशर्य्येण
मुनिना
सर्वेषामपि
मानद!
।
वस्तुद्रष्ट्राथ
तेनैव
मुनीनां
भावितात्मनाम्
।
मत्तः
श्रुत्वा
पुराणानि
लोकेभ्यः
प्रचकाशिरे
।
मुनयो
धर्मशीलास्ते
दीनानुग्रह-
कारिणः
।
मया
चेदं
पुराणन्तु
वशिष्ठाय
पुरोदितम्
।
तेन
शक्तिसुतायोक्तं
जातूकर्णाय
तेन
च
।
व्यासो
लब्ध्वा
ततश्चैतत्
प्रमञ्चनमुखोद्गतम्
।
प्रमाणीमत्य
लोके-
ऽस्मिन्
प्रावर्त्तयदनुत्तमम्”
।
तत्फलश्रुतिः
“य
इदं
कीर्त्तयेद्वत्स!
शृणोति
च
समाहितः
।
स
विधूयेह
पापानि
याति
लोकमनामयम्
।
लिखित्वैतत्
पुराणन्तु
स्वर्णसिंहासनस्थितम्
।
पात्रेणाच्छादितं
यस्तु
ब्रह्मणाय
प्रयच्छति
।
स
याति
ब्रह्मणा
लोकं
नात्र
कार्य्या
विचारणा
।
मरीचे!
ऽष्टादशैतानि
मया
प्रोक्तानि
यानि
ते
।
पुराणानि
तु
सक्षेपाच्छ्रोतव्यानि
च
विस्त-
रात्
।
अष्टादश
पुराणानि
यः
शृणोति
नरोत्तमः
।
कथयेद्वा
विधानेन
नेह
भूयः
स
जायते
।
सूत्रमेतत्
पुराणानां
यन्मयोक्तं
तवाधुना
।
तन्नित्यं
शीलनीयं
हि
पुराणफलमिच्छता
।
न
दाम्भिकाय
पापाय
देव-
गुर्वनुसूयवे
।
देयं
कदापि
साधूनां
द्वेषिणे
न
शठाय
च
।
शान्ताय
रागिचित्ताय
श्रूश्रुषाभिरताय
च
।
निर्सत्सराय
शुचये
देय
सद्वैष्णवाय
च”
नारदीयपु०
४
पा०
१०९
अ०
।
ब्रह्माण्ड
n.
Brahman's
Ei,
das
Weltall.