| YouTube Channel

ब्रह्महा (brahmahA)

 
शब्दकल्पद्रुमः
Sanskrit
ब्रह्महा, [न्]
पुं,
(ब्रह्माणं ब्राह्मणं हतवान् ।ब्रह्म + हन् + “ब्रह्मभ्रूणवृत्रेषु क्विप् ।” २८७ इति क्विप् ।) ब्रह्मघ्नः ब्राह्मणवधकर्त्ता ।यथा, --“ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत् ।भिक्षाण्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम्
भिक्षाशी विचरेद्ग्रामं वन्यैर्यदि जीवति ।ब्रह्महत्यापनोदाय मितभुक् संयतेन्द्रियः
सर्व्वस्वं वेदविदे ब्राह्मणायोपपादयेत् ।धनं वा जीवनायालं गृहं वा सपरिच्छदम्
”इति प्रायश्चित्तविवेकः
तस्य नरकभोगान्ते जन्मानि यथा, --“श्वशूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् ।चण्डालपुक्कशानाञ्च ब्रह्महा योनिमृच्छति
”इति मानवे १२ ५५