| YouTube Channel

ब्रह्मसूत्रं (brahmasUtraM)

 
शब्दकल्पद्रुमः
Sanskrit
ब्रह्मसूत्रं,
क्ली,
(ब्रह्मणि वेदग्रहणकाले उपनयन-समये इत्यर्थः धृतं यत् सूत्रम् ।) यज्ञसूत्रम् ।तत्पर्य्यायः पवित्रम् यज्ञोपवीतम् द्बिजा-यनी इति त्रिकाण्डशेषः
उपवीतम् ५सावित्रम् सावित्रीसूत्रम् इति शब्द-रत्नावली
(यथा भागवते १८ १४ ।“तस्योपनीयमानस्य सावित्रीं सविताब्रवीत् ।बृहस्पति र्ब्रह्मसूत्रं मेखलां कश्यपोऽददात्
”तटस्थलक्षणपरं उपनिषद्वाक्यम् ब्रह्मनिर्णय-सूत्रम् यथा गीतायाम् १३ ।“ऋषिभिर्बहुधागीतं छन्दोभिर्विविधैः पृथक् ।ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः
”अस्य व्याख्याने श्रीधरस्वामिना यदुक्तं तदुच्यते ।“ऋषिभिर्वशिष्ठादिभिर्योगशास्त्रेषु ध्यानधार-णादिविषयत्वेन वैराग्यादिस्वरूपेण बहुधागीतं निरूपितम् विविधैर्विचित्रैर्नित्यनैमित्तिक-काम्यकर्म्मादिविषयैञ्छन्दोभिर्वेदैर्नानापूजनीय-देवतारूपेण गीतं ब्रह्मणः सूत्रैः पदैश्चब्रह्म सूत्र्यते सूच्यते एभिरिति ब्रह्मसूत्राणियतो वा इमानि भूतानि जायन्त इत्यादीनितटस्थलक्षणपराणि सत्यं ज्ञानमनन्तं ब्रह्मे-त्यादीनि तैश्च बहुधा गीतम् किञ्च हेतु-मद्भिः सदेव सौन्येदमग्र आसीत् कथमसतःसदजायत इति को ह्येवान्यात् कः प्राण्यात्यदेष आकाश आनन्दो स्यात् एष ह्येवानन्द-यातीत्यादि युक्तिमद्भिः अन्यात् अपानचेष्टांकः कुर्य्यात् प्राण्यात् प्राणव्यापारं वा कःकुर्य्यादिति श्रुतिपदयोरर्थः विनिश्चितैरुप-क्रमोपसंहारैकवाक्यतया असन्धिग्धार्थप्रति-पादकैरित्यर्थः तदेवमेतैर्विस्तरेणोक्तं दुःसं-ग्रहं संक्षेपतस्तुभ्यं कथयिष्यामि तत् शृण्वि-त्यर्थः यद्वा “अथातो ब्रह्मजिज्ञासा” इत्या-दीनि ब्रह्मसूत्राणि गृह्यन्ते तान्येव ब्रह्म पद्यतेनिश्चीयते एभिरिति पदानि तैर्हेतुमद्भिरीक्ष-तेर्ना शब्दं आनन्दमयोऽभ्यासादित्यादि युक्ति-मद्भिर्विनिश्चितार्थैः
)